Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.2.1

विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः ।
विललाप महाराज दुःखाद्दुःखतरं गतः
शृणु राजन्नवहितो यथावृत्तो महान्क्षयः ।
कुरूणां पाण्डवानां च समासाद्य परस्परम् ॥ ९.२.१ ॥

女眷们被遣走之后,安比迦之子持国从悲痛陷入更深的悲痛,哀叹不已。大王,请专心听,库鲁族与般度族相遇时所发生的大毁灭是如何发生的。

9.2.2

सधूममिव निःश्वस्य करौ धुन्वन्पुनःपुनः ।
बहु सञ्चिन्तयित्वा तु सञ्जयं वाक्यमब्रवीत्
निहते सूतपुत्रे तु पाण्डवेन महात्मना ।
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् ॥ ९.२.२ ॥

他像冒烟般叹息,一次又一次地挥动双手,深思良久之后,对桑闍耶说了这些话:“御者之子被高尚的般度之子杀死,军队溃逃又被一再召集之时……”

9.2.3

अहो बत महद्दुःखं यदहं पाण्डवान्रणे ।
क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै
घोरे मनुष्यदेहानामाजौ नरवरक्षये ।
यत्तत्कर्णे हते पार्थः कसिंहनादमथाकरोत् ॥ ९.२.३ ॥

唉!我从你那里听说般度之子在战斗中安然无恙、毫发无损,这真是极大的悲痛啊,御者。在那可怕的人体屠杀之中,在最优秀之人的毁灭之中,当迦尔纳被杀时,普利塔之子发出了狮子般的吼声。

9.2.4

वज्रसारमयं नूनं हृदयं सुदृढं मम ।
यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा
तदा तव सुतान्राजन्प्राविशत्सुमहद्भयम् ॥ ९.२.४ ॥

我的心肯定是用金刚之精华所造,极其坚固,因为听到儿子们被杀,它竟没有碎成千片。大王啊,那时,你的儿子们陷入了极大的恐惧。

9.2.5

चिन्तयित्वा वचस्तेषां बालक्रीडां च सञ्जय ।
अद्य चैव हताञ्श्रुत्वा दीर्यते मे भृशं मनः
न सन्धातुमनीकानि न चैवाथ पराक्रमे ।
आसीद्बुद्धिर्हते कर्णे तव योधस्य कस्यचित् ॥ ९.२.५ ॥

回想他们的话语与童年嬉戏,hé Sañjaya,今日闻知他们被杀,我的心极为撕裂。迦尔纳被杀之后,你的战士中已无人有意重新集结军队或显示勇武。

9.2.6

अन्धत्वाद्यदि पुत्राणां न मे रूपिनिदर्शनम् ।
पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता
वणिजो नावि भिन्नायामगाधे विप्लुवा इव ।
अपारे पारमिच्छन्तो हते द्वीपे किरीटिना ॥ ९.२.६ ॥

虽因我失明而未能见到诸子之容,但出于对儿子的爱所生的情意,始终系于他们身上。如同商人在破船上,于无底之海中渴望彼岸,岛屿既失,他们便被戴冠者所杀。

9.2.7

बालभावमतिक्रम्य यौवनस्थांश्च तानहम् ।
श्रियं प्राप्तांश्च ताञ्श्रुत्वा हृष्ट आसं तदाऽनघ
सूतपुत्रो हते राजन्वित्रस्ताः शरविक्षताः ।
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ॥ ९.२.७ ॥

他们已度过童年而步入青年,听闻他们获得了兴盛,hé 无瑕者,我当时曾经欢喜。但当御者之子被杀,hé 王啊,他们中箭受伤,惊恐无依,寻求保护,如同被狮子追逼的鹿。

9.2.8

तानद्य निहताञ्श्रुत्वा हतैश्वर्यान्हतौजसः ।
न लभेयं क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः
भग्नशृङ्गा इव वृषा शीर्णदंष्ट्रा इवोरगाः ।
प्रत्युपायाम सायाह्ने निर्जिताः सव्यसाचिना ॥ ९.२.८ ॥

今日闻其被杀、权势与威力尽毁,我为诸子之忧所困,终不能得安宁。如角折之牛、牙断之蛇,他们在傍晚被萨维亚萨钦(阿周那)击败而归。

9.2.9

एह्येहि वत्स राजेन्द्र ममानाथस्य पुत्रक ।
त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम्
हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः ।
सूतपुत्रे हते राजन्पुत्रास्ते प्राद्रवंस्ततः ॥ ९.२.९ ॥

