摩诃婆罗多 · 章 9.26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.26.1
दुर्योधनो महाराज सुदर्शश्चापि ते सुतः ।
हतशेषौ तदा सङ्ख्ये वाजिमध्ये व्यवस्थितौ ॥ ९.२६.१ ॥
大王啊,难近与您的儿子苏达尔莎那,这两位在战斗中幸存者,那时站在马群之中。
9.26.2
ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम् ।
उवाच देवकीपुत्रः कुन्तीपुत्रं धनञ्जयम् ॥ ९.२६.२ ॥
那时,看见难近站在马群之中,提婆吉之子对贡蒂之子财取说道。
9.26.3
शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः ।
गृहीत्वा सञ्जयं चासौ निवृत्तः शिनिपुङ्गवः ॥ ९.२६.३ ॥
敌人大多被杀,亲族得到保护;希尼之雄牛擒住了桑遮耶后返回。
9.26.4
परिश्रान्तश्च नकुलः सहदेवश्च भारत ।
योधयित्वा रणे पापान्धार्तराष्ट्रान्सहानुगान् ॥ ९.२६.४ ॥
婆罗多之后啊,无种与偕天也已疲惫,在战场上与罪恶的持国之子及其随从作战之后。
9.26.5
दुर्योधनमतिक्रम्य त्रय एते व्यवस्थिन्ताः ।
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ॥ ९.२६.५ ॥
越过难近,这三人站立:悲悯、作甲,以及德罗纳之子,大车士。
9.26.6
असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः ।
दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः ॥ ९.२६.६ ॥
那位般遮罗王子,以无上的光荣而立,已与所有般罗婆陀迦一起杀尽难近的军队。
9.26.7
असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः ।
छत्रेण ध्रियामणेन प्रेक्षमाणो मुहुर्मुहुः ॥ ९.२६.७ ॥
阿周那啊,那边站着难敌,在骑兵之中,从高举在他头上的伞下一再地张望。
9.26.8
प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः ।
एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि ॥ ९.२६.८ ॥
布置好全部军队,站在战场中央;以利箭射杀他,你便能完成使命。
9.26.9
गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिन्दम ।
यावन्न विद्रवन्त्येते तावज्जहि सुयोधन्सम् ॥ ९.२६.९ ॥
降伏敌人者啊,见象军已被歼灭,你也已到来,趁这些人还未逃散,快杀死苏由达那。
9.26.10
यातु कश्चित्तुं पाञ्चाल्यं क्षिप्रमागम्यतामिति ।
परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी ॥ ९.२६.१० ॥
请派人去见般遮罗王子,说:‘快来。’亲爱的,这个军队疲惫的罪人不会逃脱。
9.26.11
हत्वा तव बलं सर्वं सङ्ग्रमे धृतराष्ट्रजः ।
जितान्पाण्डुसुतान्प्रत्वा रूपं धारयते महत् ॥ ९.२६.११ ॥
他在战中杀尽你的全军,像是已经战胜了般度之子,于是显出一副威武的模样。
9.26.12
निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः ।
ध्रुवमेष्यति सङ्ग्रमे वधायैवात्मनो नृपः ॥ ९.२६.१२ ॥
他看到自己的军队被杀,又被般度子孙所困扰,那位国王必定会来战场,走向自己的毁灭。
9.26.13
एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत् ।
धृतराष्ट्रसुताः सर्वे हता भीमेन माधव।
यावेतावास्थितौ कृष्ण तावद्य नभविष्यतः ॥ ९.२६.१३ ॥
Phalguna(阿周那)听后对克里希那说道:摩陀婆啊,持国之子已全部被毗摩杀死。克里希那啊,这仍站立的两人今日将不会存活。
9.26.14
हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः ।
मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः ॥ ९.२६.१४ ॥
