マハーバーラタ · 章 9.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.1.1
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ ९.१.१ ॥
ナーラーヤナと、人の中で最も優れたナラとに礼拝し、また女神サラスヴァティーにも礼拝して、そのうえで(この書の)勝利を唱えるべきである。
9.1.2
एवं निपातिते कर्णे समरे सव्यसाचिना ।
अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज ॥ ९.१.२ ॥
このようにアルジュナ(サヴィヤサーチン)によってカルナが戦場で倒された時、残り少ないクル族の者たちは何をしたのか、ドヴィジャよ。
9.1.3
विदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः ।
पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः ॥ ९.१.३ ॥
パーンダヴァ兵によって軍が引き裂かれるのを見た王スヨーダナ(ドゥルヨーダナ)は、時が来た時、何に遭ったのか、クル族の者よ。
9.1.4
एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम ।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ ९.१.४ ॥
私はこれを聞きたいのです。ドゥヴィジャの中で最もすぐれた方よ、どうかそれを語ってください。先祖の偉大な行いを聞いても、私は満足しないのです。
9.1.5
ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः ।
भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत् ॥ ९.१.५ ॥
そこで、王よ、カルナが殺されると、ドリタラーシュトラの子スヨーダナは深い悲しみの海に沈み、あらゆる面で絶望した。
9.1.6
हाकर्ण हाकर्ण इति शोचमानो मुहुर्मुहुः ।
कृच्छ्रात्स्वशिबिरं प्रायाद्वतशिष्टैर्नृपैः सह ॥ ९.१.६ ॥
「ああ、カルナよ!ああ、カルナよ!」と幾度も嘆きながら、残った王たちとともに、やっとの思いで自分の陣営へ向かった。
9.1.7
स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः ।
राजन्विभूतिमिच्छद्भिः सूतपुत्रमनुस्मरन् ॥ ९.१.७ ॥
聖典に定められた理由によって慰められたが、王よ、栄華を望む彼は御者の子(カルナ)を思い続けた。
9.1.8
स दैवं बलवन्मत्वा प्रभाते विमले सति ।
सङ्ग्रामे निश्चयं कृत्वा पुनर्युद्वाय निर्ययौ ॥ ९.१.८ ॥
運命を強大と見なし、澄んだ夜明けに戦いへの決意を固めて、彼は再び戦いに出発した。
9.1.9
शल्यं सेनापतिं कृत्वा विधिवद्राजसत्तमम् ।
रणाय निर्ययौ राजा हतशिष्टैर्नृपैः सह ॥ ९.१.९ ॥
シャリヤを規定どおりに総司令官に任じ、最上の王は生き残った諸王とともに戦いへ出発した。
9.1.10
ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः ।
बभूव भरतश्रेष्ठ देवासुररणोपमम् ॥ ९.१.१० ॥
そして、バラタの最上の者よ、クル軍とパーンダヴァ軍の間に、神々と阿修羅の戦いに似た極めて激しい戦いが起こった。
9.1.11
ततः शल्यो महाराज कृत्वा कदनमाहवे ।
पाण्डुसैन्येऽथ मध्याह्ने धर्मराजेन पातितः ॥ ९.१.११ ॥
そして偉大なる王よ、戦いで大虐殺を行ったシャリヤは、正午にパーンダヴァ軍の中で法王(ユディシュティラ)に倒された。
9.1.12
ततो दुर्योधनो राजा हतबन्धू रणाजिरात् ।
अपसृत्य हदं घोरं विवेश रिपुजाद्भुयात् ॥ ९.१.१२ ॥
そして王ドゥルヨーダナは、戦死した親族とともに戦場から退き、敵への恐怖から、あの恐ろしい湖に入った。
9.1.13
अथापराह्णे तस्याह्नः परिवार्य महारथैः ।
हदादाहूय युद्वाय भीमसेनेन पातितः ॥ ९.१.१३ ॥
その日の午後、大戦車兵たちが彼を取り囲んだ。湖から戦いへと呼び出され、彼はビーマセーナに打ち倒された。
9.1.14
तस्मिंस्तु निहते वीरे महेष्वासास्त्रयो रणे ।
कृतवर्मा कृपो द्रौणिर्जघ्नुः पाण्डवसैनिकान् ॥ ९.१.१४ ॥
その英雄が殺されると、三人の大弓手——クリタヴァルマン、クリパ、ドローナの子ドラウニ——が戦場でパーンダヴァの兵を打ち倒した。