来吧,来吧,孩子,王中之王,我这无依无靠的儿子!失去你,啊大臂者,我将走向何方?当御者之子被杀时,啊王,你的儿子们,英雄已死,被锐利的箭矢斩断击碎,便四散奔逃了。

9.2.10

कथं त्वं पृथिवीपालांस्त्यक्त्वा तात समागतान् ।
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा
विध्वस्तकवचनाः सर्वे कान्दिशीका विचेतसः ।
अन्योन्यमभिनिघ्नन्तो वीक्षमाणा भयाद्दिशः ॥ ९.२.१० ॥

孩子啊,你怎能丢下聚集而来的大地守护者,像一个卑贱的普通国王那样死倒在地上?他们全都甲胄破碎,四散奔逃,心神迷乱,恐惧地望着四方,彼此相互击杀。

9.2.11

गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा ।
अन्धं वृद्वं च मां वीर विहाय क्व नु यास्यसि
मामेव नूनं बीभत्सुर्मामेव च वृकोदरः ।
अभियातीति मन्वानाः पेतुर्मम्लुश्च भारत ॥ ९.२.११ ॥

大王啊,您曾是亲族与朋友的依靠。英雄啊,您撇下我这个盲人和老人,将去向何方?他们以为“比菩蹉与狼腹正冲我而来”,于是倒下并被碾压,婆罗多啊。

9.2.12

सा कृपा सा च ते प्रीतिः सा च राजसु मानिता ।
कथं त्वं निहतः पार्थैः संयुगेष्वपराजितः
अश्वानन्ये गजानन्ये रथानन्ये महारथाः ।
आरुह्य जवसम्पन्नाः पादातान्प्रजहुर्भयात् ॥ ९.२.१२ ॥

那份怜悯、你的那份情谊,以及你在诸王中所受的尊重,何在?你这位在战场上从未败北的人,怎会被普利塔之子所杀?那些大车士有的骑马,有的乘象,有的登车,疾速奔逃,因恐惧而抛下了步兵。

9.2.13

को नु मामुत्थितः काले ताततातेति वक्ष्यति ।
महाराजेति सततं लोकनाथेति चासकृत्
कुञ्जरैः स्यन्दना भग्नाः सादिनश्च महारथैः ।
पदातिसङ्घाश्चाश्वौघैः पलायद्भिर्भृशं हताः ॥ ९.२.१३ ॥

如今我起身之时,还有谁会反复地呼唤我:“父亲啊,父亲”,“大王”,“世界之主”?战车被象群撞毁,骑士被击溃;步兵的大群和马的群队在奔逃中,被大车士们大量杀戮。

9.2.14

परिष्वज्य च कं कण्ठे स्नेहेन क्लिन्नलोचनः ।
अनुशास्ताऽस्मि कौरव्य तत्साधु वदमे वचः
व्यालतस्करसङ्कीर्णे सार्थहीना यथा वने ।
तथा त्वदीया निहते सूतपुत्रे पदाऽभवन् ॥ ९.२.१४ ॥

他深情地搂住他的脖子,泪眼模糊:“库鲁的后裔啊,我是你的劝导者,请好好听我的话:如同在蛇与盗贼充斥的森林中失去领队的商队,御者之子被杀之后,你的人马便都步行了。”

9.2.15

ननु नामाहमश्रौषं वचनं तव पुत्रक ।
भूयसी मम पृथ्वीयं तात पार्थस्य नो तथा
हतारोहास्तथा नागाश्छिन्नहस्तास्तथाऽपरे ।
सर्वं पार्थमयं लोकमपश्यन्वै भयार्दिताः ॥ ९.२.१५ ॥

的确我听过你的话,孩子——“这片大地是我的,亲爱的,却不是般度之子的。”骑手已被杀死,象鼻被斩断,其余的也都被恐惧折磨,他们看到整个世界都充满了阿周那。

9.2.16

भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः ।
भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् ।
दुर्योधनोऽथ स्वं सूतं हाहाकृत्वैवमब्रवीत् ॥ ९.२.१६ ॥

杜尔约达那看到所有人——婆伽达多、克利巴、沙利耶、阿般提王子、胜车、婆利输罗婆、苏摩达多、大王和跋利迦——在怖畏比摩之下逃奔,便大叫“哎呀!”,并对自己的御者这样说。

9.2.17

अश्वत्थामा च भोजश्च मागधश्च महाबलः ।
बृहद्बलश्च क्राथश्च शकुनिश्चापि सौबलः
नातिक्रमिष्यते पार्थो धनुष्पाणिमवस्थितम् ।
जघने युध्यमानं मां तूर्णमश्वान्प्रचोदय ॥ ९.२.१७ ॥

