Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.18

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.18.1

पातिते युधि दुर्धर्षे मद्रराजे महारथे ।
तावकास्तव पुत्राश्च प्रायशो विमुखाऽभवन् ॥ ९.१८.१ ॥

桑闍耶說:当不可战胜的大车战士、摩德罗王在战场上被击倒后,你的人马和诸子大多转身逃避。

9.18.2

वणिजो नावि भिन्नायां यथागाधे महार्णवे ।
अपारे पारमिच्छन्तो हते शूरे महात्मनि ॥ ९.१८.२ ॥

就像商人在深不可测的大海中,乘坐破碎的船,寻求无边大海的彼岸;大德的英雄被杀后,你的人马也如此寻求彼岸。

9.18.3

मद्रराजे महाराज वित्रस्ताः शरविक्षताः ।
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ॥ ९.१८.३ ॥

大王啊,摩德罗王倒下后,你的人马惊恐,被箭射伤,无所依靠,寻求庇护,如同被狮子追逐的鹿群。

9.18.4

वृषा यथा भग्नशृङ्गाः शीर्णदन्ता यथा गजाः ।
मध्याह्ने प्रत्यपायाम निर्जिताऽजातशत्रुणा ॥ ९.१८.४ ॥

就像断角的公牛和折牙的大象,我们在正午被不可战胜的坚战击败,只得退却。

9.18.5

न संस्थातुमनीकानि न च राजन्पराक्रमे ।
आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित् ॥ ९.१८.५ ॥

大王啊,沙利耶被杀后,你的将士中再无人有心稳住军阵,也无人有心施展勇力。

9.18.6

भीष्मे द्रोणे च निहते सूतपुत्रे च पातिते ।
यद्दुःखं तव योधानां भयं चासीद्विशाम्पते ॥ ९.१८.६ ॥

百姓之主啊,毗湿摩与德罗纳被杀、御者之子(迦尔纳)倒下时,你的将士中所生的悲痛与恐惧,正是如此。

9.18.7

तद्भयं स च नः शोको भूय एवाभ्यवर्तत ।
निराशाश्च जये राजन्हते शल्ये महारथे ॥ ९.१८.७ ॥

大王啊,大车将沙利亚被杀之后,那恐惧与我们的悲痛再次降临,获胜的希望也化为乌有。

9.18.8

हतप्रवीरा विध्वस्ता निकृत्ताश्च शितैः शरैः ।
मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् ॥ ९.१८.८ ॥

大王啊,摩德罗王被杀之后,你的战士们,他们的勇士已殉,被利箭射得溃散,因恐惧而逃奔。

9.18.9

अश्वानन्ये गजानन्ये रथानन्ये महारथाः ।
आरुह्य जवसम्पन्ना पादाताः प्राद्रवंस्तथा ॥ ९.१८.९ ॥

有人骑马,有人乘象,有人登车,大车将们迅速上车奔逃,步兵也同样逃跑。

9.18.10

द्विसाहस्राश्च महातङ्गा गिरिरूपाः प्रहारिणः ।
…प्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठनोदिताः ॥ ९.१८.१० ॥

两千头巨象,如山般、能冲击,……沙利亚被杀之后,在象钩与脚趾的驱使下奔逃。

9.18.11

ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः ।
धावतश्चाप्यपश्याम श्वसमानाञ्शराहतान् ॥ ९.१८.११ ॥

婆罗多之最啊,你的人从战场上向四方奔逃;我们看见他们奔跑中喘息不止,被箭射伤。

9.18.12

तान्प्रभग्नान्हतान्दृष्ट्वा हतोत्साहान्पराजितान् ।
अभ्यवर्तन्त पाञ्चालाः पाण्डवाश्च जयैषिणः ॥ ९.१८.१२ ॥

看见他们溃散、被杀、丧失斗志并被击败,渴望胜利的般遮罗与般度之子便向他们逼近。

9.18.13

बाणशब्दरवाश्चापि सिंहनादाश्च पुष्कलाः ।
शङ्खशब्दश्च शूराणां दारुणः समपद्यत ॥ ९.१८.१३ ॥

箭矢的呼啸声和众多狮吼声四起,勇士们的海螺声也骇人地响起。

9.18.14

दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम् ।
अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह ॥ ९.१८.१४ ॥

