摩诃婆罗多 · 章 9.23
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.23.1
अल्पावशिष्टे सैन्ये तु पाण्डवैर्निहते बले ।
अश्वैः सप्तसहस्रैस्तु उपावर्तत सौबलः ॥ ९.२३.१ ॥
当军队被般度之子们杀尽、所剩无几时,苏跋罗之子(沙恭尼)率七千匹马折返。
9.23.2
स यात्वा वाहिनीं तूर्णं चोदयानः स्वकान्युधि ।
युध्यध्वमिति संहृष्टाः पुनःपुनररिन्दमाः ॥ ९.२३.२ ॥
他迅速来到军中,激励自己的部下说:“战斗吧!”那些克敌的勇士一再欢欣鼓舞。
9.23.3
अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महाबलः ।
शकुनेस्तद्वचः श्रुत्वा तमूचुर्भरतर्षभ ॥ ९.२३.३ ॥
他在那里问众武士:“那位大力的国王在哪里?”他们听了沙恭尼的话,便对他说:“婆罗多族中的雄牛啊!”
9.23.4
असौ तिष्ठति कौरव्यो रणमध्ये महाबलः ।
यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम् ॥ ९.२३.४ ॥
那位大力的俱卢在战场中央站立,那里有这把如满月般光辉的巨大华盖。
9.23.5
यत्र ते सतनुत्राणा रथास्तिष्ठन्ति दंशिताः ।
यत्रैष तुमुलः शब्दः पर्जन्यनिनदोपमः ॥ ९.२३.५ ॥
你的披甲战车严阵以待之处,这如云中雷鸣般的喧嚣声正在响起。
9.23.6
तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम् ।
एवमुक्तस्तु तैर्योधैः शकुनिः सौबलस्तदा ॥ ९.२३.६ ॥
“大王啊,快去那里,那时你将见到俱卢。”那些武士这样对他说,于是苏跋罗之子沙恭尼……
9.23.7
प्रययौ तत्र यत्रास्ते पुत्रस्तव नराधिप ।
सर्वतः संवृतो वीरैः समरे चित्रयोधिभिः ॥ ९.२३.७ ॥
人主啊,他前往你儿子所在之处,在战场上被技艺非凡的勇士从四面包围。
9.23.8
ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम् ।
स रथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः ॥ ९.२३.८ ॥
于是,看见杜尔约达那立于战车阵中,沙恭尼便鼓舞你所有的车兵。
9.23.9
दुर्योधनमिदं वाक्यं हृष्टरूपो विशाम्पते ।
कृतकार्यमिवात्मानं मन्यमानोऽब्रवीन्नृपम् ॥ ९.२३.९ ॥
人主啊,他面带喜色,自以为任务已成,便对国王杜尔约达那说了这些话。
9.23.10
जहि राजन्रथानीकमश्वाः सर्वे जिता मया ।
नात्यक्त्वा जीवितं सङ्ख्ये शक्यो जेतुं युधिष्ठिरः ॥ ९.२३.१० ॥
国王啊,击溃战车阵;我已击败所有骑兵。不舍性命于战场,便不能战胜坚战。
9.23.11
हते तस्मिन्रथानीके पाण्डवेनाभिपालिते ।
गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा ॥ ९.२३.११ ॥
待那由般度之子守护的战车阵被歼灭之后,我们便杀掉这些象群以及其余步兵。
9.23.12
श्रुत्वा तु वचनं तस्य तावका जयगृद्विनः ।
जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम् ॥ ९.२३.१२ ॥
闻其言,求胜的你的将士们欢欣鼓舞,迅速冲向般度诸子的军队。
9.23.13