阿湿婆多摩、薄阳、强大的摩揭陀王、布利哈德巴拉、克拉陀,还有苏巴拉之子沙恭尼:手持弓立于前方的般度之子,不会越过正从后方作战的我。快催动马匹。

9.2.18

म्लेच्छाश्च शतसाहस्राः शकाश्च यवनैः सह ।
सुदक्षिणश्च काम्भोजस्त्रिगर्ताधिपतिस्तथा
समरे युध्यमानं हि कौन्तेयो मां धनञ्जयः ।
नोत्सहेताप्यतिक्रान्तुं वेलामिव महार्णवः ॥ ९.२.१८ ॥

蛮族、数十万沙迦人与希腊人、苏达克希那、迦谋阇王,以及三摩竭的主君:在战场上与我交战的昆提之子达那阇耶,不敢越过我,正如大海不越过its岸边。

9.2.19

भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः ।
श्रुतायुश्चाश्रुतायुश्च शतायुश्चापि वीर्यवान्
अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम् ।
निहत्य शिष्टाञ्शत्रूंश्च कर्णस्यानृण्यमाप्नुयाम् ॥ ९.२.१९ ॥

祖父毗湿摩、婆罗堕阇与瞿多摩、室卢陀耶、阿室卢陀耶,以及勇猛的沙陀耶也一样:今日杀死阿周那与戈文达,以及高傲的狼腹,并杀死其余敌人,愿我从对迦尔纳的债务中得到解脱。

9.2.20

जलसन्धोऽथार्ष्यशृङ्गी राक्षसश्चाप्यलायुधः ।
अलम्बुसो वीरबाहुः सुबाहुश्च महारथः
तच्छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः ।
सूतो हेमपरिच्छन्नाञ्शनैरश्वानचोदयत् ॥ ९.२.२० ॥

支羅山陀、阿利耶鹿角、羅剎阿羅耶陀、阿藍布沙、勇臂、善臂及大車士——聽到庫盧王那番配得上英雄與高貴者的話,御者便緩緩驅動那些以黃金裝飾的馬匹。

9.2.21

एते चान्ये च बहवो राजानो राजसत्तम ।
मदर्थं प्रहरिष्यन्ति प्राणांस्त्यक्त्वा धनानि च
गजाश्वरथहीनास्तु पादाताश्चैव मारिष ।
पञ्चविंशतिसाहस्राः प्राद्रवञ्शनकैरिव ॥ ९.२.२१ ॥

此等及其他眾多諸王,諸王中的最勝者啊,為了我,將捨棄性命與財富而出擊。尊者啊,那二萬五千步兵,無象、無馬、無車,緩緩奔跑向前,彷彿。

9.2.22

तेषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः ।
योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः
तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः ।
बलेन चतुरङ्गेण परिक्षिप्याहनच्छरैः ॥ ९.२.२२ ॥

我立於他們中間,被兄弟們所圍繞,將在戰場上四面迎戰普利塔之子與般遮羅人。盛怒的怖軍與沛沙塔之子德里什塔尤姆那以四軍包圍他們,並以箭射擊。

9.2.23

चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे ।
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम्
प्रत्ययुध्यंस्तु ते सर्वे भीमसेनं सपार्षतम् ।
पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी ॥ ९.२.२३ ॥

众王中的猛虎啊!他们在战斗中全都与车底人、德罗波蒂之子、萨提亚基、宽提菩阇以及罗刹瞿陀迦奇交战,也与婆罗塞那及般沙他一同作战。那里其他人呼喊着阿周那与般沙他的名字。

9.2.24

एकोऽप्येषां महाराज समर्थः सन्निवारणे ।
समरे पाण्डवेयानां सङ्क्रुद्धो ह्यभिधावताम्
अक्रुध्यत रणे भीमस्तैर्मृधे प्रत्यवस्थितैः ।
सोऽवतीर्य रथात्तूर्णं गदापाणिरयुध्यत ॥ ९.२.२४ ॥

大王,他们之中即使一人也足以阻挡般度之子。在战斗中,众般度之子发起进攻,毗摩怒不可遏,面对着他们站立于战阵中;他迅速从车上下来,手持金刚杵与之作战。

9.2.25

किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः ।
अथवा सर्व एवैते पाण्डवस्यानुयायिभिः
न तान्रथस्थो भूमिष्ठान्धर्मापेक्षी वृकोदरः ।
योधयामास कौन्तेयो भुजवीर्यमुपाश्रितः ॥ ९.२.२५ ॥

