Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.21

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.21.1

पुत्रस्तु ते महाराज रथस्थो रथिनां वरः ।
दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान् ॥ ९.२१.१ ॥

大王,您的儿子站在战车上,是战车武士中的最优者,在战场上光辉耀眼、难以抵挡,如威猛的楼陀罗。

9.21.2

तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही ।
परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान् ॥ ९.२१.२ ॥

他的千万支箭将大地遮盖,他以箭矢洒向敌人,犹如急流冲刷群山。

9.21.3

न च सोऽस्ति पुमान्कश्चित्पाण्डवानां बलार्णवे ।
हयो गजो रथो वाऽपि यः स्याद्बाणैरविक्षतः ॥ ९.२१.३ ॥

在般度子弟的军队之海中,没有一人、一马、一象或一车是未被箭矢所伤的。

9.21.4

यं यं हि समरे योधं प्रपश्यामि विशाम्पते ।
स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत ॥ ९.२१.४ ॥

人民之主啊,婆罗多,我在战场上所见的每一位武士,都被您的儿子的箭矢所覆盖。

9.21.5

यथा सैन्येन रजसा समुद्भूतेन वाहिनी ।
प्रत्यदृश्यत सञ्छन्ना तथा बाणैर्महात्मनः ॥ ९.२१.५ ॥

正如军队被自身扬起的尘土所遮盖,那位大人物的箭矢也将(般度之)军队遮盖。

9.21.6

बाणभूतामपश्याम पृथिवीं पृथिवीपते ।
दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना ॥ ९.२१.६ ॥

大地之主啊,我们看见大地被快手神射手难敌变成了箭矢之地。

9.21.7

तेषु योधसहस्रेषु तावकेषु परेषु च ।
नास्ति दुर्योधनसमः पुमानिति मतिर्मम ॥ ९.२१.७ ॥

在那数千名勇士之中,无论在你的一方还是敌方,我的看法是没有人能与难敌相比。

9.21.8

तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम् ।
यदेकं सहिताः पार्था नाभ्यवर्तन्त भारत ॥ ९.२१.८ ॥

在那里,我们目睹了你儿子的非凡勇武:他孤身一人,而团结一致的般度之子却不能向他推进,婆罗多的后裔啊。

9.21.9

युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ ।
भीमसेनं च सप्तत्या सहदेवं च पञ्चभिः ॥ ९.२१.९ ॥

婆罗多族的雄牛啊,他在战斗中用一百支箭射中了坚战,用七十支射中了怖军,用五支射中了偕天。

9.21.10

नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः ।
पञ्चभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम् ॥ ९.२१.१० ॥

他用六十四支箭射中无种,用五支射中猛光,用五支射中德罗波蒂的每个儿子,用三支射中萨谛奇。

9.21.11

धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष ।
तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान् ॥ ९.२१.११ ॥

尊者啊,他用一支钩箭斩断了偕天的弓;那位勇猛的摩德利之子丢弃了断弓……

9.21.12

अभ्यद्रवत राजानं प्रगृह्यान्यन्महद्धनुः ।
ततो दुर्योधनं सङ्ख्ये विव्याध दशभिः शरैः ॥ ९.२१.१२ ॥

他拿起另一张大弓冲向国王;随后在战斗中用十支箭射中了难敌。

9.21.13

नकुलस्तु ततो वीरो राजानं नवभिः शरैः ।
घोररूपैर्महेष्वासो विव्याध च ननाद च ॥ ९.२१.१३ ॥

随后英雄无种以九支形状可怖的箭射中国王,并发出吼声。

9.21.14

सात्यकिश्चैव राजानं शरेणानतपर्वणा ।
द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च पञ्चभिः।
अशीत्या भीमसेनश्च शरै राजानमार्पयन् ॥ ९.२१.१४ ॥

萨提亚基以一支关节弯曲的箭射中国王;德劳帕蒂之子以七十三支,法王以五支,怖军以八十支射中国王。

9.21.15

समन्तात्कीर्यमाणस्तु बाणसङ्घैर्महात्मभिः ।
न चचाल महाराज सर्वसैन्यस्य पश्यतः ॥ ९.२१.१५ ॥

尽管被诸位大丈夫的箭群从四面八方覆盖,大王啊,他却纹丝不动,全军都在看着。

9.21.16

लाघवात्सौष्ठवाच्चापि वीर्याच्चापि महात्मनः ।
अति सर्वाणि भूतानि ददृशुः सर्वपार्थिवाः ॥ ९.२१.१६ ॥

凭借大丈夫的敏捷、技艺与勇力,所有国王都看到他超越了一切众生。

9.21.17

धार्तराष्ट्रा हि राजेन्द्र योधास्तु स्वल्पमन्तरम् ।
अपश्यमाना राजानं पर्यवर्तन्त दंशिताः ॥ ९.२१.१७ ॥

