Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.13

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.13.1

अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः ।
तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः ॥ ९.१३.१ ॥

在战斗中,阿周那被德罗纳之子用许多铁箭射伤,他的勇猛的三郡随从和大战车武士也同样如此。

9.13.2

द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः ।
तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनञ्जयः।
भूयश्चैव महाराज शरवर्षैरवाकिरत् ॥ ९.१३.२ ॥

在战斗中,财富征服者用三支箭射中德罗纳之子,又用每人两支箭射中其他大弓手;大王啊,随后他又以箭雨将他们覆盖。

9.13.3

शरकण्टकितास्ते तु तावका भरतर्षभ ।
न जहुः पार्थमासाद्य ताड्यमानाः शितैः शरैः ॥ ९.१३.३ ॥

婆罗多族的雄牛啊,你的战士们被箭矢扎得如同荆棘,又被锐利的箭所射,他们来到普利塔之子近前,却没有舍弃他。

9.13.4

अर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः ।
परिवार्य मुदा युक्ता योधयन्तश्चकाशिरे ॥ ९.१३.४ ॥

在德罗纳之子的率领下,他们以战车阵包围了阿周那,欢喜作战,光彩夺目。

9.13.5

तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः ।
अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा ॥ ९.१३.५ ॥

大王啊,他们射出的饰有黄金的箭,很快就填满了阿周那的车台。

9.13.6

तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम् ।
विव्यधुश्च शरैर्घोरैः प्रहृष्टा युद्धदुर्मदाः ॥ ९.१३.६ ॥

同样,两位黑天——作为所有弓手中的雄牛的两位大弓手,被他们用可怕的箭射中,他们欢喜而沉醉于战斗之中。

9.13.7

कूबरं रथचक्राणि ईषा योक्त्राणि वा विभो ।
युगं चैवानुकर्षं च शरभूतमभूत्तदा ॥ ९.१३.७ ॥

啊,大王,此时战车的车厢、车轮、辕杆、轭绳、轭与轴,全都变成了箭。

9.13.8

नैतादृशं दृष्टपूर्वं राजन्नेव च नः श्रुतम् ।
यादृशं तत्र पार्थस्य तावकाः सम्प्रचक्रिरे ॥ ९.१३.८ ॥

大王啊,我们从未见过也从未听说过,像你的人在那里对般度之子所做的那样的事。

9.13.9

स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः ।
उल्काशतैः सम्प्रदीप्तं विमानमिव भूतले ॥ ९.१३.९ ॥

那辆战车四面闪耀,装饰着彩色羽翎的利箭,如同大地上被数百道流星点燃的天宫。

9.13.10

ततोऽर्जुनो महाराज शरैः सन्नतपर्वभिः ।
अवाकिरत्तां पृतनां मेघो धृष्ट्येव पर्वतम् ॥ ९.१३.१० ॥

然后,大王啊,阿周那以带弯折节的箭遮蔽了那支军队,如同乌云大胆地笼罩山峰。

9.13.11

ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः ।
पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम् ॥ ९.१३.११ ॥

他们在战斗中被刻有般度之子名字的箭射中,环顾四周,以为一切都变成了般度之子。

9.13.12

कोपोद्धूतशरज्वालो धनुःशब्दानिलो महान् ।
सैन्येन्धनं ददाहाशु तावकं पार्थपावकः ॥ ९.१३.१२ ॥

般度之子的火焰,怒火点燃的箭焰,以弓弦之声为大风,迅速烧尽了你们军队这堆柴薪。

9.13.13

चक्राणां पततां चापि युगानां च धरातले ।
तूणीराणां पताकानां ध्वजानां च रथैः सह ॥ ९.१३.१३ ॥

倒在地上的车轮、轭、箭袋、旗帜和旌幡,与战车一同堆成了山。

9.13.14

ईषाणामनुकर्षाणां त्रिवेणूनां च भारत ।
अक्षाणामथ योक्त्राणां प्रतोदानां च राशयः ॥ ९.१३.१४ ॥

婆罗多之子啊,那里堆满了车辕、拉杆、三节轴、车轴、缰绳和鞭子。

9.13.15

शिरसां पततां चापि कुण्डलोष्णीषधारिणाम् ।
भुजानां च महाभाग स्कन्धानां च समन्ततः ॥ ९.१३.१५ ॥

大福之人啊,四处堆满了戴着耳环和头巾的断头、手臂和肩膀。

9.13.16

छत्राणां व्यजनैः सार्धं मकुटानां च राशयः ।
समदृश्यन्त पार्थस्य रथमार्गेषु भारत ॥ ९.१३.१६ ॥