那时,这些英雄或者与般度之子结仇而聚在一起,或者全都是般度之子的追随者;而重法的狼腹并没有站在车上与站在地上的人作战;贡蒂之子依靠自己臂膀的力量与他们交战。

9.2.26

योत्स्यन्ते सह राजेन्द्र हनिष्यन्ति च तान्मृधे ।
कर्ण एको मया सार्धं निहनिष्यति पाण्डवान्
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् ।
न्यवधीत्तावकान्सर्वान्दण्डपाणिरिवान्तकः ॥ ९.२.२६ ॥

诸王之主啊,他们将与之交战,并在战场上杀死他们。唯有迦尔纳与我联手,将消灭般度之子。他手持镶金的巨大钝器,像手执杖的死神一样,击杀了你的所有部下。

9.2.27

ते वै नृपतयो वीराः स्थास्यन्ति मम शासने ।
पदातयो हि संरब्धास्त्यक्तजीवितबान्धवाः।
भीममभ्यद्रवन्सङ्ख्ये पतङ्गा इव पावकम् ॥ ९.२.२७ ॥

那些英勇的国王将听从我的命令。愤怒的步兵们舍弃了生命与亲族,在战场上扑向毗摩,如飞蛾扑火。

9.2.28

यश्च तेषां प्रणेता वै वासुदेवो महाबलः ।
न स सन्नह्यते राजन्निति मामब्रवीद्वचः
आसाद्य भीमसेनं ते संरब्धा युद्धदुर्मदाः ।
विनेदुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम् ॥ ९.२.२८ ॥

而他们的首领、大力的婆苏提婆,不穿铠甲,大王,他曾对我这样说。他们逼近毗摩塞那,怒火与战斗的狂热充满其心,忽然大声咆哮,如众生见到死神时惊叫。

9.2.29

एवं च वदतः सूत बहुशो मम सन्निधौ ।
युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्रणे
श्येनवद्व्यचरद्भीमः खङ्गेन गदया तथा ।
पञ्चविंशतिसाहस्रांस्तावकानां व्यपोथयत् ॥ ९.२.२९ ॥

御者啊,你在我面前多次这样说,我依推理看到,般度之子在战场上被杀。毗摩如鹰般持剑与棍奔走,将你的二十五千士兵踩碎。

9.2.30

तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः ।
व्यायच्छमानाः समरे किमन्यद्भागधेयतः
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः ।
धृष्टद्युम्नं पुरस्कृत्य पुनस्तस्थौ महाबलः ॥ ९.२.३० ॥

立于他们之中,我的儿子们正在战场上奋力而被杀,除了命运还有何因?毗摩以真实的勇力击杀那人众之军,再次站立,并将持法者(Dhṛṣṭadyumna)置于前方。

9.2.31

भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान् ।
शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम्
धनञ्जयो रथानीकमन्वपद्यत वीर्यवान् ॥ ९.२.३१ ॥

在世界之主、威势赫赫的毗湿摩被杀之处,他走近始坎丁,如狮子扑向豺狼,勇猛的财天(阿周那)便攻向战车之军。

9.2.32

द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः ।
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः ।
जवेनाभ्यपतन्हृष्टा घ्नन्तो दौर्योधनं बलम् ॥ ९.२.३२ ॥

婆罗门德罗纳精通一切兵器与箭术,却在战场上被般遮五子所杀——若非命运,还能有何原因?摩德利的两个儿子与大力的萨谛奇满心欢喜,疾速冲击沙恭尼,击杀难敌的军队。

9.2.33

कर्णश्च निहतः सङ्ख्ये दिव्यास्त्रज्ञो महाबलः ।
भूरिश्रवा हतो पत्र सोमदत्तश्च संयुगे।
बाह्लिकश्च महाराज किमन्यद्भागधेयतः ।
तस्याश्ववाहान्सुबहूंस्ते निहत्य शितैः शरैः।
तमन्वधावंस्त्वरितास्तत्र युद्धमवर्तत ॥ ९.२.३३ ॥

在战场上,精通神兵的大力迦尔纳被杀;布利什拉瓦斯与苏摩达多也在战斗中阵亡。大王啊,巴利迦亦然——若非命运,还能是什么?他们以利箭杀尽其众多骑兵后,急速追赶他,战斗就在那里展开。

9.2.34

भगदत्तो हतो यत्र गजयुद्धविशारदः ।
जयद्रथश्च निहतः किमन्यद्भागधेयतः
ततो धनञ्जयो राजन्रथानीकमगाहत ।
विश्रुतं त्रिषु लोकेषु गाण्डीवं व्याक्षिपन्धनुः ॥ ९.२.३४ ॥

