Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.27

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.27.1

तस्मिन्प्रवृत्ते सङ्ग्रामे गजवाजिनरश्रो ।
शकुनिः सौबलो राजन्सहदेवं …यात् ॥ ९.२७.१ ॥

战斗开始时,王啊,苏跋拉之子沙恭尼率领象、马、步兵与战车,向萨诃提婆… 进发。

9.27.2

ततोऽस्यापततस्तूर्णं सहदेवः पतापवान् ।
शरौघान्प्रेषयामास पतङ्गानिव शीघ्रगान्।
उलूकं च रणे राजन्विव्याध दशभिः शरैः ॥ ९.२७.२ ॥

于是,当进攻者逼近时,勇猛的萨诃提婆迅速射出如飞蛾般疾速的箭雨;王啊,他在战斗中以十支箭射穿了乌卢迦。

9.27.3

शकृनिश्च महाराज भीमं विद्ध्वा त्रिभिः शरैः ।
नवत्या निशितैर्बाणैः सहदेवमवाकिरत् ॥ ९.२७.३ ॥

大王啊,沙恭尼以三箭射伤怖军,又以九十支锐箭覆盖了萨诃提婆。

9.27.4

ते शूराः समरे राजन्समासाद्य परस्परम् ।
विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः।
स्वर्णपुङ्खैः शिलधौतैराकर्णप्रहितैः शरैः ॥ ९.२७.४ ॥

那些勇士,王啊,在战场上彼此相遇,以锐利的箭相互射击,箭羽为鹤与孔雀之羽,箭杆镶金,在石上磨砺,拉至耳边射出。

9.27.5

तेषां चापगुणोत्सृष्टा शरवृष्टिर्विशाम्पते ।
आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः ॥ ९.२७.५ ॥

人主啊,他们弓弦射出的箭雨遮蔽了所有方向,如同雨云以其暴雨遮盖大地。

9.27.6

ततः क्रुद्धो रणे भीमः सहदेवश्च भारत ।
चेरतुः कदनं सङ्ख्ये कुर्वन्तौ सुमहाबलौ ॥ ९.२७.६ ॥

于是,婆罗多啊,愤怒的怖军与萨诃提婆,二人皆极为强大,在战斗中四处奔走,造成大屠杀。

9.27.7

ताभ्यां शरशतैश्छनं तद्बलं तव भारत ।
सान्धकारमिवाकाशमभवत्तत्रतत्र ह ॥ ९.२७.७ ॥

二人以数百支箭遮蔽了你的那支军队,婆罗多啊;它处处如同昏暗的天空。

9.27.8

अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशाम्पते ।
तत्रतत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून् ॥ ९.२७.८ ॥

身披箭矢的战马四处奔驰,人主啊,处处开辟道路,拖拽着许多死者。

9.27.9

निहतानां हयानां च सहैव हयसादिभिः ।
वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष ॥ ९.२७.९ ॥

连同死去的马匹及其骑手,以及被割裂的甲胄和折断的长矛,先生啊。

9.27.10

ऋष्टिभिः शक्तिभिश्चैव सासिप्रासपरश्वथैः ।
सञ्छन्ना पृथिवी जज्ञे कुसुमैः शबला इव ॥ ९.२७.१० ॥

大地被长枪、投枪、剑、矛和斧所覆盖,仿佛被花朵点缀斑驳。

9.27.11

योधास्तत्र महाराज समासाद्य परस्परम् ।
व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम् ॥ ९.२७.११ ॥

大王啊,战士们在那里互相接近,怒气冲冲,在战场上来回走动,彼此击杀。

9.27.12

उद्वृत्तनयनै रोषात्सन्दष्टौष्ठपुटैर्मुखैः ।
सकुण्डलैर्मही च्छन्ना पद्मकिञ्चल्कसन्निभैः ॥ ९.२७.१२ ॥

怒目圆睁,咬紧嘴唇,戴着耳环的面孔如莲花蕊一般,大地被覆盖。

9.27.13

भुजैश्छिन्नैर्महाराज नागराजकरोपमैः ।
साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वथैः ॥ ९.२७.१३ ॥

大王啊,断臂如同蛇王的鼻子,带着臂钏与铠甲,以及刀剑、长矛和战斧。

9.27.14

कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि ।
क्रव्यादगणसञ्छन्ना घोराऽभूत्पृथिवी विभो ॥ ९.२७.१४ ॥