毗湿摩已被杀,德罗纳已被杀,毗迦尔丹那之子迦尔纳已被杀。摩德罗王沙利耶已被杀;克里希那啊,闍耶德罗陀已被杀。
9.26.15
हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च ।
रथानां तु शते शिष्टे द्वे एव तु जनार्दन।
दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः ॥ ९.२६.१५ ॥
沙古尼与苏波罗之子的五百匹马尚存。遮那达那啊,战车仅余二百;象只剩一百多头;步兵三千。
9.26.16
अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा ।
उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः ॥ ९.२६.१६ ॥
阿湿婆多摩、克里帕、三乡之主,同样,优陆迦与沙古尼,以及萨特瓦塔的迦尔塔瓦尔曼,也都尚存。
9.26.17
एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव ।
मोक्षो न नूनं कालात्तु विद्यते भुवि कस्यचित् ॥ ९.२६.१७ ॥
摩陀婆啊,这便是持国之子军队的残余。的确,在大地上,没有任何人能逃脱时间。
9.26.18
तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम् ।
अद्याह्ना हि महाराजो हतामित्रो भविष्यति।
न हि मे मोक्ष्यते कश्चित्परेषामिह चिन्तये ॥ ९.२६.१८ ॥
如此军队被歼灭之后,请看站立的难敌。今日大王便会没有敌人。我想,这里的敌人无人能逃脱我的手。
9.26.19
ये त्वद्य समरं कृष्ण न हास्यन्ति मदोत्कटाः ।
तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः ॥ ९.२६.१९ ॥
克里希那啊,凡今日不离战场、骄狂的人,我都要杀死,即使他们是非人之类。
9.26.20
अद्य युद्धे समुत्पन्नं दीर्घं राज्ञः प्रजागरम् ।
अपनेष्यामि गान्धारिं घातयित्वा शितैः शरैः ॥ ९.२६.२० ॥
今日战场上,大王生出了长久的不眠之苦。我将以利箭使他们被杀,从而让甘陀利脱离此忧。
9.26.21
निकृत्या वै दुराचारो यानि रत्नानि सौबलः ।
सभायामहरद्द्यूते पुनस्तान्याहराम्यहम् ॥ ९.२६.२१ ॥
在赌局中,那恶行的苏跋罗之子(沙恭尼)在大殿上以欺诈夺走的那些宝物,我将再次把它们取回。
9.26.22
अद्य वेत्स्यन्ति मच्छक्तिं सर्वा नागपुरे स्त्रियः ।
श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि ॥ ९.२६.२२ ॥
今日,那伽补罗(象城)的所有妇人都将知道我的力量——当她们听闻自己的丈夫和儿子在战场上被般度之子杀死之时。
9.26.23
समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति ।
अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च मोक्ष्यति ॥ ९.२६.२३ ॥
克里希那啊,今日一切事务便将完成。今日难敌将舍弃他那光耀的荣华与性命。
9.26.24
नापयाति भयात्कृष्ण सङ्ग्रामाद्यदि चेन्मम ।
निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम् ॥ ९.२६.२४ ॥
克里希纳啊,若他没有因恐惧而逃离战场,你便知道那极其愚蠢的持国之子已被杀死,伐利什尼之子啊。
9.26.25
मम ह्येतदपर्याप्तं वाजिबृन्दमरिन्दम ।
सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम् ॥ ९.२६.२५ ॥
降伏敌人者啊,这群马不足以让我承受弓弦的轰鸣。前进吧,直到我杀戮为止。
9.26.26
एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना ।
अचोदयद्धायन्राजन्दुर्योधनबलं प्रति ॥ ९.२६.२६ ॥
光荣的般度之子如此说罢,达沙尔哈的后裔(克里希纳),大王啊,便驱马朝向难敌的军队。
9.26.27
तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः ।
भीमसेनोऽकर्जुनश्चैव सहदेवश्च मारिष।