善用象战的薄伽达多在此被杀,贤勝也被杀——若非命运,还能是什么?然后,大王,阿周那(财天)冲入战车军阵,挥舞着闻名三界的甘狄拔弓。

9.2.35

सुदक्षिणो हतो यत्र जलसन्धश्च पौरवः ।
श्रुतायुश्चाश्रुतायुश्च किमन्यद्भागधेयतः
कृष्णसारथिमायान्तं दृष्ट्वा श्वेतहयं रथम् ।
अर्जुनं चापि योद्वारं त्वदीयाः प्राद्रावन्भयात् ॥ ९.२.३५ ॥

苏达克希那、柏拉瓦族的月裂王、以及室鲁塔优和阿室鲁塔优在那里被杀,此外还能说什么,岂非命运?看到以黑天为御者的白马战车和勇士阿周那逼近,你的人因恐惧而逃散。

9.2.36

महाबलस्तथा पाण्ड्यः सर्वशस्त्रभृतां वरः ।
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः
विप्रहीनरथाश्वाश्च शरैश्च परिवारिताः ।
पञ्चविंशतिसाहस्राः पार्थमार्च्छन्पदातयः ॥ ९.२.३६ ॥

最强的潘底亚王,持械者中的最优者,也在战斗中被般度诸子杀死;此外还能说什么,岂非命运?二十五千步兵,车马无御者,被箭矢包围,冲向公子。

9.2.37

बृहद्बलो हतो यत्र मागधश्च महाबलः ।
उग्रायुधश्च विक्रान्तः प्रतिमानं धनुष्मताम्
हत्वा तत्पुरुषानीकं पाञ्चालानां महारथः ।
भीमसेनं पुरस्कृत्य न चिरात्प्रत्यदृश्यत ॥ ९.२.३७ ॥

布利哈德巴拉、摩揭陀的大力王,以及弓手中无人能敌的勇士乌格拉尤陀在那里被杀;歼灭了般遮罗人的那支步兵之后,以怖军为先锋,那位大车战士不久又出现了。

9.2.38

आवन्त्यो निहतो यत्र त्रैगर्तश्च जनाधिपः ।
संशप्तकाश्च निहताः किमन्यद्भागधेयतः
महाधनुर्धरः श्रीमानमित्रगणमर्दनः ।
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महायशाः ॥ ९.२.३८ ॥

在那里,阿梵提王被杀,众生之主、特里迦尔塔王被杀,三十勇士也被杀。除了命运还能有什么原因?那位伟大的弓箭手、光耀的敌军摧毁者、般遮罗王之子、名声显赫的德律斯塔德尤姆那。

9.2.39

अलम्बुसस्तथा राजन्राक्षसश्चाप्यलायुधः ।
आर्ष्यशृङ्गिश्च निहतः किमन्यद्भागधेयतः
पारावतसवर्णाश्वं कोविदारवरध्वजम् ।
धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन्भयात् ॥ ९.२.३९ ॥

啊,国王!阿兰布沙、罗刹阿拉育陀,还有阿尔沙·斯林伽也被杀。除了命运还能有什么原因?你的士兵在战场上看到德律斯塔德尤姆那——他驾着鸽灰色的马,持着上好的婆罗树旗——便因恐惧而逃散。

9.2.40

नारायणा हता यत्र गोपाला युद्धदुर्मदाः ।
म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः
गान्धारराजं श्रीघ्रास्त्रमनुसृत्य यशस्विनौ ।
अचिरात्प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी ॥ ९.२.४० ॥

在那里,那罗延的部众、战斗中狂暴的牧人以及成千上万的蛮夷被杀。除了命运还能有什么原因?追逐犍陀罗王的玛德丽之二子,兵器迅捷、名声显赫,很快又与萨提亚基一同出现。

9.2.41

शकुनिः सौबलो यत्र कैतव्यश्च महाबलः ।
निहतः सबलो वीरः किमन्यद्भागधेयतः
चेकितानः शिखण्डी च द्रौपदेयाश्च मारिष ।
हत्वा त्वदीयं सुमहत्सैन्यं शङ्खानथाधमन् ॥ ९.२.४१ ॥

沙古尼(Śakuni)、苏跋罗之子、狡诈而极其强大的英雄,与其军队一同被杀——除了命运,还能说什么呢?车基塔那、湿婆犍丁与德罗波蒂的诸子摧毁了你庞大的军队,哦尊者,吹响了海螺。