9.1.15
ततः पूर्वाह्णसमये शिबिरादेत्य सञ्जयः ।
प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः ॥ ९.१.१५ ॥
その後、午前のころ、陣営から来たサンジャヤは悲嘆に沈み、苦しみと嘆きに満ちて都に入った。
9.1.16
स प्रविश्य पुरीं सूतो भूजावुच्छ्रित्य दुःखितः ।
वेपमानस्ततो राज्ञः प्रविप्रेश निवेशनम् ॥ ९.१.१६ ॥
都に入った御者サンジャヤは悲嘆のうちに両腕を上げ、震えながら王の住まいに入った。
9.1.17
धावतश्चाप्यपश्य… तत्रत्यान्पुरुषर्षभान् ।
नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशदुःखितान् ॥ ९.१.१७ ॥
走り回りながら彼は、人の中の雄牛たち——心を失い、狂人のように、悲嘆に深く打ちひしがれた者たち——を見た。
9.1.18
दृष्ट्वैव च नराञ्शीघ्रं व्याजहारातिदुःखितः ।
अहो बत विपन्नोऽस्मि निधनेन महात्मनः ॥ ९.१.१८ ॥
その人々を見るやいなや、ひどく悲しんで彼は言った。「ああ! 偉大な方の死によって、私は破滅した!」
9.1.19
अहो सुबलवान्कालो गतिश्च परमा तथा ।
शुक्रतुल्यबलाः सर्वे यत्राहन्यन्त पार्थिवाः ॥ ९.१.१९ ॥
ああ!時は非常に強力で、その歩みは至上である。シュクラに等しい力を持つ王たちは皆、そこで殺された。
9.1.20
तं दृष्ट्वैव पुरे राजञ्जनः सर्वः स्म सञ्जयम् ।
प्ररुरोद भयोद्विग्नो हा राजन्निति सुस्वरम् ॥ ९.१.२० ॥
王よ!町の人々は皆、サンジャヤを見て恐怖に動揺し、「ああ、王よ!」と大声で泣き叫んだ。
9.1.21
आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः ।
आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम् ॥ ९.१.२१ ॥
人中の虎よ!王が殺されたと聞くと、子供に至るまで町中の四方から大きな嘆きの叫びが上がった。
9.1.22
तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम् ।
ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम् ॥ ९.१.२२ ॥
こうして動揺した御者は王宮に入り、知恵の眼を持つ、王の中の最勝者、主君を見た。
9.1.23
दृष्ट्वा चासीनमनघं समन्तात्परिवारितम् ।
स्नुषामिर्भरतश्रेष्ठ गान्धार्या विदुरेण च।
तथाऽन्यैश्च सुहृद्भिश्च ज्ञातिमिश्च हितैषिभिः ॥ ९.१.२३ ॥
バラタ族の最勝者よ!彼は罪なき王が座しているのを見た。その周りをすべての嫁たち、ガーンダーリー、ヴィドゥラ、そしてその他の、王の幸せを願う友や親族が取り囲んでいた。
9.1.24
तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति ।
रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय ॥ ९.१.२४ ॥
カルナの死のことばかりを思い巡らし、泣きながら彼は王にこの言葉を語った。ジャナメージャヤよ!
9.1.25
नातिहृष्टमनाः सूतो बाष्पसन्दिग्धया गिरा ।
सञ्जयोऽहं नरव्याघ्र नमस्ते भरतर्षभ ॥ ९.१.२५ ॥
喜びの少ない心のまま、御者は涙に詰まった声で言った。「私はサンジャヤです、人中の虎、バラタの牡牛よ。あなたに礼を捧げます。」
9.1.26
मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा ।
उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः ॥ ९.१.२६ ॥
マドラの王シャリヤが殺され、スバラの子シャクニも殺された。人中の虎よ、堅固な勇気を持つカイタヴヤの子ウールカも殺された。
9.1.27
संशप्तका हताः सर्वे काम्भोजाश्च शकैः सह ।
म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः ॥ ९.१.२७ ॥
サンシャプタカは皆殺され、カンボージャもシャカ族とともに殺された。ミレッチャ、山岳の民、ヤヴァナも倒された。
9.1.28
प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः ।
उदीच्याश्च हताः सर्वे प्रतीच्याश्च नरोत्तमाः।
