摩诃婆罗多 · 章 9.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.19.1
सन्निवृत्तेषु सैन्येषु साल्वो म्लेच्छगणाधिपः ।
अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवानां महद्बलम् ॥ ९.१९.१ ॥
当军队撤退之后,蔑戾车诸部之主沙尔瓦勃然大怒,冲向般度之子的庞大军队。
9.19.2
आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम् ।
सप्तमैरावतप्रख्यममित्रगणमर्दनम् ॥ ९.१९.२ ॥
他骑上一头巨大的发情象,如山一般,宛如第七头爱罗婆多,乃是摧毁敌军的猛将。
9.19.3
योऽसौ महान्भद्रकुलप्रसूतः ।
सुपूजितो धार्तराष्ट्रेण नित्यम्।
सुकल्पितः शास्त्रविनिश्चयज्ञैः ।
सदौपवाह्यः समरेषु राजन् ॥ ९.१९.३ ॥
那头出身于贤良血统的巨象,常受持国之子尊崇,由通晓论典裁断者妥善装饰,始终适合在战场上乘骑,大王啊。
9.19.4
ऐरावतं दैत्यगणान्विमृद्र… ।
ञ्शक्रो यथा सञ्जनयन्भयानि।
तमास्थितो राजवरो बभूव ।
यथोदयस्थः सविता क्षपान्ते ॥ ९.१९.४ ॥
如因陀罗骑乘爱罗婆多,踏碎阿修罗群,令众生生畏,那位最优秀的国王便骑上了它,如夜尽时立于日出山上的太阳。
9.19.5
स तेन नागप्रवरेण राज… ।
न्नभ्युद्ययौ पाण्डुसुतान्समेतान्।
शितैः पृषत्कैर्विददार वेगै… ।
र्महेन्द्रवज्रप्रतिमैः सुघोरैः ॥ ९.१९.५ ॥
那位国王乘着这头优良的象……向聚集的般度诸子进攻,以锐利的箭矢、迅疾地、宛如因陀罗金刚杵般极其可怖的箭射穿了他们。
9.19.6
ततः शरान्वै सृजतो महारणे ।
योधांश्च राजन्नयतो यमालयम्।
नास्यानत्रं ददृशुः स्वे परे वा ।
यथा पुरा वज्रधरस्य दैत्याः ॥ ९.१९.६ ॥
在大战中,他放出箭矢,将战士送往阎摩之所,无论自己人还是敌人都看不到他的任何空隙,正如往昔诸阿修罗不见持金刚者(因陀罗)的空隙。
9.19.7
ते पाण्डवाः सोमकाः सृञ्जयाश्च ।
तमेकनागं ददृशुः समन्तात्।
सहस्रशो वै विचरन्तमेकं ।
यथा महेन्द्रस्य गजं समीपे ॥ ९.१९.७ ॥
般度之子、索摩迦与斯林遮耶人从四面八方看见那一头象,它化作千万身形往来奔驰,如同因陀罗身旁的象。
9.19.8
सन्द्राव्यमाणं तु बलं परेषां ।
परेतकल्पं विबभौ समन्ततः।
नैवावतस्थे समरे भृशं भया… ।
द्विमृद्यमानं तु परस्परं तदा ॥ ९.१९.८ ॥
敌军溃散奔逃,四面看去如同死人;在战场上它站立不住,因恐惧而极度……;那时它在自身之中被挤压成两半,
9.19.9
ततः प्रभग्ना सहसा महाचमूः ।
सा पाण्डवी तेन नराधिपेन।
दिशश्चतस्रः सहसा विधाविता ।
गजेन्द्रवेगं तमपारयन्ती ॥ ९.१९.९ ॥
于是那强大的般度军队被那位人主突然击溃,无法承受那位象王的冲击,突然向四方奔逃。