9.2.42

एते चान्ये च बहवः कृतास्त्रा युद्धदुर्मदाः ।
राजानो राजपुत्राश्च शूराः परिघबाहवः।
निहता बहवो यत्र किमन्यद्भागधेयतः ।
ते सर्वे तावकान्प्रेक्ष्य द्रवतो वै पराङ्मुखान्।
अभ्यधावन्त निघ्नन्तो वृषाञ्चित्वा वृषा इव ॥ ९.२.४२ ॥

此等及其他许多精通武艺、因战斗而狂醉、臂如铁杵的英勇国王与王子,在那里被杀——除了命运,还能说什么呢?他们见你的人背转身逃跑,便冲上去击杀,如公牛般追逐其他公牛。

9.2.43

यत्र शूरा महेष्वासाः कृतास्त्रा युद्वदुर्मदाः ।
बहवो निहताः सूत महेन्द्रसमविक्रमाः
सेनावशेषं तं दृष्ट्वा तव पुत्रस्य पाण्डवः ।
अवस्थितं सव्यसाची चुक्रोध बलवन्नृप ॥ ९.२.४३ ॥

在那里,许多英雄、精通武艺的大弓箭手、因战斗而狂醉、勇武堪比大因陀罗的人被杀——哦御者,见你儿子残余的军队坚守不退,潘杜之子萨维亚萨钦勃然大怒,哦王。

9.2.44

नानादेशसमावृत्ताः क्षत्रिया यत्र सञ्जय ।
निहताः समरे सर्वे किमन्यद्भागधेयतः
तत एनं शरै राजन्सहसा समवाकिरत् ।
रजसा चोद्गतेनाथ न स्म किञ्चन दृश्यते ॥ ९.२.४४ ॥

桑闍耶啊,那里来自各方的刹帝利武士都已在战场上被杀,这除了命运还能是什么?那时,国王啊,他们突然用箭雨淹没了他,而因扬起的尘土,什么也看不见。

9.2.45

पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः ।
वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः
अन्धकारीकृते लोके शरीभूते महीतले ।
दिशः सर्वा महाराज तावकाः प्राद्रवन्भयात् ॥ ९.२.४५ ॥

我的儿子们被杀,强大的孙子们也是;朋友和兄弟也都是——这除了命运还能是什么?大王啊,当世界变得黑暗,大地堆满尸体时,你的人马都因恐惧向四面八方逃散。

9.2.46

भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः ।
यस्तु भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः
भज्यमानेषु सर्वेषु कुरुराजो विशाम्पते ।
परेषामात्मनश्चैव सैन्ये ते समुपाद्रवत् ॥ ९.२.४६ ॥

生而具有福运的人必定降生;有福运的人会获得吉祥。人主啊,当一切都在崩溃之时,俱卢王在你的军中,穿过敌人的队伍,也穿过自己的队伍,逃走了。

9.2.47

अहं वियुक्तस्तैर्भाग्यैः पुत्रैश्चैवेह सञ्जय ।
कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः
ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान् ।
युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः ॥ ९.२.४७ ॥

桑闍耶啊,我失去了儿子与福运,年老而落入敌人之手,我今后将如何?于是难敌召集所有般度之子应战,如往昔钵利召唤诸天神一般,婆罗多族中最优秀者啊。

9.2.48

नान्यदत्र परं मन्ये वनवासादृते प्रभो ।
सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसंक्षये
त एनमभिगर्जन्तं सहिताः समुपाद्रवन् ।
नानाशस्त्रसृजः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः ॥ ९.२.४८ ॥

主啊,除了往林中流放,我认为此处再无更好的选择。亲族尽灭之后,我将孤身一人走入森林。那时,他们众人一齐怒气冲冲地扑向正在咆哮的他,投掷各种兵器,一再地辱骂他。

9.2.49

न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते ।
इमामवस्थां प्राप्तस्य लूनपक्षस्य सञ्जय
दुर्योधनोऽप्यसम्भ्रान्तस्तानरीन्व्यधमच्छरैः ॥ ९.२.४९ ॥

桑闍耶啊,对于我这沦落至此、折翼的人而言,除了入林而去,再没有更好的路了。那时难敌也毫不慌乱,以箭射倒了那些敌人。

9.2.50

दुर्योधनो हतो यत्र शल्यश्च निहतो युधि ।
दुःशासनो विविंशश्च विकर्णश्च महाबलः
तत्राद्भुतमपरश्याम तव पुत्रस्य पौरुषम् ।
यदेनं पाण्डवाः सर्वे न शेकुरतिवर्तितुम् ॥ ९.२.५० ॥