婆罗多之子啊,在阿周那的战车道上,可见堆积的王冠与伞盖、拂尘混在一起。

9.13.17

अगम्यरूपा पृथिवी मांसशोणितकर्दमा ।
भीरूणां त्रासजननी शूराणां हर्षवर्धिनी।
बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा ॥ ९.१३.१७ ॥

婆罗多族最优秀者啊,那片被血肉泥泞覆盖的大地变得面目全非;它令怯懦者恐惧,令勇士欢喜,宛如楼陀罗的游乐之地。

9.13.18

हत्वा तु समरे पार्थः सहस्रे द्वे परन्तपः ।
रथानां सवरूथानं विधूमोऽग्निरिव ज्वलन् ॥ ९.१३.१८ ॥

征服敌人的般度之子阿周那,在战中连同甲胄杀死两千辆战车,光芒熊熊,如同无烟之火。

9.13.19

यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम् ।
विधूमो दृश्यते राजंस्तथा पार्थो धऩञ्जयः ॥ ९.१३.१९ ॥

王啊,如同薄伽梵火焚尽动与不动的世界后,已无烟而显现,那样,普利塔之子达南闍耶便显现出来。

9.13.20

द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम् ।
रथेनातिपताकेन पाण्डवं प्रत्यवारयत् ॥ ९.१३.२० ॥

然而德罗纳之子见到般度之子在战场上的英勇,便乘坐旗帜高扬的战车迎上前去,阻挡了般度之子。

9.13.21

तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ ।
समीयतुस्तदाऽन्योन्यं परस्परवधैषिणौ ॥ ९.१३.२१ ॥

那两位人中猛虎,驾白马,是弓手中的最优者,彼此求对方之死,此时便相遇交战。

9.13.22

तयोरासीन्महाराज बाणवर्षं सुदारुणम् ।
जीमूतयोर्यथा वृष्टिस्तपान्ते भरतर्षभ ॥ ९.१३.२२ ॥

大王啊,二人之间降下了极其可怕的箭雨,如同夏末云中降雨,婆罗多族中的雄牛啊。

9.13.23

अन्योन्यस्पर्धिनौ तौ तु शरैः सन्नतपर्वभिः ।
ततक्षतुस्तदाऽन्योन्यं शृङ्गाभ्यां वृषभाविव ॥ ९.१३.२३ ॥

二人彼此竞争,便以节部弯曲的箭相互射伤,如同两头公牛以角相抵。

9.13.24

तयोर्युद्धं महाराज चिरं सममिवाभवत् ।
शस्त्राणां सङ्गमश्चैव घोरस्तत्राभवत्पुनः ॥ ९.१३.२४ ॥

大王啊,二人的战斗long时间势均力敌,而那里兵器的碰撞再次变得可怕。

9.13.25

ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः ।
वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत ॥ ९.१३.२५ ॥

于是德罗纳之子以十二支金羽利箭射中阿周那,以十支箭射中筏素提婆,婆罗多之后啊。

9.13.26

ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः ।
मानयित्वा मुहूर्तं तु गुरुपुत्रं महाहवे ॥ ९.१३.२६ ॥

于是阿周那笑着拉开甘提婆弓,在那场大战中片刻敬重了师尊之子。

9.13.27

व्यश्वसूतरथं चक्रे सव्यसाची परन्तपः ।
मृदुपूर्वं ततश्चैनं पुनःपुनरताडयत् ॥ ९.१३.२७ ॥

灭敌者萨维亚萨钦使他的马匹、御者与战车全部失去作用;起初较为温和,随后一再地击打他。

9.13.28

हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम् ।
मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् ॥ ९.१३.२८ ॥

德罗纳之子站在马匹已死的战车上,向般度之子投掷一柄如铁杵般的铁制长棒。

9.13.29

तमापतन्तं सहसा हेमपट्टविभूषितम् ।
चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः ॥ ९.१३.२९ ॥

那柄饰有金箍、突然朝他猛冲而来的长棒,被灭敌的英雄普利塔之子斩成了七段。

9.13.30

स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः ।
आददे परिघं घोरं नगेन्द्रशिखरोपमम्।
चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः ॥ ९.१३.३० ॥

德罗纳之子见那长棒被斩断,怒不可遏,取起一根如山峰般可怖的铁杵,那位善战的德罗纳之子便向普利塔之子掷去。

9.13.31

तमन्तकमिव क्रुद्दं परिघं प्रेक्ष्य पाण्डवः ।
अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः ॥ ९.१३.३१ ॥

般度之子阿周那见那犹如死神般愤怒的铁杵飞来,迅速用五支上好的箭射中了它。

9.13.32

स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे ।
दारयन्पृथिवीन्द्राणां मनः सब्देन भारत ॥ ९.१३.३२ ॥