诸王之王啊,持国之子们的战士虽披甲,却因看不到相距不远的国王而转身退去。

9.21.18

तेषामापततां घोरस्तुमुलः समपद्यत ।
क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा स्वनः ॥ ९.२१.१८ ॥

当他们冲上前来时,爆发了可怕的喧嚣,如同雨季里翻腾的大海的怒吼。

9.21.19

समासाद्य रणे ते तु राजानमपराजितम् ।
प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः ॥ ९.२१.१९ ॥

他们在战场上到达这位不败之王身边,那些伟大的弓手迎战进攻的般度之子。

9.21.20

भीमसेनं रणे क्रुद्धो द्रोणपुत्रो न्यवारयत् ।
तयोर्बाणैर्महाराज प्रमुक्तैः सर्वतोदिशम्।
नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा ॥ ९.२१.२० ॥

愤怒的德罗纳之子在战斗中阻挡了毗摩森那。大王啊,二人射出的箭遍布四方;英雄们在战场上既不能辨认方位,也分不清次方位。

9.21.21

तावुभौ क्रूरकर्माणावुभौ भारतदुःसहौ ।
घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ ॥ ९.२१.२१ ॥

这二人行事残酷,令婆罗多人难以忍受。两人都以可怕的方式作战,各自寻求以牙还牙。

9.21.22

त्रासयन्तौ दिशः सर्वा ज्याक्षेपकठिनत्वचौ ।
शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत् ॥ ९.२१.२२ ॥

他令四方震恐,因拉弓而皮肤变硬。英雄沙குনি在战斗中也压迫了坚战。

9.21.23

तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभो ।
नादं चकार बलवत्सर्वसैन्यानि कम्पयन् ॥ ९.२१.२३ ॥

啊,强大的君王!苏跋罗之子杀死了他的四匹马,发出巨大的吼声,使一切军队为之颤抖。

9.21.24

एतस्मिन्नन्तरे वीरं राजानमपराजितम् ।
अपोवाह रथेनाजौ सहदेवः प्रतापवान् ॥ ९.२१.२४ ॥

就在此时,勇猛的偕天从战场上用战车将那位英勇而不败的国王带走了。

9.21.25

अथान्यं रथमास्थाय धर्मपुत्रो युधिष्ठिरः ।
शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः।
ननाद च महानादं प्रवरः सर्वधन्विनाम् ॥ ९.२१.२५ ॥

此时,达磨之子坚战登上另一辆战车,以九箭射中沙恭尼,又以五箭再次射中;众弓手中最杰出的他发出巨大的吼声。

9.21.26

तद्युद्धमभवच्चित्रं घोररूपं च मारिष ।
प्रेक्षतां प्रीतिजननं सिद्धचारणसेवितम् ॥ ९.२१.२६ ॥

尊者啊,那场战斗变得奇异而形状可怖,令观者欢喜,有悉陀与遮罗那在旁观看。

9.21.27

उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम् ।
अभ्यवर्षदमेयात्मा शरवर्षैः समन्ततः ॥ ९.२१.२७ ॥

然而无量心志的乌鲁迦从四面向以战斗为狂醉的大弓手那拉库拉倾泻箭雨。

9.21.28

तथैव नकुलः शूरः सौबलस्य सुतं रणे ।
शरवर्षेण महता समन्तात्पर्यवारयत् ॥ ९.२१.२८ ॥

同样,英雄那拉库拉在战斗中以巨大的箭雨从四面包围了苏巴拉之子。

9.21.29

तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ ।
योधयन्तावपश्येतां कृतप्रतिकृतैषिणौ ॥ ९.२१.२९ ॥

在战场上,那两位英雄——贵族之子、大车战士——被看到相互争战,各自都想以牙还牙。

9.21.30

तथैव कृतवर्माणं शैनेयः शत्रुतापनः ।
योधयञ्शुशुभे राजन्बलिं शक्र इवाहवे ॥ ९.२१.३० ॥

同样,那折磨敌人的希尼之子与克里塔瓦尔曼交战,王啊,他光辉灿烂,犹如因陀罗在战斗中与钵利交战。

9.21.31

दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे ।
अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः ॥ ९.२१.३१ ॥

激战中,难敌斩断了猛光的弓,随即以利箭射穿了这位失去弓的战士。

9.21.32

धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम् ।
राजानं योधयामास पश्यतां सर्वधन्विनाम् ॥ ९.२१.३२ ॥

猛光也在战中执起一件无上的兵器,在所有弓箭手的注视下与国王交战。

9.21.33

तयोर्युद्धं महच्चासीत्सङ्ग्रामे भरतर्षभ ।
प्रभिन्नयोर्यथा सक्तं मत्तयोर्वनहस्तिनोः ॥ ९.२१.३३ ॥