杜尔约达纳在那里被杀,沙利耶也在战斗中被杀;杜莎萨那、毗温萨提和大力的毗迦尔纳也一同阵亡。在那里我们看见了你儿子非凡的勇武,所有般度之子都无法胜过它。

9.2.51

कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम् ।
एकेन समरे येन हतं पुत्रशतं मम
नातिदूरापयातं च कृतबुद्धि पलायने ।
दुर्योधनः स्वकं सैन्यमपश्यकद्भृशविक्षतम् ॥ ९.२.५१ ॥

我怎能听闻毗摩森那那个殊胜的消息?他独自在战场上杀死了我的一百个儿子。杜尔约达纳决意逃跑,却没有走远,他看见自己的军队已受重创。

9.2.52

असकृद्वदतस्तस्य दुर्योधनवधेन च ।
दुःखशोकाभिसन्तप्तो न श्रोष्ये परुषा गिरः
ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः ।
हर्षयन्निव तान्योधांस्ततो वचनमब्रवीत् ॥ ९.२.५२ ॥

他一再谈论杜尔约达纳的被杀,我被悲痛与忧伤所煎熬,不愿再听那些刺耳之言。于是,王中之王啊,你那坚定的儿子止住了逃跑,仿佛是为了鼓舞那些战士,说出了这样的话。

9.2.53

एवं स शोकसन्तप्तः पार्थिवो हतबान्धवः ।
मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च ।
यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः ॥ ९.२.५३ ॥

如此,这位亲属已被杀死、饱受悲痛煎熬的国王,一再陷入迷乱,被对儿子的忧虑所笼罩,说道:我在大地上和群山之中都看不到一个地方,你们即使前往,般度之子也不会杀死你们。逃跑对你们有什么用呢?

9.2.54

विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः ।
दीर्घमुष्णं स निःश्वस्य चिन्तयित्वा पराभवम्
स्वल्पं चैव बलं तेषां कृष्णौ च भृशविक्षतौ ।
यदि सर्वेऽपि तिष्ठामो ध्रुवं नो विजयो भवेत् ॥ ९.२.५४ ॥

悲叹许久之后,安婆利迦之子持国深深地叹出一口热气,思量着失败:他们的军队很小,两位黑天都受了重伤。如果我们都坚定不移,胜利必定属于我们。

9.2.55

दुःखेन महता राजन्सन्तप्तो भरतर्षभः ।
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम्
विप्लयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्पिषान् ।
अनुसृत्य हनिष्यन्ति श्रेयोः न समरे वधः ॥ ९.२.५५ ॥

国王啊,饱受巨大悲痛煎熬的婆罗多族之雄,再次向御者迦婆尔伽尼如实询问:那些受了冤屈的般度之子,会追杀你们这些溃散逃跑的人吗?没有什么比战死沙场更好的了。

9.2.56

भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम् ।
सेनापतिं प्रणेतारं कमकुर्वत मामकाः
सुखः साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् ।
मृतो दुःखं न जानीते प्रेत्य चानन्त्यमश्नुते ॥ ९.२.५६ ॥

听闻毗湿摩与德罗纳已被杀,御者之子也已倒下,我的人们将谁立为统帅与首领?对于奋战的刹帝利,依刹帝利之法战死沙场是安乐的。死者不知痛苦,死后便得到无尽。

9.2.57

यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः ।
अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः
शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः ।
द्विषतो भीमसेनस्य वशमेष्यथ विद्रुताः ॥ ९.२.५७ ॥

我方在战场上所立的统帅,般度之子很快便会将其击杀。愿在此聚集的诸位刹帝利都听着:你们若逃遁,便将落入敌人毗摩森的掌控之中。

9.2.58

रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना ।
एवमेव हतो द्रोणः सर्वेषामेव पश्यताम्
पितामहैराचरितं न धर्मं हातुमर्हथ ।
नान्यत्कर्मास्ति पापीयः क्षत्रियस्य पलायनात् ॥ ९.२.५८ ॥

在战阵前线,毗湿摩在你们眼前被戴冠者(阿周那)杀死;同样,在众人眼前德罗纳也被杀。你们不应舍弃祖先们所奉行的法。对于刹帝利而言,没有比逃跑更罪恶的行为。

9.2.59

एवमेव हतः कर्णः सूतपुत्रः प्रतापवान् ।
सराजकानां सर्वेषां पश्यतां वः किरीटिना
न युद्वधर्माच्छ्रेयान्हि पन्थाः स्वर्गस्य कौरवाः ।
सुचिरेणार्जिताँलोकान्सद्यो युद्धात्समश्नुते ॥ ९.२.५९ ॥