看见俱卢军队因恐惧而溃逃混乱,般遮罗人与般度之子们一同彼此交谈起来。

9.18.15

अद्य राजा सत्यधृतिर्हतामित्रो युधिष्ठिरः ।
अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया ॥ ९.१८.१५ ॥

今日真实坚定的国王坚战杀尽了敌人;今日难敌失去了光辉的王权威仪,已然一无所有。

9.18.16

अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः ।
निःसंज्ञः पतितो भूमौ किल्बिषं प्रतिपत्स्यते ॥ ९.१८.१६ ॥

今日,人主持国王得闻爱子被杀,将昏厥倒地,承受自己罪过的后果。

9.18.17

अद्य जानाति बीभत्सुं समर्थं स्वधन्विनाम् ।
अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् ॥ ९.१८.१७ ॥

今日,罪人愚痴的难敌将知晓善战的弓手中的毗跋蹉(阿周那)是谁,并且今日他将自责。

9.18.18

अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम् ।
अद्यप्रभृति पार्थं च प्रेष्यभूत इवाचरन्।
विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः ॥ ९.१८.१८ ॥

今日追念刹帝(维都罗)真实而有益的言语,从今日起如对待仆役般对待普利塔之子(阿周那),愿国王知道般度之子们给他带来了怎样的痛苦。

9.18.19

अद्य कृष्णस्य माहात्म्यं विजानातु महीपतिः ।
अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे ॥ ९.१८.१९ ॥

今日,愿这位大地之主知晓克里希那的伟大;今日,愿他在战斗中知晓阿周那弓弦的可怕轰鸣。

9.18.20

अत्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे ।
पुत्राणां च वधं घोरं भीमेन श्रोष्यते नृपः ॥ ९.१८.२० ॥

国王将听闻诸般兵器的全部力量、战斗中双臂的力量,以及他的儿子们在毗摩手中遭受的可怕杀戮。

9.18.21

अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः ।
हते दुर्योधने युद्धे शक्रेणेव तु शम्बरे ॥ ९.१८.२१ ॥

今日,杜尔约dhana在战斗中被杀时,他们将知晓大心的毗摩那可怕的力量,犹如因陀罗杀死商婆罗时所知的那般。

9.18.22

यत्कृतं भीमसेनेन दुःशासनवधे तदा ।
कोऽन्यः कर्ताऽस्ति तल्लोके ऋते भीमान्महाबलात्। ॥ ९.१८.२२ ॥

毗摩先那在杀死难降时所做的事,这世上除了大力的毗摩,还有谁能做到?

9.18.23

अद्य ज्येष्ठस्य जानीतां पाण्डवस्य पराक्रमम् ।
मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् ॥ ९.१८.२३ ॥

今日,愿他们知晓长兄般度子的勇武,听闻连诸神也难以抵挡的摩德罗王已被杀死。

9.18.24

अद्य ज्ञास्यति सङ्ग्रामे माद्रीपुत्रौ सुदुःसहौ ।
निहते सौबले वीरे गान्धारेषु च सर्वशः ॥ ९.१८.२४ ॥

今日,在战斗中,摩德丽的两个难以抵挡的儿子,将在英雄沙恭尼与乾陀罗人被彻底消灭之后知晓此事。

9.18.25

… न तेषां स्याद्येषां योद्धा धनञ्जयः ।
… धृष्टद्युम्नश्च पार्षतः ॥ ९.१८.२५ ॥

……对于以持财者(阿周那)为战士的人,不会失败;……还有般沙塔之子德里斯塔笃姆那。

9.18.26

… पञ्च माद्रीपुत्रौ च पाण्डवौ ।
शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः ॥ ९.१८.२६ ॥

……五人,玛德丽的两个儿子,般度诸子,大弓箭手湿迦丹丁,以及国王坚战。

9.18.27

येषां च जगतो नाथो नाथः कृष्णो जनार्दनः ।
कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः ॥ ९.१८.२७ ॥

世界之主、生主克里希那是他们的主宰,法是他们的依靠,他们怎会不胜?