बद्वनिस्त्रिंशहस्ताश्च प्रगृहीतशरासनाः ।
शरासनानि धून्वानाः सिंहनादान्प्रचक्रिरे ॥ ९.२३.१३ ॥
他们手持绑好的剑,举起弓,挥动着弓,发出狮子般的吼声。
9.23.14
ततो ज्यातलनिर्धोषः पुनरासीद्विशाम्पते ।
प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः ॥ ९.२३.१४ ॥
然后,人民之主啊,弓弦的嗡鸣再次响起,那些射得很好的箭发出了极为可怕的声音。
9.23.15
तान्समीपगतान्दृष्ट्वा जनानुद्यतकार्मुकान् ।
उवाच देवकीपुत्रं कुन्तीपुत्रो धनञ्जयः ॥ ९.२३.१५ ॥
看见那些人走近,弓已举起,贡蒂之子持财者(阿周那)对提婆吉之子说道。
9.23.16
चोदयाश्वानसम्भ्रान्तः प्रविशैतद्बलार्णवम् ।
अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः ॥ ९.२३.१६ ॥
不要慌乱,驱策马匹,进入这军队的海洋;今天我将以利箭抵达敌人的尽头。
9.23.17
अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन ।
वर्तमानस्य महतः समासाद्य परस्परम् ॥ ९.२३.१७ ॥
啊,阇那陀那,这场大战,两军相遇互相争斗,今天已经进行了十八天。
9.23.18
अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम् ।
क्षयमद्य गता युद्धे पश्य दैवं यथाविधम् ॥ ९.२३.१८ ॥
这些大德者的军队,形式无穷无尽,今天在战斗中走向了毁灭。看吧,命运是如此安排的。
9.23.19
समुद्रकल्पं च बलं धार्तराष्ट्रस्य माधव ।
अस्मनासाद्य सञ्जातं गोष्पदोपममच्युत ॥ ९.२३.१९ ॥
摩陀婆啊,持国之子的军队如大海般浩大,与我们相遇后却变得像牛蹄印一样小了,阿周那的不灭者啊。
9.23.20
हते भीष्मे धीर्ममासीच्छमः स्यादिति माधव ।
न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः ॥ ९.२३.२० ॥
摩陀婆啊,婆湿摩被杀之后,本应生起和平的念头;可是那极其愚蠢迷惑的持国之子却没有这样做。
9.23.21
उक्तं भीष्मेण यद्वाक्यं हितं तथ्यं च माधव ।
तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः ॥ ९.२३.२१ ॥
摩陀婆啊,婆湿摩所说的有益而真实的话,那失去理智的苏耶陀那也没有遵行。
9.23.22
तस्मिंस्तु निहते भीष्मे प्रच्युते पृथिवीपतौ ।
न जाने कारणं किन्तु येन युद्धमवर्तत ॥ ९.२३.२२ ॥
婆湿摩被杀、那位大地之主倒下之后,我不知道是出于什么缘故战争仍在继续。
9.23.23
मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुबालिशान् ।
पतिते शन्तनोः पुत्रे येऽकार्युः संयुगं पुनः ॥ ९.२३.२३ ॥
持国之子们在珊丹都之子倒下之后仍再次交战,我认为他们完全是愚昧而极其愚蠢的。
9.23.24
अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे ।
राधेये च विकर्णे च नैव शाम्यति वैशसम् ॥ ९.२३.२४ ॥
梵通者中最优秀的德罗纳被杀之后,以及罗陀之子迦尔纳与毗迦尔纳被杀之后,这场杀戮仍未平息。
9.23.25
अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते ।