啊,威力无边的君王,大地变得可怖,被战场上站起、被斩断的无头躯体、跳舞的其他躯体以及成群的食肉生物所覆盖。

9.27.15

अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे ।
प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम् ॥ ९.२७.१५ ॥

大战中,俱卢军所剩无几,般度五子欢欣鼓舞,将俱卢人送往阎摩之处。

9.27.16

एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान् ।
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ॥ ९.२७.१६ ॥

就在此时,英勇而威猛的苏婆罗之子以长矛猛烈击中了偕天的头部。

9.27.17

स विह्वलो महाराज रथोपस्थ उपाविशत् ॥ ९.२७.१७ ॥

大王啊,他昏乱不堪,坐在战车的底板上。

9.27.18

सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान् ।
सर्वसैन्यानि सङ्क्रुद्धो वारयामास भारत ॥ ९.२७.१८ ॥

威猛的怖军见偕天如此,怒火中烧,阻住了所有的军队,婆罗多啊。

9.27.19

निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः ।
स निर्भिद्याकरोच्चैव सिंहनादमरिन्दमः ॥ ९.२७.१९ ॥

他以数百、数千支铁箭射穿敌阵;冲破之后,这位制服敌人的勇士发出狮子般的吼声。

9.27.20

तेन शभ्देन वित्रस्ताः सर्वे सहयवारणाः ।
प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः ॥ ९.२७.२० ॥

众人被那声音惊吓,连同马匹与象队,以及沙恭尼的步兵,骤然惊慌逃散。

9.27.21

प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत् ।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ ९.२७.२१ ॥

杜尤敷那王见他们溃败,便说道:“不知法的人们啊,回头作战吧!逃跑对你们有什么好处?”

9.27.22

इह कीर्ति समाधाय प्रेत्य लोकान्समश्नुते ।
प्राणाञ्जहाति यो धीरो युद्धे पृष्ठमदर्शयन् ॥ ९.२७.२२ ॥

在战斗中不示背而坚毅捐躯的人,在此获得名声,死后得到诸界。

9.27.23

एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः ।
पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥ ९.२७.२३ ॥

国王如此吩咐后,沙恭尼的步兵以死亡作为唯一的回归之路,冲向般度之子。

9.27.24

द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः ।
क्षुब्धसागरसङ्काशः क्षुभितैः सर्वतो दिशम् ॥ ९.२७.२४ ॥

王中之王啊,逃亡者们发出了极其可怕的声音,如同翻腾的大海,震动了四面八方。

9.27.25

तांस्ततः पुरतो दृष्ट्वा सौबलस्य पदानुगान् ।
प्रत्युद्ययुर्महाराज पाण्डवा विजयोद्यताः ॥ ९.२७.२५ ॥

大王啊,潘杜之子们见到苏婆罗之子(沙恭尼)的步兵随从出现在前方,渴望胜利,便迎上前去。

9.27.26

प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशाम्पते ।
शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः।
धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव ॥ ९.२७.२६ ॥

人主啊,难以抵挡的萨哈德瓦重新镇定后,以十箭射中沙恭尼,以三箭射中他的马,并仿佛含笑般用箭斩断了苏婆罗之子的弓。

9.27.27

अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः ।
विव्याध नकुलं षष्ट्या भीमसेनं च सप्ताभिः ॥ ९.२७.२७ ॥

于是沙恭尼在战斗中骄傲地拿起另一张弓,以六十箭射中那古拉,以七箭射中毗摩setena。

9.27.28

उलूकोऽपि महाराज भीमं विव्याध सप्तभिः ।
सहदेवं च सप्तत्या परीप्सन्पितरं रणे ॥ ९.२७.२८ ॥

大王啊,优陆迦也以七箭射中毗摩,并因想在战斗中保护父亲,以七十箭射中萨哈德瓦。

9.27.29

तं भीमसेनः समरे विव्याध नवभिः शरैः ।
शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः ॥ ९.२७.२९ ॥

战斗中,毗摩先以九箭射中他,以六十四箭射中沙恭尼,并以三箭分别射中站在两侧的人。

9.27.30

ते हन्यमाना भीमेन नाराचैस्तैलपायितैः ।
सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः।
पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः ॥ ९.२७.३० ॥

被毗摩以油淬磨的铁箭所伤,他们愤怒起来,在战场上以箭雨覆盖萨哈德瓦,如同雷电交加的云团以水流覆盖高山。

9.27.31

ततोऽस्यापततः शूरः सहदेवः प्रतापवान् ।
उलूकस्य महाराज भल्लेनापाहरच्छिरः ॥ ९.२७.३१ ॥