同样,威猛的御者之子迦尔纳也被杀死了,在所有国王面前,在你们所有人眼前,被冠者(阿周那)所杀。诸俱卢啊,没有比战斗之法更好的上天之路;通过战斗,人能立即获得那长久积累才能获得的世界。

9.2.60

पूर्वमेवाहमुक्तो वै विदुरेण महात्मना ।
दुर्योधनापराधेन प्रजेयं विनशिष्यति
तस्य तद्वचनं राज्ञः पूजयित्वा महारथाः ।
पुनरेवाभ्यवर्तन्त क्षत्रियाः पाण्डवान्प्रति।
पराजयममृष्यन्त कृतचित्ताश्च विक्रमे ॥ ९.२.६० ॥

早前,那位高尚的毗杜罗就对我说,这个民族将因难敌的过错而灭亡。然而,那些大车战士和刹帝利敬重国王的话,却仍再次转身与般度之子作战;他们不能忍受失败,便在勇武中坚定了心志。

9.2.61

केचिन्न सम्यक्पश्यन्ति मूढाः सम्यगवेक्ष्य च ।
तदिदं मम मूढस्य तथाभूतं वचः स्म तत्
ततः प्रववृते युद्धं पुनरेव सुदारुणम् ।
तावकानां परेषां च देवासुररणोपमम् ॥ ९.२.६१ ॥

有些愚人即使仔细考虑,也看不清楚;我这愚昧之人的话也是如此。于是战斗再次爆发,极为惨烈,在你们的军队与敌军之间,如同诸神与阿修罗之战。

9.2.62

यदब्रवीत्स धर्मात्मा विदुरो दीर्घदर्शिवान् ।
तत्तथा समनुप्राप्तं वचनं सत्यवादिनाः
युधिष्ठिरपुरोगांश्च सर्वसैन्येन पाण्डवान् ।
अन्वधावन्महाराज पुत्रो दुर्योधनस्तव ॥ ९.२.६२ ॥

正直而有远见的维杜罗所言,已如那说真话者之言一般应验。大王啊,您的儿子难敌率全军追赶般度之子,以坚战居前。

9.2.63

दैवोपहतचित्तेन यन्मयाऽनुष्ठितं पुरा ।
अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः ॥ ९.२.६३ ॥

gāvalgaṇi啊,请再告诉我,我先前因命运所击而心智昏乱时所行的不义,其果报如何。

9.2.64

को वा मुखमनीकानामासीत्कर्णो निपातिते ।
अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी ॥ ९.२.६४ ॥

当他倒下之时,谁在诸军之前?又有哪位车战者上前迎战阿周那与婆苏提婆?

9.2.65

केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे ।
वामं च योद्वुकामस्य के वा वीरस्य पृष्ठतः ॥ ९.२.६५ ॥

战场上,谁护卫着摩德罗王的右轮?谁护卫着左轮,以及那位渴望战斗的勇士之后方?

9.2.66

कथं च वः समेतानां मद्रराजो महारथः ।
निहतः पाण्डवैः सङ्ख्ये पुत्रो वा मम सञ्जय ॥ ९.२.६६ ॥

你们众人聚集之时,大车战者摩德罗王在战斗中如何被般度之子杀害?或者,我的儿子如何被杀,桑阇耶啊?

9.2.67

ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम् ।
यथा च निहतः सङ्ख्ये पुत्रो दुर्योधनो मम ॥ ९.२.६७ ॥

请将一切如实告诉我:婆罗多族的那场大毁灭,以及我的儿子难敌是如何在战斗中被杀的。

9.2.68

पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः ।
धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः ॥ ९.२.६८ ॥

般遮罗人连同他们的步兵与随从是如何全部被杀的?持国、尸根蒂,以及德罗波蒂的五个儿子又是如何被杀的?

9.2.69

पाण्डवाश्च यथा मुक्तास्तथोभौ माधवौ युधि ।
कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः ॥ ९.२.६९ ॥

般度之子们是如何得以幸存的?战中两位摩陀婆、钶鳩、依梵伐尔曼,以及婆罗堕阇之子又是如何得以幸存的?

9.2.70

यद्यथा यादृशं चैव युद्धं वृत्तं च साम्प्रतम् ।
अखिलं श्रोतुमिच्छामि कुशलो ह्यसि सञ्जय ॥ ९.२.७० ॥

我想完整听闻战事是如何、以何种方式进行的,以及刚刚发生了什么,因为你很精通,桑遮耶。