राजानो राजपुत्राश्च सर्वे विनिहता नृप ॥ ९.१.२८ ॥
大王よ、東方の者は殺され、南方の者もことごとく。北方の者は皆殺され、西方の者も、人中の最上の者たちよ。王も王子も皆ことごとく殺された、王よ。
9.1.29
कर्णपुत्रो हतः शूरः सत्यसेनो महाबलः ॥ ९.१.२९ ॥
カルナの子、勇士にして大力のサティヤセナが殺された。
9.1.30
दुर्योधनो हतो राजा ययोक्तं पाण्डवेन ह ।
… महाराज शेते पांसुषु रूषितः ॥ ९.१.३० ॥
般度の子が言った通り、王ドゥルヨーダナは殺された。……大王よ、彼は塵にまみれて横たわっている。
9.1.31
… हतो … जञ्शिखण्डी चापराजितः ।
उत्तमौज युधामन्युस्तथा सर्वे प्रभद्रकाः ॥ ९.१.३१ ॥
……殺された……シカンディンと不敗の者;ウッタマウジャス、ユダーマニユ、そして全てのプラバドラカ。
9.1.32
पाञ्चालश्च नरव्याघ्र चेदयश्च निषूदिताः ।
तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत ॥ ९.१.३२ ॥
パーンチャーラとチェーディもまた滅ぼされた、人中の虎よ。汝の全ての息子とドラウパディーの息子たちも殺された、バーラタよ。
9.1.33
नरा विनिहताः सर्वे गजाश्च विनिपातिताः ।
रथिनत्र नरव्याघ्र हयाश्च निहता युधि ॥ ९.१.३३ ॥
すべての人々は完全に殺され、象は打ち倒された。人中の虎よ、戦車兵も、馬も戦いで殺された。
9.1.34
नि… शिबिरं रावंजावकानां कृतं प्रभो ।
पाण्डवानां च शूराणां समासाद्य परस्परम् ॥ ९.१.३४ ॥
……主よ、パーンダヴァたちと勇士たちが互いに出会った時、ラーヴァンジャーヴァカの陣営は破壊された。
9.1.35
… स्रीशेषमभवज्जगत्कालेन मोहितम् ।
सप्त पाण्डवतः शिष्टा धार्तराष्ट्रास्त्रयोरथाः ॥ ९.१.३५ ॥
……女性だけが残った;時によって世界は惑わされた。パーンダヴァからは七人が残り、ドリタラーシュトラの息子たちからは三人の戦車兵が残った。
9.1.36
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः ।
कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः ॥ ९.१.३६ ॥
その五人の兄弟、ヴァースデーヴァ、サーティヤキ、クリパ、クリタヴァルマン、そして勝者の中で最もすぐれたドラウニ。
9.1.37
एते शेषा महाराज रथिनो नृपसत्तम ।
अक्षौहिणीनामष्टानां दशानां च न संशयः ॥ ९.१.३७ ॥
偉大な王よ、王の中の最良の方よ、これらが残った戦車の戦士たちです。八つと十のアクシャウヒニーの軍のうち、疑いはありません。
9.1.38
एते शेषा महाराज सर्वेऽन्ये निधनं गताः ।
कालेन निहतं सर्वं जगद्वै भरतर्षभ।
दुर्योधनं वै पुरतः कृत्वा सर्वे नरा हताः ॥ ९.१.३८ ॥
偉大な王よ、残った者たちも、その他の者たちも皆死に赴きました。バラタの牡牛よ、時によって世界全体が打ち倒されたのです。ドゥルヨーダナを先頭にして、すべての人々が殺されました。
9.1.39
एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः ।
निपपात स राजेन्द्रो गतसत्वो महीतले ॥ ९.१.३९ ॥
この残酷な言葉を聞いて、人々の主、王の中の王ドリタラーシュトラは、生気を失って地に倒れた。
9.1.40
तस्मिन्निपतिते वीरे विदुरोऽपि महायशाः ।
निपपात महाराज शोकव्यसनकर्शितः ॥ ९.१.४० ॥
その英雄が倒れると、名高きヴィドゥラもまた、偉大な王よ、悲しみと苦難に打ちのめされて倒れた。
9.1.41
गान्धारी च महाभागा सर्वाश्च कुरुयोषितः ।
पतिताः सहसा भूमौ श्रुत्वा घोरतरं वचः ॥ ९.१.४१ ॥
大いに幸運なガーンダーリーと、クル族のすべての女性たちは、この最も恐ろしい言葉を聞いて、突然地に倒れた。
9.1.42
निःसंज्ञं पतितं भूमौ तदाऽऽसीद्राजमण्डलम् ।
विलापमुक्तोपहतं चित्रं न्यस्तं पटे यथा ॥ ९.१.४२ ॥
そのとき王たちの集いは意識を失って地に倒れ、嘆きに打ちのめされ、布に描かれた絵のように横たわっていた。
9.1.43
कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः ।