那时勇猛的萨哈德瓦,大王啊,用一支婆罗箭斩下了扑来的乌卢迦的头颅。

9.27.32

स जगाम रथाद्भूमिं सहदेवेन पातितः ।
रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि ॥ ९.२७.३२ ॥

他被萨哈德瓦击倒,从战车上跌落在地,全身浸满鲜血,在战场上使般度之子们欢喜。

9.27.33

पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत ।
साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन् ॥ ९.२७.३३ ॥

婆罗多啊,看到儿子在那里被杀,沙恭尼哽咽落泪;他深深叹息,想起了管家维杜罗的话。

9.27.34

चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन् ।
सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः ॥ ९.२७.३४ ॥

他沉思片刻,双眼含泪,喘息着走近萨哈德瓦,用三支箭射中了他。

9.27.35

तानपास्य शरान्मुक्ताञ्शरसङ्घैः प्रताम्पवान् ।
सहदेवो महाराज धनुश्चिच्छेद संयुगे ॥ ९.२७.३५ ॥

大王啊,勇猛的萨哈德瓦以箭雨挡开射来的那些箭,在战斗中斩断了他的弓。

9.27.36

छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा ।
प्रगृह्य विपुलं खङ्गं सहदेवाय प्राहिणोत् ॥ ९.२७.३६ ॥

大王啊,他的弓被斩断后,苏跋罗之子沙恭尼便举起一把大剑,朝萨哈德瓦掷去。

9.27.37

तमापतन्तं सहसा घोररूपं विशाम्पते ।
द्विधा चिच्छेद समरे सौबलस्य हसन्निव ॥ ९.२७.३७ ॥

人主啊,当那可怖形状的兵器突然向他扑来时,偕提婆在战斗中仿佛笑着,将苏跋拉(沙恭尼)的那件兵器一劈为二。

9.27.38

असिं दृष्ट्वा द्विधा च्छिन्नं प्रगृह्य महतीं गदाम् ।
प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि ॥ ९.२७.३८ ॥

他看到自己的剑被劈成两段,便拿起一柄大棍棒投向偕提婆;却徒劳无功,落在地上。

9.27.39

ततः शक्तिं महाघोरां कालरात्रीमिवोद्यताम् ।
प्रेषयामास सक्रुद्धः पाण्डवं प्रति सौबलः ॥ ९.२७.३९ ॥

于是苏跋拉怒气冲冲,向般度之子掷出一支极其可怖的长矛,它高举如死亡之夜。

9.27.40

तामापतन्तीं सहसा शरैः कनकभूषणैः ।
त्रिधा चिच्छेद समरे सहदेवो हसन्निव ॥ ९.२७.४० ॥

那长矛在战斗中突然袭来,偕提婆以饰有黄金的箭矢将其斩为三段,仿佛在笑。

9.27.41

सा पपात त्रिधा च्छिन्ना भूमौ कनकभूषणा ।
शीर्यमाणा यथा दीप्ता गगनाद्वै शतहदा ॥ ९.२७.४१ ॥

那被斩为三段、饰有黄金的长矛落在地上,如同燃烧的闪电从天空碎裂坠落。

9.27.42

शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम् ।
दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः ॥ ९.२७.४२ ॥

见长矛已毁、苏跋拉又为恐惧所苦,你的部下们一旦生起恐惧,便随苏跋拉一同逃走了。

9.27.43

अथोत्क्रुष्टं महच्चासीत्पाण्डवैर्जितकाशिभिः ।
धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाऽभवन् ॥ ९.२७.४३ ॥

此时,渴望胜利的般度之子发出巨大的欢呼,持国的诸子大多转身逃走。

9.27.44

तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान् ।
शरैरनेकसाहस्रैर्वारयामास संयुगे ॥ ९.२७.४४ ॥

见他们沮丧,威武的摩德丽之子在战斗中以成千上万的箭将他们拦住。

9.27.45

ततो गान्धारकैर्गुप्तं पुष्टैरश्वैर्जये धृतम् ।
आससाद रमे यान्तं सहदेवोऽथ सौबलम् ॥ ९.२७.४५ ॥

于是,偕提婆接近被犍陀罗人护卫、乘着健马逃走的苏巴拉之子(沙恭尼)。

9.27.46

स्वमंशमवशिष्टं तं संस्मृत्य शकुनिं नृप ।
रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात् ॥ ९.२७.४६ ॥