सपुत्रे वै नरव्याघ्रे नैव शाम्यति वैशसम् ॥ ९.२३.२५ ॥
此军所剩无几,御者之子已倒下,人中虎(毗摩)与其子仍在,然而这场屠杀仍未止息。
9.23.26
श्रुतायुषि हते वीरे जलसन्धे च मागधे ।
श्रुतायुधे च नृपतौ नैव शाम्यति वैशसम् ॥ ९.२३.२६ ॥
英雄室如塔优斯已被杀,闍罗三陀与摩揭陀王亦被杀,国王室如塔优陀也被杀,然而这场屠杀仍未止息。
9.23.27
भूरिश्रवसि शल्ये च साल्ये चैव जनार्दन ।
आवन्त्येषु च वीरेषु नैव शाम्यति वैशसम् ॥ ९.२३.२७ ॥
遮那尔陀那啊,即便婆利室罗婆斯、沙利耶与娑婆王已被杀,阿般提的英雄也已被杀,这场屠杀仍未止息。
9.23.28
जयद्रथे च निहते राक्षसे चाप्यलायुधे ।
बाह्लिके सोमदत्ते च नैव शाम्यति वैशसम् ॥ ९.२३.२८ ॥
即便胜车已被杀,罗刹阿罗耶陀也被杀,巴赫利迦与苏摩达多亦被杀,这场屠杀仍未止息。
9.23.29
भगदत्ते हते शूरे काम्भोजे च सुदारुणे ।
दुःशासने च निहते नैव शाम्यति वैशसम् ॥ ९.२३.२९ ॥
即便英雄婆伽陀已被杀,极其可怖的甘菩阇王与难敌之弟兜沙罗那也已被杀,这场屠杀仍未止息。
9.23.30
दृष्ट्वा विनिहताञ्शूरान्पृथङ्माण्डलिकान्नृपान् ।
बलिनश्च रणे कृष्ण नैव शाम्यति वैशसम् ॥ ९.२३.३० ॥
克里希那啊,见到战场上被杀的勇士、各自的属国王与强者,这场屠杀仍未止息。
9.23.31
अक्षौहिणीपतीन्दृष्ट्वा भीमसेननिपातितान् ।
मोहाद्वा यदि वा लोभान्नैव शाम्यति वैशसम् ॥ ९.२३.३१ ॥
见到被毗摩先那击倒的十一军统帅,然而因迷惑或贪欲,这场杀戮仍不停止。
9.23.32
हतप्रवीरां विध्वस्तां दृष्ट्वा चेमां चमूं रणे ।
अलम्बले च निहते नैव शाम्यति वैशसम् ॥ ९.२३.३२ ॥
见到这支军队被摧毁,英雄在战场上阵亡,阿兰布沙也被杀死,然而杀戮仍不停止。
9.23.33
भ्रातॄन्विनिहतान्दृष्ट्वा वयस्यान्मातुलानपि ।
पुत्रान्विनिहतान्दृष्ट्वा नैव शाम्यति वैशसम् ॥ ९.२३.३३ ॥
见到兄弟、朋友乃至舅父被杀,见到儿子被杀,然而杀戮仍不停止。
9.23.34
को नु राजकुले जातः कौरवेषु विशेषतः ।
निरर्थकं महद्वैरं कुर्यादन्यः सुयोधनात् ॥ ९.२३.३४ ॥
生于王族之人,尤其是在俱卢族中,除了苏由陀那,还有谁会制造如此无谓的巨大仇怨呢?
9.23.35
गुणतोऽभ्यधिकाञ्ज्ञात्वा बलतः शौर्यतोपि वा ।
अमूढः को नु युध्येत जानन्प्राज्ञो हिताहितम् ॥ ९.२३.३५ ॥
知道他人在德行、力量或勇武上更为优越,哪位不迷惑、通晓利害的智者还会去作战呢?
9.23.36
किन्नु तस्य मनो ह्यासीत्त्वयोक्तस्य हितं वचः ।
प्रशमे पाण्डवैः सार्धं सोन्यस्य शृणुयात्कथम् ॥ ९.२३.३६ ॥
他的心为何没有接受你所说的有益之言?为了与般度之子和解,他又怎会听信他人的话呢?
9.23.37
येन शान्तनवो भीष्मो द्रोणो विदुर एव च ।
प्रत्याख्याताः शंमस्यार्थे किन्नु तस्याद्य भेषजम् ॥ ९.२३.३७ ॥
那位为了和平而拒绝了沙檀奴之子毗湿摩、德罗纳乃至维都罗的人,如今还有什么药可医?