9.18.28

लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषां नाथो हृषीकेशः सर्वलोकविभुर्हरिः ॥ ९.१८.२८ ॥

他们获得利益,他们获得胜利;以毛发主、遍主诸世界的哈里为主宰的人,失败又从何而来?

9.18.29

भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च ।
तथाऽन्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः ॥ ९.१८.२९ ॥

毗湿摩、德罗纳、迦尔纳和摩德罗王,以及其他英勇的国王,成百上千。

9.18.30

कोऽन्यः शक्तो रणे जेतुमृते पार्थाद्युधिष्ठिरात् ।
यस्य नाथो हृषीकेशः सदा सत्ययशोनिधिः ॥ ९.१८.३० ॥

除了普利塔之子(阿周那)和坚战,还有谁能在战斗中取胜?他们的主宰是永远的真理与荣耀之藏——希利舍柯舍。

9.18.31

इत्येवं वदमानास्ते हर्षेण महता युताः ।
प्रभग्नांस्तावकान्योधान्संहृष्टाः पृष्ठतोऽन्वयुः ॥ ९.१८.३१ ॥

他们如此说着,充满巨大的喜悦,欢欣地从后面追击你那些溃败的战士。

9.18.32

धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान् ।
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः ॥ ९.१८.३२ ॥

勇猛的达南遮耶攻向战车军阵;摩德利的两个儿子、沙恭尼和大战车手萨谛奇也向前推进。

9.18.33

तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् ।
दुर्योधनस्तदा सूतमब्रवीद्विस्मयन्निव ॥ ९.१८.३३ ॥

看到他们全都逃散,被怖畏婆罗多之子怖畏所困,难敌便仿佛惊讶地对御者说道。

9.18.34

मामतिक्रमते पार्थो धनुष्पाणिमवस्थितम् ।
जघने सर्वसैन्यानां शनैरश्वान्प्रचोदय ॥ ९.१८.३४ ॥

普利塔之子从整个军队的后方超过了我——我拿着弓站在那里;慢慢地驱策马匹吧。

9.18.35

जघने युध्यमानं हि कौन्तेयो मां न संशयः ।
नोत्सहेदभ्यतिक्रान्तुं वेलामिव महोदधिः ॥ ९.१८.३५ ॥

当我在后方作战时,昆蒂之子必定不敢超过我,正如大海不敢越过它的岸边;这是毫无疑问的。

9.18.36

पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम् ।
सैन्यरेणुं समुद्भूतं पश्य चैनं समन्ततः ॥ ९.१८.३६ ॥

御者啊,看那被般度之子攻击的我方大军;也看那从四面八方扬起的军尘。

9.18.37

सिंहनादांश्च समुद्भूतं पश्य चैनं समन्ततः ।
तस्माद्याहि शनैः सूत जघनं परिपालय ॥ ९.१८.३७ ॥

看四面八方升起的狮吼。因此,御者啊,缓缓前行,守护后方。

9.18.38

मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु ।
पुनरावर्तते तूर्णं मामकं बलमोजसा ॥ ९.१८.३८ ॥

我在战场上坚守,般度之子被阻挡时,我军迅速而有力地返回了。

9.18.39

तच्छ्रुत्वा तव पुत्रस्य शूरस्य सदृशं वचः ।
सारथिर्हेमसञ्छन्नाञ्शरैरश्वानचोदयत् ॥ ९.१८.३९ ॥

听到你英勇之子这番合宜的话,御者便以箭驱策那些覆金的马。

9.18.40

गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयः ।
एकविंशतिसाहस्राः संयुगायावतस्थिरे ॥ ९.१८.४० ॥

失去象、马与车兵,舍弃了性命的二十一千步兵,已准备好迎战。

9.18.41

नानादेशसमुद्भूता नानारञ्जितवाससः ।
अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः ॥ ९.१८.४१ ॥

出生于各地、身着各色染衣的战士们,那时站立着,渴望伟大的声名。

9.18.42

तेषामापततां तत्र संहृष्टानां परस्परम् ।
सम्मर्दः सुमहाञ्चज्ञे घोररूपो भयानकः ॥ ९.१८.४२ ॥