9.19.10
दृष्ट्वा च तां वेगवता प्रभग्नां ।
सर्वे त्वदीया युधि योधमुख्याः।
अपूजयंस्ते तु नराधिपं तं ।
दध्मुश्च शङ्खाञ्शशिसन्निकाशान् ॥ ९.१९.१० ॥
众人见那军队被那位迅猛者击溃,你的一切主要战将在战场上向那位人主致敬,并吹响明亮如月的海螺。
9.19.11
श्रुत्वा निनादं त्वथ कौरवाणां ।
हर्षाद्विमुक्तं सह शङ्खशब्दैः।
सेनापतिः पाण्डवसृञ्जयानां ।
पाञ्चालपुत्रो ममृषे न कोपात् ॥ ९.१९.११ ॥
闻听俱卢人的吼声与欢喜中响起的螺号之声,般度与苏loyal之统帅、般遮罗之子怒不能忍。
9.19.12
ततस्तु तं वै द्विरदं महात्मा ।
प्रत्युद्ययौ त्वरमाणो जयाय।
जम्भो यथा शक्रसमागमे वै ।
नागेन्द्रमैरावणमिन्द्रवाह्यम् ॥ ९.१९.१२ ॥
于是那位高尚的人为求胜利,急速迎向那头象,正如当年与因陀罗相遇时,Jambha 迎向因陀罗之乘骑爱罗婆多。
9.19.13
तमापतन्तं सहसा तु दृष्ट्वा ।
पाञ्चालपुत्रं युधि राजसिंहः।
तं वै द्विपं प्रेषयामास तूर्णं ।
वधाय राजन्द्रुपदात्मजस्य ॥ ९.१९.१३ ॥
大王!那王中之狮见般遮罗之子在战中突然向己扑来,便急速派那头象去杀害德鲁帕达之子。
9.19.14
स तं द्विपेन्द्रं सहसापतन्त… ।
मविध्यदग्निप्रतिमैः पृषत्कैः।
कर्मारधौतैर्निशितैर्ज्वलद्भि… ।
र्नाराचमुख्यैस्त्रिभिरुग्रवेगैः ॥ ९.१९.१४ ॥
他将那突然冲来的象王,以如火般炽热、经铁匠洗淬、锋利燃烧的箭,以及三支迅猛的主要铁箭射穿。
9.19.15
ततोऽपरान्पञ्चशतान्महात्मा ।
नाराचमुख्यान्विससर्ज कुम्भे।
स तैस्तु विद्धः परमद्विपो रणे ।
तदा परावृत्य भृशं प्रदुद्रुवे ॥ ९.१९.१५ ॥
于是那位高尚的人又向象之额头射出五百支主要铁箭。那巨象被箭所伤,在战中转身,极速奔逃。
9.19.16
तं नागराजं सहसा प्रणुन्नं ।
विद्राव्यमाणं विनिवर्त्य साल्वः।
तोत्राङ्कुशैः प्रेषयामास तूर्णं ।
पाञ्चालराजस्य सुतं प्रदिश्य ॥ ९.१९.१६ ॥
沙利婆将那头被突然推向前、被迫逃跑的象王调转回来,用象钩和鞭子迅速驱赶它,朝向般遮罗王之子冲去。
9.19.17
दृष्ट्वा पतन्तं सहसा तु नागं ।
धृष्टद्युम्नः स्वरथाच्छीघ्रमेव।
गदां प्रगृह्योग्रजवेन वीरो ।
भूमिं प्रपन्नो भयविह्वलाङ्गः ॥ ९.१९.१७ ॥
见象突然向自己扑来,英雄德里斯塔德尤姆纳立即从战车跳下,握起铁杵,以猛烈的速度扑倒在地,吓得浑身发颤。
9.19.18
स तं रथं हेमविभूषिताङ्गं ।
साश्वं ससूतं सहसा विमृद्य।
उत्क्षिप्य हस्तेन नदन्महाद्विपो ।
विपोथयामास वसुन्धरातले ॥ ९.१९.१८ ॥