9.23.38
मौर्ख्याद्येन पिता वृद्वः प्रत्याख्यातो जनार्दन ।
तथा माता हितं वाक्यं भाषमाणा हितैषिणी ॥ ९.२३.३८ ॥
哦,阇那陀那,因愚昧而拒绝年老父亲的人,以及拒绝那位怀着善意说出良言的母亲的人。
9.23.39
प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद्वचः ।
कुलान्तकरणो व्यक्तं जात एष जनार्दन ॥ ९.२३.३९ ॥
既然拒绝并轻慢了善意之人,他还会喜欢谁的话?哦,阇那陀那,显然此人是为毁灭家族而生的。
9.23.40
तथास्य दृश्यते चेष्टा नीतिश्चैव विशाम्पते ।
नैष दास्यति नो राज्यमिति मे मतिरच्युत ॥ ९.२३.४० ॥
君主啊,他的行为与政策都是如此。阿周那,依我看,他不会把王国交还我们。
9.23.41
उक्तोऽहं बहुशस्तात विदुरेण महात्मना ।
न जीवन्दास्यते भागं धार्तराष्ट्रः सुयोधनः ॥ ९.२३.४१ ॥
父亲啊,大心的维都罗多次对我说,只要活着,持国之子难敌就不会给予我们应得之份。
9.23.42
यावत्प्राणा धरिष्यन्ति धार्तराष्ट्रस्य दुर्मतेः ।
तावद्युष्मास्वपापेषु प्रचरिष्यति पापकम् ॥ ९.२३.४२ ॥
只要持国那心怀恶念之子尚有生命,他就会继续对你们这些无辜之人作恶。
9.23.43
न च युक्तोऽन्यथा जेतुमृते युद्धेन माधव ।
इत्यब्रवीत्सदा मां हि विदुरः सत्यदर्शनः ॥ ९.२३.४३ ॥
摩陀婆啊,除了通过战争,以其他方式取胜是不恰当的。见真理的维杜罗总是这样对我说。
9.23.44
तत्सर्वमद्य जानामि व्यवसायं दुरात्मनः ।
यदुक्तं वचनं तेन विदुरेण महात्मना ॥ ९.२३.४४ ॥
今天我完全知道那恶毒之人的决心,也知道伟大的维杜罗所说的话。
9.23.45
यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम् ।
अवामन्यत दुर्बुद्धिर्ध्रुवं नाशमुखे स्थितः ॥ ९.२३.४५ ॥
他虽听到了贾摩达尼之子真实而有益的话语,恶念之人却不加理会,他确实正站在毁灭的门口。
9.23.46
उक्तं हि बहुभिः सिद्धैर्जातमात्रे सुयोधने ।
एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति ॥ ९.२३.४६ ॥
在苏耶陀那刚出生时,许多成就的仙人就说过:刹帝利种姓将因这个恶念之人而灭亡。
9.23.47
तदिदं वचनं तेषां निरुक्तं वै जनार्दन ।
क्षयं याता हि राजानो दुर्योधनकृते भृशम् ॥ ९.२३.४७ ॥
克里希纳啊,他们所说的那番话确实是实话:诸王为了难敌而走向了巨大的毁灭。
9.23.48
सोऽद्य सर्वान्रणे योधान्निहनिष्यामि माधव ॥ ९.२३.४८ ॥
摩陀婆啊,今天我将在战场上杀死所有的战士。
9.23.49
क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते ।
वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति ॥ ९.२३.४९ ॥
当刹帝利迅速战死、营地空虚之时,他将因我们而渴望战斗,以致自取灭亡。
9.23.50
तदन्तं हि भवेद्वैरमनुमानेन माधव ।
एवं पश्यामि वार्ष्णेय चिन्तयन्प्रज्ञया स्वया।
विदुरस्य च वाक्येन चेष्टया च दुरात्मनः ॥ ९.२३.५० ॥
摩陀婆啊,由推断我看到这将是仇恨的终结。瓦尔什涅耶啊,以我自己的智慧思量,依据毗杜罗的话语和那恶人的行为,我如此看见。
9.23.51
तस्माद्याहि चमूं वीर यावद्वन्मि शितैः शरैः ।
दुर्योधनं महाबाहो वाहिनीं चास्य संयुगे ॥ ९.२३.५१ ॥
因此,英雄啊,驱车向着军队前进,使我以锐利的箭在战斗中击杀难敌及其军队,大臂者啊。
9.23.52
क्षेममद्य करिष्यामि धर्मराजस्य माधव ।
हत्वैतद्दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः ॥ ९.२३.५२ ॥
摩陀婆啊,今日我将为法王带来安宁,在持国之子眼前杀尽这支弱小的军队。
9.23.53
अभीशुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना ।
तद्बलौघममित्राणामभीतः प्राविशद्बलात् ॥ ९.२३.५३ ॥
持缰的达沙尔哈后裔(黑天)受到左右开弓者(阿周那)如此吩咐,无所畏惧,以力冲入敌军那如洪流般的军队之中。
