Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.12.1

पीडिते धर्मराजे तु मद्रराजेन मारिष ।
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ।
परिवार्य रथैः शल्यं पीडयामासुराहवे ॥ ९.१२.१ ॥

当法王被摩德罗王所困时,啊,尊者,萨谛奇、怖军以及摩德丽的两个儿子般度族人,用战车包围了沙利亚,在战斗中逼迫他。

9.12.2

तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः ।
साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः ॥ ९.१२.२ ॥

看到他孤身一人被众多大车战士逼迫,一片巨大的赞叹之声响起,成就者们都欢喜起来。

9.12.3

आश्चर्यमित्यभाषन्त मुनयश्चापि सङ्गताः ॥ ९.१२.३ ॥

“真奇妙啊!”聚集在此的诸位仙人也这样说。

9.12.4

भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे ।
एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः ॥ ९.१२.४ ॥

在战斗中,怖军以一支箭射穿了在勇力上如同芒刺般的沙利亚,接着又用七支箭再次射穿他。

9.12.5

सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया ।
मद्रेश्वरमवाकीर्य सिंहनादमथानदत् ॥ ९.१२.५ ॥

萨谛奇想保护法王之子,以百支箭覆盖了摩德罗之主,随后发出狮吼。

9.12.6

नकुलः पञ्चभिश्चैनं सहदेवश्च प़ञ्चभिः ।
विद्ध्वा तं तु पुनस्तूर्णं ततो विव्याध सप्तभिः ॥ ९.१२.६ ॥

无种以五支箭射他,偕天也以五支箭射他;随后迅速再次射中他,又以七支箭射中。

9.12.7

स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः ।
विकृष्य कार्मुकं घोरं भारघ्नं वेगवत्तरम् ॥ ९.१२.७ ॥

那位勇士在战场上保持警觉,被那些大车战士所逼迫,拉开了他那可怕、能承重、更加迅捷的弓……

9.12.8

सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष ।
भीमसेनं तु सप्तत्या नकुलं सप्तभिस्तथा ॥ ९.१२.८ ॥

尊者啊,沙利耶以二十五箭射中萨谛奇,以七十箭射中毗摩,以七箭射中那古罗。

9.12.9

ततः स विशिखं चापं सहदेवस्य धन्विनः ।
छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः ॥ ९.१२.९ ॥

于是他在战场上以钩箭斩断了萨诃提婆这位弓手的弓和箭,并以二十一箭射中了他。

9.12.10

सहदेवस्तु समरे मातुलं भूरिवर्चसम् ।
सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत्।
शरैराशीविषाकारैर्ज्वलज्ज्वलनसन्निभैः ॥ ९.१२.१० ॥

然而,萨诃提婆在战场上另拉一弓,以五支如毒蛇、如燃烧烈火般闪耀的箭,狠狠射中了他那光辉灿烂的舅父。

9.12.11

सारथिं चास्य समरे शरेणानतपर्वणा ।
विव्याध भृशसङ्क्रुद्धस्तं वै भूयस्त्रिभिः शरैः ॥ ९.१२.११ ॥

他在战场上极为愤怒,以一支弯曲节的箭射中了其御者,之后又以三支箭再次射中他。

9.12.12

भीमसेनस्तु सप्तत्या सात्यकिर्नवभिः शरैः ।
धर्मराजस्तथा षष्ट्या गात्रे शल्यं समार्पयत् ॥ ९.१२.१२ ॥

毗摩以七十箭,萨谛奇以九箭,而法王同样以六十箭,射中了沙利耶的身体。

9.12.13

ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः ।
सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा ॥ ९.१२.१३ ॥

于是,大王啊,沙利亚被那些大车战士刺穿,血从肢体中流出,犹如赭土从山上流下。

9.12.14

तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः ।
विव्याध तरसा राजंस्तदद्भुतमिवाभवत् ॥ ९.१२.१४ ॥

大王啊,他迅速地用每人五支箭刺穿了所有那些大弓箭手,这看来十分惊人。

9.12.15

ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष ।
धनुश्चिच्छेद समरे सज्जयं स सुमहारथः ॥ ९.१२.१५ ॥

然后,先生啊,那位大车战士以另一支钩箭在战斗中斩断了法之子已上弦的弓。

9.12.16

अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः ।
साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः ॥ ९.१२.१६ ॥

然后法之子坚战拿起另一张弓,用箭把沙利亚连同他的车、马、御者和旗幡全都遮蔽了。

9.12.17

स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः ।
युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः ॥ ९.१२.१७ ॥

他在战斗中被法之子的箭所遮蔽,随即用十支利箭射穿了坚战。

9.12.18

सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते ।
मद्राणामधिपं शूरं शरैर्विव्याध पञ्चभिः ॥ ९.१२.१८ ॥

于是,见法之子被箭所伤,萨提奇大怒,用五支箭射穿了摩德罗国之主、英雄沙利亚。

9.12.19

स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः ।
भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत् ॥ ९.१२.१९ ॥