那头大象突然将饰满金饰的战车连同马匹和御者踏碎;随后用鼻子将其高高举起,吼叫着把它摔在大地上。
9.19.19
पाञ्चालराजस्य सुतं च दृष्ट्वा ।
तदार्दितं नागवरेण तेन।
तमभ्यधावत्सहसा जवेन ।
भीमः शिखण्डी च शिनेश्च नप्ता ॥ ९.१९.१९ ॥
见般遮罗王之子被那头最好的象所困扰,毗摩、史肯丁和涉尼之孙迅速冲向它。
9.19.20
शरैश्च वेगं सहसा निगृह्य ।
तस्याभितो व्यापततो गजस्य।
स सङ्गृहीतो रथिभिर्गजो वै ।
चचाल तैर्वार्यमाणश्च सङ्ख्ये ॥ ९.१९.२० ॥
用箭突然遏止那头象的冲势,它四处奔突时,车兵们将其包围;被他们阻挡的那象在战斗中踉跄不稳。
9.19.21
ततः पृषत्कान्प्रववर्ष राजा ।
सूर्यो यथा रश्मिजालं समन्तात्।
तैराशुगैर्वध्यमाना रथौघाः ।
प्रदुद्रुवुः सहितास्तत्रतत्र ॥ ९.१९.२१ ॥
于是国王降下箭雨,如太阳向四面八方展开它的光网。被那些迅疾之箭击中,车阵一同四散奔逃,各处皆是。
9.19.22
तत्कर्म साल्वस्य समीक्ष्य सर्वे ।
पाञ्चालपुत्रा नृप सृञ्जयाश्च।
हाहाकारैर्नादयन्ति स्म युद्धे ।
द्विपं समन्ताद्रुरुधुर्नराग्र्याः ॥ ९.१९.२२ ॥
诸般子以此宁猛下,王啊,般遮罗之子与萨尼雅人见萨尔瓦此举,皆以“哀哉”之呼声震动战场;诸勇士之最便从四面围住了那头象。
9.19.23
पाञ्चालपुत्रस्त्वरितस्तु शूरो ।
गदां प्रगृह्याचलशृङ्गकल्पाम्।
ससम्भ्रमं भारत शत्रुघाती ।
जवेन वीरोऽनुससार नागम् ॥ ९.१९.२३ ॥
般遮罗之子那位英雄,急忙握起如山峰般的铁锤;婆罗多啊,那位屠灭敌人的英雄疾速追赶那头象。
9.19.24
ततस्तु नागं धरणीधराभं ।
मदं स्रवन्तं जलदप्रकाशम्।
गदां समातिध्य भृशं जघान ।
पाञ्चालराजस्य सुतस्तरस्वी ॥ ९.१९.२४ ॥
于是般遮罗王那位敏捷的儿子,紧握铁锤,猛力击打那头如山、流淌着发情液、光如雨云的象。
9.19.25
स भिन्नकुम्भः सहसा विनद्य ।
मुखात्प्रभूतं क्षतजं विमुञ्चन्।
पपात नागो धरमीधराभः ।
क्षितिप्रकम्पाच्चलितो यथाऽद्रिः ॥ ९.१९.२५ ॥
他的额头破裂,忽然怒吼,口中喷涌大量鲜血,如被震动的山岳般倒下,大地为之颤动。
9.19.26
निपात्यमाने तु तदा गजेन्द्रे ।
हाहाकृते तव पुत्रस्य सैन्ये।
स साल्वराजस्य शिनिप्रवीरो ।
जहार भल्लेन शिरः शितेन ॥ ९.१९.२६ ॥
当那象王被击倒、你儿子的军队发出哀号之时,Śini 族的首要英雄以一支锋利的新月箭斩下了 Sālva 王的头颅。
9.19.27
हृतोत्तमाङ्गो युधि सात्वतेन ।
पपात भूमौ सह नागराज्ञा।
यथाऽद्रिशृङ्गं सुमहत्प्रणुन्नं ।
वज्रेण देवाधिपचोदितेन ॥ ९.१९.२७ ॥
他的头颅在战斗中被 Sātvata(Sātyaki)斩下,与象王一同倒在地上,宛如被天神之王投掷的雷霆击中的巨大山峰。