9.23.54
शरासनवनं घोरं शक्तिकण्टकसङ्कुलम् ।
गदापरिघपाषाणं रथनागमहाद्रुमम् ॥ ९.२३.५४ ॥
弓箭之林,恐怖可怖,布满矛枪之刺,充满棍棒、铁杵与石块,以战车和象群为巨大的树木。
9.23.55
हयपत्तिलताकीर्णं गाहमानो महायशाः ।
व्यचरत्तत्र गोविन्दो रथेनातिपताकिना ॥ ९.२३.५५ ॥
大名鼎鼎的君陀进入布满骑兵与如藤蔓般旗帜的军阵,乘着高高旌旗的战车在那里驰骋。
9.23.56
ते हयाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे ।
दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः ॥ ९.२३.५६ ॥
大王啊,那些在战场上载着阿周那的白马,在达沙尔哈后裔的驱策下,出现在四面八方。
9.23.57
ततः प्रायाद्रथेनाजौ सव्यसाची परन्तपः ।
किरञ्शरशतांस्तीक्ष्णान्वारिधारा घनो यथा ॥ ९.२३.५७ ॥
于是灭敌者萨维耶萨钦(阿周那)在战斗中乘车前进,如乌云倾泻水流般撒下成百上千支锐利的箭。
9.23.58
प्रादुरासीन्महाञ्शब्दः शराणां नतपर्वणाम् ।
इषुभिश्छाद्यमानानां समरे सव्यसाचिना ॥ ९.२३.५८ ॥
当萨维耶萨钦的箭在战斗中遮蔽那些带弯节的箭时,发出巨大的声响。
9.23.59
असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन्भुवि ।
इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः ॥ ९.२३.५९ ॥
这些从甘提跋弓射出的箭流,不挂于甲胄,触击如因陀罗的雷杵,纷纷落到地上。
9.23.60
नरान्नागान्समाहत्य हयांश्चापि विशाम्पते ।
अपतन्त रणे बाणाः पतङ्गा इव घोषिणः ॥ ९.२३.६० ॥
人民之主啊,箭射中了人、象与马,在战斗中如嗡嗡作响的飞蛾般坠落。
9.23.61
आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः ।
न प्राज्ञायन्त समरे दिशो वा प्रदिशोपि वा ॥ ९.२३.६१ ॥
一切都被从甘狄拔弓射出的箭所遮蔽;在战场上,无法辨认方位,也无法辨认次方位。
9.23.62
सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः ।
रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः ॥ ९.२३.६२ ॥
整个世界都充满了刻有般度之子名字的箭,箭羽为金色,经油洗净,并由铁匠打磨。
9.23.63
ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः ।
पार्थं न प्राजहुर्घारा वध्यमानाः शितैः शरैः ॥ ९.२३.६३ ॥
那些象被般度之子如火焚烧,被锐利的箭射中,却不肯离开般度之子。
9.23.64
शरचापधरः पार्थः प्रज्वलन्निव भास्करः ।
ददाह समरे योधान्कक्षमग्निरिव ज्वलन् ॥ ९.२३.६४ ॥
手持弓箭的般度之子,光辉如燃烧的太阳,在战场上焚烧战士,如同烈火焚烧干草。
9.23.65
यथा वनान्ते वनपैर्विसृष्टः ।
कक्षं दहेत्कृष्णगतिः सुघोषः।
भूरिद्रुमं शुष्कलतावितानं ।
भृशं समृद्धो ज्वलनः प्रतापी ॥ ९.२३.६५ ॥
如同林边的猎人放出的猛火,其势幽暗迅疾,噼啪作响,焚烧着树木繁多、枯藤交织的丛林,
9.23.66
एवं स नाराचगणम्प्रतापी ।
शरार्चिरुच्चावचतिग्मतेजाः।
ददाह सर्वां तव पुत्रसेना… ।
ममृष्यमाणस्तरसा तरस्वी ॥ ९.२३.६६ ॥
如此,这位威武者以铁箭的洪流和种种锐利光辉的箭焰,焚烧了你儿子的整个军队……无法忍受,迅疾而有力的(般度之子)。
9.23.67
तस्येषवः प्राणहराः सुमुक्ता ।
नासज्जन्वै वर्मसु रुक्मपुङ्खाः।
न च द्वितीयं प्रमुमोच बाणं ।
नरे हये वा परमद्विपे वा ॥ ९.२३.६७ ॥
他那夺命的箭射得很准,带着金色的羽毛,却不会卡在铠甲上;他也没有射出第二支箭,无论是射向人、马,还是大象。
9.23.68
अनेकरूपाकृतिभिर्हि बाणै… ।
र्महारथानीकमनुप्रविश्य।
स एव एकस्तव पुत्रस्य सेनां ।
जघान दैत्यानिव वज्रपाणिः ॥ ९.२३.६८ ॥
他以形态各异的箭……冲入大车勇士的军阵,独自一人摧毁了你儿子的军队,正如手持金刚杵者击杀阿修罗。