他用一支剃刀形箭头斩断了萨提亚奇的大弓,并以三支箭射中以婆罗门斯那为首的每一人。

9.12.20

तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः ।
तोमरं प्रेषयामास स्वर्णदण्डं महारणे ॥ ९.१२.२० ॥

大王啊,萨提亚奇满怀真实的勇力,怒气冲冲地在那场大战中投出一支金柄的投枪。

9.12.21

भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम् ।
नकुलः समरे शक्तिं सहदेवो गदां शुभाम्।
धर्मराजः शतघ्नीं च जिघांसुः शल्यमाहवे ॥ ९.१२.२१ ॥

随后,毗摩センa射出一支如燃烧毒蛇般的箭,那拉库拉在战中投出一支投枪,萨哈德瓦投出一柄美丽的鎚,而法王欲在战中杀死沙利亚,投出了一件百杀器(舍塔格尼)。

9.12.22

तानापतत एवाशु पञ्चानां वै भुजच्युतान् ।
वारयामास समरे शस्त्रसङ्घैः स मद्रराट् ॥ ९.१२.२२ ॥

那些从五人手中射出、疾速飞来的兵器,被摩德罗王在战中以密集的兵器箭雨挡开。

9.12.23

सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम् ।
प्रहितं भीमसेनेन शरं कनकभूषणम् ॥ ९.१२.२३ ॥

沙利亚用新月形箭斩断了萨提亚奇所射的投枪,以及毗摩セーナ所射、饰以黄金的箭。

9.12.24

द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान् ।
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम् ॥ ९.१२.२४ ॥

这位手法娴熟、威力强大的人在战中将那柄由那拉库拉射出、饰有金柄、令人恐惧的长矛劈为两段。

9.12.25

गदां च सहदेवेन शरौघैः समवारयत् ।
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत ॥ ९.१२.२५ ॥

偕提婆以箭雨完全挡住了他的棍棒;婆罗多后裔啊,他又以两支箭斩断了国王的那柄百杀铁杵。

9.12.26

पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च ।
नामृष्यत्तत्र शैनेयः शत्रोर्विजयमाहवे ॥ ९.१२.२६ ॥

在般度诸子注视之下,他发出狮子般的吼声;那里,希尼之后(萨提亚基)不能忍受敌人在战斗中的胜利。

9.12.27

अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्च्छितः ।
द्वाभ्यां मद्रेश्वरं विद्वा सारथिं च त्रिभिः शरैः ॥ ९.१२.२७ ॥

于是萨提亚基拿起另一张弓,怒火攻心,以两支箭射中摩德罗王(沙利亚),又以三支箭射中他的御者。

9.12.28

ततः शल्यो रणे राजन्सर्वांस्तान्दशभिः शरैः ।
विव्याध भृशसङ्क्रुद्धस्तोत्रैरिव महाद्विपान् ॥ ९.१२.२८ ॥

于是,国王啊,沙利亚在战斗中极度愤怒,以每人十支箭射穿了他们所有人,如同驭象者以钩刺大象一般。

9.12.29

ते वार्यमाणाः समरे मद्रराज्ञा महारथाः ।
न शेकुः सम्मुखे स्थातुं तस्य शत्रुनिषूदनाः ॥ ९.१२.२९ ॥

尽管被摩德罗王所阻,那些摧毁敌人的大战车武士,在战场上却不能与他正面对抗。

9.12.30

ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम् ।
निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान्। ॥ ९.१२.३० ॥

于是国王难敌见沙利亚的勇武,以为般度五子、般遮罗人与苏兰遮耶人已被杀尽。

9.12.31

तथाविधं महाराज मद्रराजस्य विक्रमम् ।
असह्यं मानवैर्युद्धे तद्बभूव नरर्षभ ॥ ९.१२.३१ ॥

大王啊,摩德罗国王的勇猛如此,在战斗中令人类无法承受,人中之牛啊。

9.12.32

ततो राजन्महाबाहुर्भीमसेनः प्रतापवान् ।
सन्त्यज्य मनसा प्राणान्मद्राधिपमयोधयत् ॥ ९.१२.३२ ॥

于是,大王啊,大臂而勇猛的怖军心中舍弃了性命,与摩德罗之主交战。

9.12.33

नकुलः सहदेवश्च सात्यकिश्च महारथः ।
परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः ॥ ९.१२.३३ ॥

那时,无种、偕天与大车士萨提亚基从四面包围沙利耶,以箭雨覆盖他。

9.12.34

स चतुर्भिर्महेष्वासैः पाण्डवानां महारथः ।
वृतस्तान्योधयामास मद्रराजः प्रतापवान् ॥ ९.१२.३४ ॥

那位大车士、勇猛的摩德罗王被般度子的四位大弓箭手围困,仍与他们交战。

9.12.35

तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे ।
चक्ररक्षं जघानाशु मद्रराजस्य पार्थिवः ॥ ९.१२.३५ ॥