二人在战中的搏斗十分激烈,婆罗多族的雄牛啊,如同两头发狂的野象相互冲撞。

9.21.34

गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबालान् ।
विव्याध बहुभिः शूरः शरैः सन्नतपर्वभिः ॥ ९.२१.३४ ॥

然而憍答摩在战中震怒,作为勇士,以许多弯曲箭杆的箭射穿了德罗波蒂的强臂诸子。

9.21.35

तस्य तैरभवद्युद्धमिन्द्रियैरिव देहिनः ।
घोररूपमसंवार्यं निर्मर्यादमवर्तत ॥ ९.२१.३५ ॥

他与他们的战斗,犹如有身者与自己的诸根相搏;它化为可怖之形,难以抑制,毫无界限。

9.21.36

ते च सम्पीडयामासुरिन्द्रियाणीव बालिशम् ।
स च तान्प्रतिसंरब्धः प्रत्ययोधयदाहवे ॥ ९.२१.३६ ॥

他们逼迫他,如同诸根逼迫愚人;他也怒火中烧,在战中反击他们。

9.21.37

एवं चित्रमभूद्युद्धं तस्य तैः सह भारत ।
उत्थायोत्थाय हि यथा देहिनामिन्द्रियैर्विभो ॥ ९.२१.३७ ॥

如此,婆罗多之子啊,他与他们的战斗变得奇异,尊贵者啊,犹如有身众生的诸根一再升起。

9.21.38

नराश्चैव नरैः सार्धं दन्तिनो दन्तिभिस्तथा ।
हया हयैः समासक्ता रथिनो रथिभिः सह ॥ ९.२१.३८ ॥

步兵与步兵相接,象与象相接,马与马相接,车与车相接,彼此纠缠。

9.21.39

सङ्कुलं चाभवद्भूयो घोररूपं विशाम्पते ॥ ९.२१.३९ ॥

而且,人民之主啊,那喧嚣又变得更加可怖。

9.21.40

इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो ।
युद्धान्यासन्महाराज घोरांणि च बहूनि च ॥ ९.२१.४० ॥

“这是奇异的,这是可怖的,这是凶猛的”,主啊;大王啊,许多可怖的战斗在那里发生了。

9.21.41

ते समासाद्य समरे परस्परमरिन्दमाः ।
व्यनदंश्चैव जघ्नुश्च समाताद्य महाहवे ॥ ९.२१.४१ ॥

那些降伏敌人的勇士,在战场上彼此靠近,咆哮并击打;今日此大战亦复如是。

9.21.42

तेषां पत्रसमुद्भूतं रजस्तीव्रमदृश्यत ।
वातेन चोद्धतं राजन्धावद्भिश्चाश्वसादिभिः ॥ ९.२१.४२ ॥

大王啊,他们脚下扬起的浓尘可以看见,被风和奔驰的骑兵卷起。

9.21.43

रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम् ।
रजः सन्ध्याभ्रकलिलं दिवाकरपथं ययौ ॥ ९.२१.४३ ॥

由战车轮辋和象群鼻息扬起的尘土,与晚霞云气混合,升至太阳的路径。

9.21.44

रजसा तेन सम्पृक्तो भास्करो निष्प्रभः कृतः ।
सञ्छादिताऽभवद्भूमिस्ते च शूरा महारथाः ॥ ९.२१.४४ ॥

太阳被那尘土笼罩而失去光辉;大地被覆盖,那些英勇的大战车武士也被覆盖。

9.21.45

मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः ।
वीरशोणितसिक्तायां भूमौ भरतसत्तम ॥ ९.२१.४५ ॥

瞬息之间,四面尘埃散尽,洒满英雄鲜血的大地显露出来,啊,婆罗多中最优秀者。

9.21.46

उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम् ॥ ९.२१.४६ ॥

于是那可怖的猛烈尘埃平息了。

9.21.47

ततोऽपश्यमहं भूयो द्वन्द्वयुद्धानि भारत ।
यथाप्राणं यथाश्रेष्ठं मध्याह्ने वै सुदारुणम् ॥ ९.२१.४७ ॥

然后,啊,婆罗多,我在正午又看到了单打独斗,极其惨烈,各以性命相搏,各自都是此类中最好的。

9.21.48

वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः ।
शब्दश्च तुमुलः सङ्ख्ये शराणां पततामभूत्
महावेणुवनस्येव दह्यमानस्य पर्वते ॥ ९.२१.४८ ॥

啊,诸王之主,那里可见铠甲闪亮的光芒;战场上坠落的箭矢发出轰鸣之声,犹如山上燃烧的大片竹林。