शनैरलभत प्राणान्पुत्रव्यसनकर्शितः ॥ ९.१.४३ ॥
そのとき大地の主であるdhṛtarāṣṭra王は、息子たちの破滅に打ちひしがれ、苦しみながらゆっくりと息を取り戻した。
9.1.44
लब्ध्वा तु स नृपः प्राणान्वेपमानः सुदुःखितः ।
निरीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत् ॥ ९.१.४४ ॥
息を取り戻した王は、震え、深く悲しみ、四方を見渡してから、kṣattṛにこの言葉を告げた。
9.1.45
विद्धि क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ ।
ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः।
एवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह ॥ ९.१.४५ ॥
大いなる智慧を持つkṣattṛよ、バラタの雄牛よ、息子たちをすっかり失い、まったく頼る者のない私にとって、あなたこそが拠り所であると知れ。こう言って彼は再び気を失って倒れた。
9.1.46
तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन ।
शीतैस्ते सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि ॥ ९.१.४६ ॥
彼がこのように倒れているのを見て、親族の何人かは冷たい水を振りかけ、扇で風を送った。
9.1.47
स तु दीर्घेण कालेन प्रत्याश्वस्तो नराधिपः ।
तूष्णीमासीन्महीपालः पुत्रव्यसनकर्शितः ॥ ९.१.४७ ॥
しかししばらくして、この人の主は意識を取り戻した。息子たちの破滅に打ちひしがれた大地の守護者は、黙ったまま座っていた。
9.1.48
निःश्वसञ्जिह्मग इव कुम्भक्षिप्तोऽभवन्नृपः ॥ ९.१.४८ ॥
蛇のように息を吐きながら、王は壺に投げ込まれた者のようになった。
9.1.49
सञ्जयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम् ।
तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी ॥ ९.१.४९ ॥
そこでサンジャヤも、苦悩する王を見て泣いた。女たちすべてと、名高いガーンダーリーも同様に泣いた。
9.1.50
ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत् ।
धृतराष्ट्रो नरश्रेष्ठ मुह्यमानो मुहुर्मुहुः ॥ ९.१.५० ॥
やがて長い時間が経ち、ドリタラーシュトラは、人の中の最上者ヴィドゥラに、幾度も幾度も茫然としながらこの言葉を言った。
9.1.51
गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी ।
तथेमे सुहृदः सर्वे मुह्यते मे मनो भृशम् ॥ ९.१.५१ ॥
すべての女たちと、名高いガーンダーリーは去れ。同様に、これらの友人たちもみな去れ。私の心は大いに惑乱している。
9.1.52
एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ ।
विसर्जयामास शनैर्मुह्यमानः पुनःपुनः ॥ ९.१.५२ ॥
このように言われて、バラタの牡牛ヴィドゥラは、それらの女たちをゆっくりと送り出した。彼自身は幾度も茫然としていた。
9.1.53
निश्चक्रमुस्ततः सर्वाः स्त्रियो भरतसत्तम ।
सुहृदश्च तथा सर्वे दृष्ट्वा राजानमातुरम् ॥ ९.१.५३ ॥
そして、バラタ族の最上の者よ、苦悩する王を見て、すべての女たちとすべての友人たちが外へ出て行った。
9.1.54
ततो नरपतिस्तत्र लब्ध्वा संज्ञां परन्तपः ।
गतिर्मे को भवेदद्य इति चिन्तासमाकुलः।
अपृच्छत्सञ्जयं तत्र रोदमानं भृशातुरम् ॥ ९.१.५४ ॥
そのとき、敵を焼く人主は意識を取り戻し、「今や私にどんな拠り所があるのか」という憂いに満ちて、そこで泣いている深く苦悩したサンジャヤに尋ねた。
9.1.55
प्राञ्जलिं सञ्जयं दृष्ट्वा रोदमानं मुहुर्मुहुः ।
ज्ञातीन्स्त्रियोऽथ निर्याप्य प्रविश्य विदुरःपुनः ॥ ९.१.५५ ॥
合掌して何度も泣くサンジャヤを見て、ヴィドゥラは親族と女性たちを外へ出し、再び中へ入った。
9.1.56
राजानं शोचमानस्तु तं शोचन्तं मुहुर्मुहुः ।
समाश्वासयत क्षत्ता वचसा मधुरेण च ॥ ९.१.५६ ॥
悲嘆する王と、何度も嘆き続ける彼を、執事ヴィドゥラは優しい言葉で慰めた。