他们满怀喜悦地相互冲杀,于是爆发了一场极大的冲突,形状可怖,令人恐惧。

9.18.43

भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम् ।
बलेन चतुरङ्गेण नानादेश्यानवारयत् ॥ ९.१८.४३ ॥

大王啊,那时来自各地的战士以四军之力阻挡了毗摩森那与般沙多之子德里斯塔迪由姆纳。

9.18.44

भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः ।
प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः ॥ ९.१८.४४ ॥

战场上,其余步兵直奔毗摩而去,高声吼叫、拍打手臂,欢欣鼓舞,渴望前往英雄之界。

9.18.45

आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः ।
धार्तराष्ट्रा विनेदुर्हि नान्यामकथनयन्कथाम्।
परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः ॥ ९.१८.४५ ॥

到达毗摩森那之后,怒火中烧、沉醉于战斗的持国之子们吼叫起来,别无他言。他们在战场上包围毗摩,从四面八方攻击他。

9.18.46

स वध्यमानः समरे पदातिगणसंवृतः ।
न चचाल ततः स्थानान्मैनाक इव पर्वतः ॥ ९.१८.४६ ॥

尽管在战场上遭受打击,又被步兵群所包围,他却如摩那迦山一般,纹丝不动地立于原地。

9.18.47

ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् ।
निग्रहीतुं प्रवृत्ता हि योधांश्चान्यानवारयन् ॥ ९.१८.४७ ॥

大王啊,他们愤怒地去擒拿那位般度之子的大车将,同时也阻挡了其他战士。

9.18.48

अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः ।
सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः ॥ ९.१८.४८ ॥

此时在战场上,毗摩因被包围的那些人而愤怒;他迅速从战车上下来,徒步坚定地站立。

9.18.49

जातरूपप्रतिच्छन्नां प्रगृह्य महतीं गदाम् ।
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥ ९.१८.४९ ॥

他手持镶金的巨大铁锤,像手持权杖的死神一样击杀了你的战士。

9.18.50

रथाश्वविप्रहीणांस्तु तान्भीमो गदया बली ।
एकविंशतिसाहस्रान्पदातीन्समपोथयत् ॥ ९.१८.५० ॥

勇猛的毗摩用铁锤将那二万一千名失去战车与马匹的步兵全部碾碎。

9.18.51

हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः ।
धृष्टद्युम्नं पुरस्कृत्य न चिरात्प्रत्यदृश्यत ॥ ९.१८.५१ ॥

毗摩以真正的勇武歼灭了那支步兵,将猛光置于身前,不久便再次出现。

9.18.52

पादाता निहता भूमौ शिश्यिरे रुधिरोक्षितः ।
सम्भग्ना इव वातेन कर्णिकाराः सुपुष्पिताः ॥ ९.१८.५२ ॥

倒在地上的步兵浑身沾满鲜血,就像被风吹折的盛开的迦尼迦罗树。

9.18.53

नानाशस्त्रसमायुक्ता नानाकुण्डलधारिणः ।
नानाजात्या हतास्तत्र नादेशसमागताः ॥ ९.१८.५३ ॥

他们携带各式兵器,佩戴各式耳环,出身各异,是未经命令而来的人,在那里被杀。

9.18.54

पताकाध्वजसञ्छन्नं पदातीनां महद्बलम् ।
निकृत्तं विबभौ रौद्रं घोररूपं भयावहम् ॥ ९.१८.५४ ॥

覆盖着旗帜与幢幡的庞大步兵大军被斩碎,以可怖、骇人的形象闪耀着,令人生畏。

9.18.55

युधिष्ठिरपुरोगाश्च सहसैन्या महारथाः ।
अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव ॥ ९.१८.५५ ॥

以坚战为首的大车战士与军队一同冲向你的儿子、高贵的难敌。

9.18.56

ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान् ।
नाभ्यवर्तन्त ते पुत्रं वेलामिव महोर्मयः ॥ ९.१८.५६ ॥

他们见你的大弓手背转逃遁,便不再回身迎战你的儿子,犹如大浪不回返岸边。

9.18.57

तदद्भुतमपश्याम तव पुत्रस्य पौरुषम् ।
यदेकं सहिताः पार्था न शेकुरतिवर्तितुम् ॥ ९.१८.५७ ॥

