Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.17.1

शल्येऽथ निहते राजन्मद्रराजपदानुगाः ।
रथाः सप्तशता वीरा दुद्रुवुर्महतो बलात् ॥ ९.१७.१ ॥

大王,沙利耶被杀后,追随摩德罗王脚步的七百名勇猛车兵从大军中逃散。

9.17.2

दुर्योधनस्तु द्विरदमारुह्याचलसन्निभम् ।
छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः।
न गन्तव्यं न गन्तव्यमिति मद्रानवारयत् ॥ ९.१७.२ ॥

然而难敌骑在如山的大象上,头顶撑着伞盖,身旁有人挥动拂尘,他阻止摩德罗人说:“不可离去,不可离去!”

9.17.3

दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः ।
युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम् ॥ ९.१७.३ ॥

尽管难敌一再阻拦,那些勇士仍想杀死坚战,冲入了般度之子的军队。

9.17.4

ते तु शूरा महाराज कृतचित्ताश्च योधने ।
धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः ॥ ९.१७.४ ॥

大王啊,那些勇士心意坚定,发出巨大的弓弦之声,与般度之子们相战。

9.17.5

श्रुत्वा च निहतं शल्यं धर्मपुत्रं च पीडितम् ।
मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः ॥ ९.१७.५ ॥

闻知沙利耶被杀,法之子(坚战)受困扰,摩德罗人中致力于摩德罗王所珍爱之事的大车兵们——

9.17.6

आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः ।
पूरयन्रथघोषेण दिशः सर्वा महारथः ॥ ९.१७.६ ॥

于是大车勇士贡蒂之子(阿周那)挥舞甘狄拔弓而来,以战车的轰鸣充满一切方位。

9.17.7

ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ ।
सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः ॥ ९.१७.७ ॥

随后,阿周那与毗摩、摩德利的两个儿子般度族人、萨提亚基、人中之虎,以及德罗波蒂的所有儿子。

9.17.8

धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः ।
युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन् ॥ ९.१७.८ ॥

德利什塔姆那、示坎丁以及般遮罗人与苏摩迦人一同,想要保护坚战,从四面八方将他团团围住。

9.17.9

ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभैः ।
क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा।
वृक्षानिव महावाताः कम्पयन्ति स्म तावकाः ॥ ९.१७.९ ॥

被般度诸子这些人中雄牛从四面包围,他们搅动那支军队,如摩伽罗搅动大海;而你的人们则撼动它,如大风撼动树木。

9.17.10

पुरोवातेन गङ्गेव…क्षोभ्यमाणा महानदी ।
अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी ततः ॥ ९.१७.१० ॥

……犹如大河恒河被前方吹来的风所搅动,王啊,当时般度族的那支军队也被搅动了。

9.17.11

प्रस्कन्द्य सेनां महतीं महात्मानो महारथाः ।
बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः।
भ्रातरो वाऽस्य ते शूरा दृश्यन्ते नेह केचन ॥ ९.१७.११ ॥

从那庞大的军队中冲出的许多高贵的大车战士在那里呼喊:'国王坚战在哪里?或者他那些英勇的兄弟为何一个也不见于此?'

9.17.12

धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः ।
पाञ्चालाश्च महावीर्याः शिखण्डी च महारथः ॥ ९.१७.१२ ॥

随后是德利什塔姆那、室尼之后的萨提亚基、德罗波蒂所有的儿子、大勇的般遮罗人,以及大车战士示坎丁。

9.17.13

एवं तान्वादिनः शूरान्द्रौपदेया महारथाः ।
अभ्यघ्नन्युयुधानश्च मद्रराजपदानुगान् ॥ ९.१७.१३ ॥

于是,德劳帕蒂之子众大车战士与尤尤丹那,攻击了那些如此说话的勇士,即摩德罗王的随从。

9.17.14

चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः ।
सम्प्रदृश्यन्त समरे तावका निहताः परैः ॥ ९.१७.१४ ॥

有些人的车轮被摧毁,有些人的大旗被砍断;在战场上,可以看到你的人被敌人杀死。

9.17.15

आलोक्य पाण्डवान्युद्धे योधा राजन्समन्ततः ।
वार्यमाणा ययुर्वेगात्पुत्रेण तव भारत ॥ ९.१७.१५ ॥

国王啊,战士们看见四面八方的般度五子,便迅速冲上前去,婆罗多啊,尽管你的儿子阻拦他们。

9.17.16

दुर्योधनश्च तान्वीरान्वारयामास सान्त्वयन् ।
न चास्य शासनं केचित्तत्र चक्रुर्महारथाः ॥ ९.१७.१६ ॥

难敌以安抚之言试图阻止那些勇士,但那些大车战士中无人遵从他的命令。

9.17.17

ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् ।
दुर्योधनं महाराज वचनं वचनक्षमम् ॥ ९.१७.१७ ॥

于是,犍陀罗王之子沙恭尼对难敌说道,大王啊,那是值得说出的话。

9.17.18

किं नः सम्प्रेक्षमाणानां मद्राणां हन्यते बलम् ।
न युक्तमेतत्समरे त्वयि तिष्ठति भारत ॥ ९.१७.१८ ॥

我们眼看着,为何摩德罗人的军队被杀?婆罗多啊,你身在战场,这是不妥的。

9.17.19

सहितैर्नाम योद्धव्यमित्येष समयः कृतः ।
अथ कस्मात्स्मरन्नेव घ्नतो मर्षयसे नृप ॥ ९.१७.१९ ॥

“我们约定должно共同作战。国王啊,你既然记得此约,为何却容忍我们被杀?”