被阿周那的箭射碎,它在大战中落到地上。婆罗多啊,它的轰鸣撕裂了诸王的心。

9.13.33

ततोऽपरैस्त्रिभिर्भल्लैर्द्रौणिं विव्याध पाण्डवः ॥ ९.१३.३३ ॥

随后,般度之子又用三支宽头箭射穿了德罗纳之子。

9.13.34

सोऽतिविद्धो बलवता पार्थेन सुमहात्मना ।
नाकम्पत तदा द्रौणिः पौरुषेषु व्यवस्थितः ॥ ९.१३.३४ ॥

虽被强大而高贵的帕尔塔重创,德罗纳之子并未颤抖,他在英雄的勇气中屹立不动。

9.13.35

सुरथं च ततो राजन्भारद्वाजो महारथम् ।
अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः ॥ ९.१३.३५ ॥

于是,国王啊,婆罗堕阇之子(德罗纳之子)向大车士苏罗陀倾下箭雨,而所有刹帝利都在旁观望。

9.13.36

ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः ।
रथेन मेघघोषेण द्रौणिमेवाभ्यधावत ॥ ९.१३.३६ ॥

于是,般遮罗的大车士苏罗陀也在战斗中驾着如雷云般轰鸣的战车,径直冲向德罗纳之子。

9.13.37

विकर्षन्वै धनुःश्रेष्ठं सर्वभारसहं दृढम् ।
ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् ॥ ९.१३.३७ ॥

他拉开最好的弓,坚韧而能承受一切重力,用如燃烧毒蛇般的箭矢向他倾泻。

9.13.38

सुरथं तं ततः क्रुद्धमापतन्तं महारथम् ।
चुकोप समरे द्रौणिर्दण्डाहत इवोरगः ॥ ९.१३.३८ ॥

见大车将苏罗陀怒气冲冲地扑来,德罗纳之子在战场上愤怒起来,如被棍棒击中的毒蛇。

9.13.39

त्रिशिखां भ्रुकुटीं कृत्वा सृक्विणी परिसंलिहन् ।
उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च।
मुमोच तीक्ष्णं नाराचं यमदण्डोपमद्युतिम् ॥ ९.१३.३९ ॥

他眉头紧蹙如三峰,舔着嘴角,怒目看着苏罗陀,擦拭弓弦,射出一支锐利的铁箭,光芒如阎摩之杖。

9.13.40

स तस्य हृदयं भित्त्वा प्रविवेशातिवेगितः ।
शक्ताशनिरिवोत्सृष्टो विदार्य धरणीतलम् ॥ ९.१३.४० ॥

它穿透他的心脏,以极快的速度钻入,如掷出的枪与雷电劈裂大地。

9.13.41

ततः स पतितो भूमौ नाराचेन समाहतः ।
वज्रेण च यथा शृङ्गं पर्वतस्येव दीर्यतः ॥ ९.१३.४१ ॥

他被铁箭射中,倒在地上,如同被雷电劈裂的山峰。

9.13.42

तस्मिन्विनिहते वीरे द्रोणपुत्रः प्रतापवान् ।
आरुरोह रथं तूर्णं तमेव रथिनां वरः ॥ ९.१३.४२ ॥

那位英雄被杀后,威猛的德罗纳之子,车战者中最优秀的,迅速登上了那辆战车。

9.13.43

ततः सज्जो महाराज द्रौणिराहवदुर्मदः ।
अर्जुनं योधयामास संशप्तकवृतो रणे ॥ ९.१३.४३ ॥

大王,那时德罗纳之子因战斗而狂热,武装起来,被三火勇士环绕,在战场上与阿周那作战。

9.13.44

तत्र युद्धं महच्चासीदर्जुनस्य परैः सह ।
मध्यन्दिनगते सूर्ये यमराष्ट्रविवर्धनम् ॥ ९.१३.४४ ॥

当太阳到达中午时,阿周那与敌人在那里展开了一场大战,这场战斗使阎摩的国度不断扩大。

9.13.45

तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम् ।
यदेको युगपद्वीरान्समयोधयदर्जुनः ॥ ९.१३.४५ ॥

在那里我们目睹了奇事:看到他们的勇武,我们看见阿周那独自同时与许多英雄作战。

9.13.46

विमर्दः सुमहानासीदर्जुनस्य परैः सह ।
शतक्रतोर्यथापूर्वं महत्या दैत्यसेनया ॥ ९.१३.४६ ॥

阿周那与敌人之间发生了极大的屠杀,正如往昔因陀罗(百祭者)与巨大的檀那婆军队之间的那场战斗。