大王啊,法之子国王在大战中以剃刀头箭迅速射倒了摩德罗王车轮的护卫。

9.12.36

तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे ।
मद्रराजोऽपि बलवान्सैनिकानावृणोच्छरैः ॥ ९.१२.३६ ॥

那位英勇的大车士、车轮护卫被杀之后,强大的摩德罗王也以箭覆盖了士兵。

9.12.37

समावृतांस्ततस्तांस्तु राजन्वीक्ष्य स्वसैनिकान् ।
चिन्तयामास समरे धर्मपुत्रो युधिष्ठिरः ॥ ९.१२.३७ ॥

大王啊,见自己的士兵被包围,法之子坚战在战场上陷入沉思。

9.12.38

कथं नु न भवेत्सत्यं तन्माधववचो महत् ।
अपि क्रुद्धो रणे राजन्क्षपयेत बलं मम ॥ ९.१२.३८ ॥

摩陀婆(克里希那)的那句大话怎会不成真?大王啊,他在战场上发怒,可能会摧毁我的军队。

9.12.39

अहं मद्धातरश्चैव सात्यकिश्च महारथः ।
पाञ्चालाः सृञ्जयाश्चैव न शक्तास्म हि मद्रपम् ॥ ९.१२.३९ ॥

我、我的兄弟们、大车手萨提亚基、般遮罗人和娑陀耶人,都无力抵挡摩陀罗王。

9.12.40

निहनिष्यति चैवाद्य मातुलोऽस्मान्महाबलः ।
गोविन्दवचनं सत्यं कथं भवति किन्त्विदम् ॥ ९.१२.४० ॥

今天,摩陀罗王,我们的舅舅,那位大力者,必将杀死我们。戈文达的话怎会成真?这如何可能?

9.12.41

ततः सरथनागाश्वा पाण्डवाः पाण्डुपूर्वज ।
मद्रराजं समासेदुः पीडयन्तः समन्ततः ॥ ९.१२.४१ ॥

于是,般度之长子啊,般度五子带着战车、象兵与马队,从四面八方逼近摩陀罗王。

9.12.42

नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुद्यताम् ।
व्यधमत्समरे राजा महाभ्राणीव मारुतः ॥ ९.१२.४२ ॥

战场上,国王驱散了那腾起的兵器暴雨,其中充满众多兵器之流,犹如狂风吹散大片云层。

9.12.43

ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम् ।
शरवृष्टिमपश्याम शलभानामिवायतिम् ॥ ९.१२.४३ ॥

那时我们看见沙利耶所射、羽饰金色、飞满天空的箭雨,如同巨大的蝗群。

9.12.44

ते शरा मद्रराजेन प्रेषिता रणमूर्धनि ।
सम्पतन्तः स्म दृश्यन्ते शलभानां व्रजा इव ॥ ९.१२.४४ ॥

摩德罗王在战阵前端射出的那些箭,落下时看上去如同成群的蝗虫。

9.12.45

मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः ।
निरन्तरमिवाकाशं सम्बभूव जनाधिप ॥ ९.१२.४५ ॥

人主啊,摩德罗王弓上射出的饰以黄金的箭,使天空仿佛变得毫无空隙。

9.12.46

न पाण्डवानां नास्माकं तत्र किञ्चिद्व्यदृश्यत ।
बाणान्धकारे महति कृते तत्र महाहवे ॥ ९.१२.४६ ॥

在那场大战中,因箭矢造成的巨大黑暗,那里既看不见般遮五子的人,也看不见我们的人。

9.12.47

मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः ।
चाल्यमानं तु तं दृष्ट्वा पाण्डवानां बलार्णवम्।
विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ॥ ९.१२.४७ ॥

众神、乾闼婆与檀那婆见摩德罗王以其敏捷所降的箭雨,使般遮五子的大军如海洋般动荡,无不大为惊叹。

9.12.48

स तु तान्सर्वतो यत्ताञ्शरैः सञ्छाद्य मारिष ।
धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः ॥ ९.१२.४८ ॥

陛下,他以箭矢从四面覆盖那些严阵以待的人,又遮蔽了法王,如狮子般一次次地怒吼。

9.12.49

ते च्छन्नाः समरे तेन पाण्डवानां महारथाः ।
नाशक्नुवंस्तदा युद्धे प्रत्युद्यातुं महारथम् ॥ ९.१२.४९ ॥

般度之子的大车战士们被他在战场上遮蔽,当时无法向前迎战那位大车战士。

9.12.50

धर्मराजपुरोगास्तु भीमसेनमुखा रथाः ।
निजघ्नुः समरे शूरंशल्यमाहवशोभिनम् ॥ ९.१२.५० ॥

然而,以法王为先、以怖军为首的车兵们,在战场上打击了那位在战斗中光彩夺目的英雄沙利耶。