प्रययुः सिंहनादेन दुर्योधनजिघांसया ॥ ९.२६.२७ ॥
三位已备战的大车战士——怖军、阿周那与偕天——望见那支军队,主公啊,发出狮吼,怀着杀死难敌的意愿前进。
9.26.28
तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान् ।
सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः ॥ ९.२६.२८ ॥
望见他们一同张弓疾驰而来,苏巴拉之子(沙恭尼)便在战中扑向那些作为侵犯者的般度诸子。
9.26.29
सुदर्शनस्त्व मतो भीमसेनं समभ्ययात् ।
सुशर्मा शकुनिश्चैव युयुधाते किरीटिना ॥ ९.२६.२९ ॥
于是,善见攻击怖军;苏沙尔曼与沙恭尼则与戴冠者(阿周那)交战。
9.26.30
सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात् ॥ ९.२६.३० ॥
你的儿子骑在马背上,向萨哈德瓦冲去。
9.26.31
ततो हि यत्नतः क्षिप्रं तवं पुत्रो जनाधिप ।
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ॥ ९.२६.३१ ॥
于是,人主啊,你的儿子迅速而用力地以长矛猛击萨哈德瓦的头部。
9.26.32
सोपाविशद्रथोपस्थे तव सुत्रेण ताडितः ।
रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् ॥ ९.२६.३२ ॥
他被你的儿子击中,坐在战车的座位上,全身浴血,像毒蛇一样嘶嘶作响。
9.26.33
प्रतिलभ्य ततः सञ्ज्ञां सहदेवो विशाम्पते ।
दुर्योधनं शरैस्तीक्ष्णैः सङ्क्रुद्धः समवाकिरत् ॥ ९.२६.३३ ॥
于是,民之主啊,萨哈德瓦恢复了知觉,怒不可遏,以锐利的箭矢向难敌倾泻如雨。
9.26.34
पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनञ्जयः ।
शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह ॥ ९.२६.३४ ॥
普利塔之子阿周那也在战场上勇猛前进,昆提之子财胜以刀斩下了勇士们的头颅,使其从马背上坠落。
9.26.35
तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः ।
पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ ॥ ९.२६.३५ ॥
于是,普利塔之子以众多箭矢驱散了那支军队;他射倒了三乡人的全部马匹,然后向他们的战车冲去。
9.26.36
ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः ।
अर्जुनं वासुदेवं च शरवर्षैरवाकिरन् ॥ ९.२६.३६ ॥
于是三伽多的大车战士们联合起来,用箭雨淹没了阿周那和婆苏提婆。
9.26.37
सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः ।
ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः ॥ ९.२६.३७ ॥
般杜的光荣之子向萨提耶迦尔摩发动攻击,以剃刀头箭斩断了他战车的辕杆。
9.26.38
शिलाशितेन च विभो क्षुरप्रेण महायशाः ।
शिरश्चिच्छेद सहसा तप्तकुण्डलभूषणम् ॥ ९.२६.३८ ॥
啊,大王!славный用在石上磨快的剃刀头箭,立即斩下了戴着闪亮金耳环的头颅。
9.26.39
सत्येषुमथ चादत्त योधानां मिषतां ततः ।
यथा सिंहो वने राजन्मृगं परि बुभुक्षितः ॥ ९.२६.३९ ॥
于是,在战士们注视之下,他取出一支真箭,如同饥饿的狮子在林中围绕鹿,大王啊。
9.26.40
तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः ।
विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूओषितान् ॥ ९.२६.४० ॥
杀死他之后,普利塔之子以三箭射穿苏沙尔曼,随后击毁了所有饰以黄金的战车。
9.26.41
ततः प्रायात्त्वरन्पार्थो दीर्घकालं सुसंवृतम् ।
मुञ्जन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति ॥ ९.२६.४१ ॥
于是普利塔之子疾速前进,喷吐尖锐的愤怒之毒,向长期受到严密护卫的普拉斯塔拉之主奔去。
9.26.42