9.17.20

वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम ।
एते विनिहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम् ॥ ९.१७.२० ॥

“我先前曾加以劝阻,他们却不听我的话。如今他们全都被杀,倒向了般度的军队。”

9.17.21

न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः ।
अलं क्रोद्वुमथैतेषां नायं काल उपेक्षितुम् ॥ ९.१७.२१ ॥

“英雄们急躁不安,在战场上不遵从主君的命令。不必再对他们发怒,现在不是忽视此事的时候。”

9.17.22

यामः सर्वेऽत्र सम्भूय सवाजिरथकुञ्जराः ।
परित्रातुं महेष्वासान्मद्रराजपदानुगान् ॥ ९.१७.२२ ॥

“让我们全体在此会合,带着马匹、战车和象群,去保护追随摩德罗王的伟大弓箭手。”

9.17.23

अन्योन्यं परिरक्षामो यत्नेन महता नृप ।
एवं सर्वेऽनुसञ्चिन्त्य प्रययुर्यत्र सैनिकाः ॥ ९.१७.२३ ॥

“国王啊,让我们以极大的努力互相守护。”大家如此商议之后,便前往士兵们所在之处。

9.17.24

एवमुक्तस्तदा राजा बलेन महता वृतः ।
प्रययौ सिंहनादेन कम्पयन्निव मेदिनीम् ॥ ९.१७.२४ ॥

国王听后,被庞大的军队簇拥着,发出狮吼般的呼声出发了,仿佛要震动大地。

9.17.25

हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत ।
इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत ॥ ९.१७.२५ ॥

击杀!刺穿!擒拿!进攻!砍杀!如此,婆罗多的子孙啊,你的军中爆发出一片喧嚣。

9.17.26

पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान् ।
सहितानभ्यवर्तन्तं गुल्ममास्थाय मध्यमम् ॥ ९.१७.२६ ॥

般度之子见马德罗王的追随者在战场上聚集前进,便结成中军阵列来迎击他们。

9.17.27

ते मुहूर्ताद्रणे वीरा हस्ताहस्ति विशाम्पते ।
निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः ॥ ९.१७.२७ ॥

君主啊,转瞬之间,那些追随马德罗王的英雄在战场上短兵相接,纷纷倒下,尸体可见。

9.17.28

ततो नः सम्प्रयातानां हता मद्रास्तरस्विनः ।
हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे ॥ ९.१७.२८ ॥

于是,我方前进的迅捷马德罗战士被杀,欢喜的敌人齐声发出“killa-killa”的欢呼。

9.17.29

अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः ।
पपात महती चोल्का मध्येनादित्यमण्डलम् ॥ ९.१७.२९ ॥

此时,四处可见无头的躯干挺立起来;一颗巨大的流星穿过太阳圆盘的中央坠落。

9.17.30

रथैर्भग्नयुगाक्षैश्च निहतैश्च महारथैः ।
अश्वैर्निपातितैश्चैव सञ्छन्नाऽभूद्वसुन्धरा ॥ ९.१७.३० ॥

大地被断轭折轴的战车、战死的大车战士以及倒毙的战马所覆盖。

9.17.31

वातायमानैस्तुरगैर्युगासक्तैस्ततस्ततः ।
अकृष्यन्त महाराज योधास्तत्र रणाजिरे ॥ ९.१७.३१ ॥

大王啊,在那战场上,仍被系在辕轭上的战士,被疾如风的马匹拖来拖去。

9.17.32

भग्नचक्रान्रथान्केचिदहरंस्तुरगा रणे ।
रथार्धं केचिदादाय दिशो दश विबभ्रमुः।
तत्रतत्र व्यदृश्यन्त योक्त्रैः श्लिष्टाः स्म वाजिनः ॥ ९.१७.३२ ॥

战斗中,有些马拖着车轮断裂的战车,有些马驮着半辆车奔向十方。到处可见马匹被缰绳和辕轭缠住。

9.17.33

रथिनः पतमानाश्च दृश्यन्ते स्म नरोत्तमाः ।
गगनात्प्रच्युताः सिद्धाः पुण्यानामिव सङ्क्षये ॥ ९.१७.३३ ॥

乘车的勇士,人中之最,纷纷坠落,犹如功德耗尽时从天空坠落的成就者。

9.17.34

निहतेषु च शूरेषु मद्रराजानुगेषु वै ।
अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः ॥ ९.१७.३४ ॥

当摩德罗国王的随从勇士被杀,见我们逼近时,大车战士普利塔之子们……

9.17.35

अभ्यवर्तन्त वेगेन जयगृद्धाः प्रहारिणः ।
बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिःस्वनैः ॥ ९.१७.३५ ॥

渴望胜利的攻击者迅速冲上前来,箭声与海螺声交织成一片喧嚣。

9.17.36

अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः ।
शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः ॥ ९.१७.३६ ॥

然而他们再次攻击我们,击中目标,抖动弓弦,发出狮吼。

9.17.37

ततो हतमभिप्रेक्ष्य मद्रराजबलं महत् ।
मद्रराजं च समरे दृष्ट्वा शूरं निपातितम्।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ ९.१७.३७ ॥

眼见摩德罗国王的大军被歼,英勇的摩德罗王在战场上被击倒,难敌的全部军队再次背转而逃。

9.17.38

वध्यमानं महाराज पाण्डवैर्जितकाशिभिः ।
दिशो भेजेऽथ सम्भ्रान्तं त्रासितं दृढधन्विभिः ॥ ९.१७.३८ ॥

大王啊,那支军队遭到般遮人和得胜的迦尸人屠杀,又被坚定的弓手惊吓,于是惊慌失措,四散奔逃。