我们见到你儿子那奇异的勇力:他独自一人,而联合起来的般度之子也无法胜过他。

9.18.58

नातिदूरापयातं तु कृतबुद्वि पलायने ।
दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम् ॥ ९.१८.५८ ॥

难敌对自己的军队说话,那军队尚未走远,已决意逃跑,且伤势沉重。

9.18.59

न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च ।
यत्र यातान्न वा हन्युः पाण्डवाः किं सृतेन वः ॥ ९.१८.५९ ॥

我看不到大地上或山岳中有哪处地方,你去了,般度之子不会杀你。逃跑对你们有什么用呢?

9.18.60

अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ ।
यदि सर्वेऽत्र तिष्ठामो ध्रुवं नो विजयो भवेत् ॥ ९.१८.६० ॥

他们的兵力很少,两位黑天都伤势严重。如果我们全都坚守在此,胜利必定属于我们。

9.18.61

विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतविप्रियाः ।
अनुयाय हनिष्यन्ति श्रेयान्नः समरे वधः ॥ ९.१८.६१ ॥

然而,你们这些四散逃亡的人,将被你们所得罪的般度之子追杀。对我们而言,战死沙场更为殊胜。

9.18.62

शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः ।
यदा शूरं च भीरुं च मारयत्यन्तकः सदा ॥ ९.१८.६२ ॥

愿在此聚集的诸刹帝利都听着:终结者(死亡)总是杀死勇者,也杀死怯者。

9.18.63

को नु मूढो न युध्येत पुरुषः क्षत्रियो ध्रुवम् ।
श्रेयान्नो भीमसेनस्य क्रुद्धस्याभिमुखे स्थितः ॥ ९.१८.६३ ॥

面对愤怒的怖军(Bhīmasena),哪个愚蠢的刹帝利武士会不战斗呢?对我们而言,这才是殊胜的。

9.18.64

सुखः साङ्ग्रामिको मृत्युर्दुःखो व्याधिजरादिभिः ।
मर्त्येनावश्यमर्तव्यं गृहेष्वपि कदाचन ॥ ९.१८.६४ ॥

战场上的死亡是令人欣慰的;因疾病、衰老等而死则是痛苦的。凡人必定要死,有时甚至死在家中。

9.18.65

युध्यतः क्षत्रधर्मेण मृत्युरेष सनातनः ।
हत्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम् ॥ ९.१८.६५ ॥

对于依刹帝利之责而战者,这便是永恒的死亡:在此杀敌者获得快乐;战死者在来世获得大果报。

9.18.66

न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः ।
अचिरेणैव ताँल्लोकान्हतो युद्धे समश्नुते ॥ ९.१८.६६ ॥

诸位俱卢族人啊,通往天界的道路,没有比战斗之法更为殊胜的了;战死者很快便能抵达那些世界。

9.18.67

श्रुत्वा तद्वचनं तस्य पूजयित्वा च पार्थिवाः ।
पुनरेवाभ्यवर्तन्त पाण्डवानाततायिनः ॥ ९.१८.६७ ॥

诸王听了他的话,并向他致敬之后,又转身朝向那些作为侵略者的般度之子。

9.18.68

तानापतत एवाशु व्यूढानीकाः प्रहारिणः ।
प्रत्युद्ययुस्तदा पार्था जयगृद्धाः प्रमन्यवः ॥ ९.१८.६८ ॥

当那些列阵的军队迅速冲杀过来时,渴望胜利、怒火中烧的普利塔之子便迎上前去。

9.18.69

धनञ्जयो रथेनाजावभ्यवर्तत वीर्यवान् ।
विश्रुतं त्रिषु लोकेषु व्याक्षिपन्गाण्डिवं धनुः ॥ ९.१८.६९ ॥

勇猛的财胜(阿周那)乘车冲入战场,挥舞着闻名三界的甘狄拔神弓。

9.18.70

माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः ।
जवेनाभ्यपतन्हृष्टा यत्ता वै तावकं बलम् ॥ ९.१८.७० ॥

摩德利的两个儿子与大力的萨提亚基欢欣地疾速冲向沙古尼以及已经严阵以待的你方大军。