तमर्जुनः पृषत्कानां शतेन भरतर्षभ ।
पूरयित्वा ततो वाहान्प्राहरत्तस्य धन्विनः ॥ ९.२६.४२ ॥
婆罗多的雄牛啊,阿周那以一百支箭将他覆盖,然后击打那位弓箭手的马匹。
9.26.43
ततः शरं समादाय यमदण्डोपमं तदा ।
सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव ॥ ९.२६.४३ ॥
于是,他取出一支如阎摩之杖的箭,瞄准苏舍尔曼,迅速射出,仿佛在笑。
9.26.44
स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना ।
सुशर्माणं समासाद्य बिभेद हृदयं रणे ॥ ९.२६.४४ ॥
那支由这位怒火燃烧的弓箭手射出的箭,到达苏舍尔曼,在战场上刺穿了他的心脏。
9.26.45
स गतासुर्महाराज पपात धरणीतले ।
नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान् ॥ ९.२६.४५ ॥
大王啊,他失去生命倒在地上,使所有般度之子欢喜,也使您的人们痛苦。
9.26.46
सुशर्माणं रणे हत्वा पुत्रानस्य महारथान् ।
सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम् ॥ ९.२६.४६ ॥
在战场上杀死苏舍尔曼后,他以箭将其七、八、三十名大车勇士之子送入毁灭。
9.26.47
ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान् ।
अभ्यगाद्भारतीं सेनां हतशेषां महारथः ॥ ९.२६.४७ ॥
于是,这位大车勇士以锐利的箭杀死了他所有的随从,然后向婆罗多军队的残余部队推进。
9.26.48
भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप ।
सुदर्शनमदृश्यन्तं शरैश्चक्रे हसन्निव ॥ ९.२६.४८ ॥
在战斗中愤怒的怖军,哦人主,用箭把你的儿子苏达尔莎那(隐身不见)几乎是笑着覆盖了。
9.26.49
ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत् ।
क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि ॥ ९.२६.४९ ॥
随后,他怒极而笑,用极其锋利的剃刀头箭将其头颅从身上斩下;他被杀死,倒在地上。
9.26.50
तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः ।
परिवव्रू रमे भीमं किरन्तो विविधाञ्शरान् ॥ ९.२६.५० ॥
那位英雄被杀后,他的随从包围了怖军,四处射出各种箭。
9.26.51
ततस्तु निशितैर्बाणैस्तवानीकं वृकोदरः ।
इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत् ॥ ९.२६.५१ ॥
于是狼腹怖军用锋利的箭——其触碰如同因陀罗的金刚杵——将你的军队向四面八方驱散。
9.26.52
ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ ॥ ९.२६.५२ ॥
然后,怖军在瞬间将他们击倒,哦婆罗多族的雄牛。
9.26.53
तेषु तूत्साद्यमानेषु सेनाध्यक्षा महारथाः ।
भीमसेनं समासाद्य ततोऽयुध्यन्त भारत ॥ ९.२६.५३ ॥
当那些部队被消灭时,军中统帅与大车战士们接近怖军,与他交战,哦婆罗多。
9.26.54
स तान्सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः ।
तथैव तावका राजन्पाण्डवेयान्महारथान्।
शरवर्षेण महता समन्तात्पर्यवारयन् ॥ ९.२६.५४ ॥
般度之子以可怕的箭将他们全部覆盖。大王啊,你的战士同样以大量箭雨从四面包围了般度子的大车战士。
9.26.55
व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह ।
तावकानां च समरे पाण्डवेंयैर्युयुत्सताम् ॥ ९.२६.५५ ॥
般度子的整个军队与敌人混作一团,陷入混乱;而你的士兵,那些想在战斗中与般度之子交战的人,也同样陷入混乱。
9.26.56
तत्र योधास्तदा पेतुः परस्परसमाहताः ।
उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान् ॥ ९.२६.५६ ॥
大王啊,那时双方军队的战士相互击伤,纷纷倒下,并为自己的亲族悲叹。