国王啊,想起自己尚未完成的复仇之份,偕提婆乘着金饰战车向沙恭尼进发。

9.27.47

अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः ।
स सौबलमभिद्रुत्य गार्ध्रपत्रैः शिलाशितैः ॥ ९.२७.४७ ॥

他用力拉满弓弦,拉开那张巨弓,以用石头磨利、带有秃鹫羽的箭袭击苏巴拉之子。

9.27.48

भृशमभ्यहन्त्कुद्धस्तोत्रैरिव महाद्विपम् ।
उवाच चैनं मेधावी विगृह्य स्मारयन्निव ॥ ९.२७.४८ ॥

他愤怒地猛击苏巴拉之子,犹如用钩子刺打大象;随后智慧的偕提婆逼近他,似在提醒般对他说道。

9.27.49

क्षत्रधर्मे स्थिरो भूत्वा युध्यस्व पुरुषो भव ।
यत्तदा भाषसे मूढ गृह्णन्नक्षान्सभातले।
फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते ॥ ९.२७.४९ ॥

坚守刹帝利的本分而战斗,成为真正的男子。愚人啊,今日你将承受当年在议会厅中握骰子时所说之言的果报,恶意之人啊。

9.27.50

निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा ।
दुर्योधनः कुलाङ्गारः शिष्टस्त्वं चास्य मातुलः ॥ ९.२७.५० ॥

昔日嘲笑我们的那些恶人,已全部被杀。家族之耻辱难敌也已被杀;他的舅舅你,是唯一的余存者。

9.27.51

अद्य ते निहनिष्यामि क्षुरेणोन्मथितं शिरः ।
वृक्षात्फलमिवाविद्वं लगुडेन प्रमाथिना ॥ ९.२७.५१ ॥

今日我将以利如剃刀之箭斩下你的头颅,如摘下树上的果实一般;并以猛烈的棍棒将其击碎。

9.27.52

एवमुक्त्वा महाराज सहदेवो महाबलः ।
सङ्क्रुद्धो रणशार्दूलो वेगेनाभिजगाम तम् ॥ ९.२७.५२ ॥

大王啊,说完这话,大力的萨诃提婆愤怒如战场之虎,疾速向他冲去。

9.27.53

अभिगम्य सुदुर्धर्षः सहदेवो युधां पतिः ।
विकृष्य बलवच्चापं क्रोधेन प्रज्वलन्निव ॥ ९.२७.५३ ॥

萨诃提婆极难抵挡,乃诸战士之主,走近前去,拉开强劲的弓,怒火中烧,仿佛燃烧起来一般。

9.27.54

शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः ।
छत्रं ध्वजं धनुश्चास्य च्छित्त्वा सिंह इवानदत् ॥ ९.२७.५४ ॥

他以十箭射中沙仇尼,又射中其四匹马,斩断其华盖、旗帜与弓,然后如狮子般吼叫。

9.27.55

छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः ।
कृतो विद्धश्च बहुभिः सर्वमर्मसु सायकैः ॥ ९.२७.५५ ॥

偕提婆斩断了苏跋罗之子沙恭尼的旗、弓和伞,并以众多箭矢射中他的所有要害。

9.27.56

ततो भूयो महाराज सहदेवः प्रतापवान् ।
शकुनेः प्रेषयान्मास शरवृष्टिं दुरासदाम् ॥ ९.२७.५६ ॥

此后,大王啊,英勇的偕提婆again向沙恭尼倾泻了难以抵挡的箭雨。

9.27.57

ततस्तु क्रुद्धः सुबलस्य पुत्रो ।
माद्रीसुतं सहदेवं विमर्दे।
प्रासेन जाम्बूनदभूषणेन ।
जिघांसुरेकोऽभिपपात शीघ्रम् ॥ ९.२७.५७ ॥

于是愤怒的苏跋罗之子,想在混战中杀死摩德利之子偕提婆,独自手持饰金的长矛迅速冲向他。

9.27.58

माद्रीसुतस्तस्य समुद्यतं तं ।
प्रासं सुवृत्तौ च भुजौ रणाग्रे।
भल्लैस्त्रिभिर्युगपत्सञ्चकर्त ।
ननाद चोच्चैस्तरसाऽऽजिमध्ये ॥ ९.२७.५८ ॥

摩德利之子以三支阔头箭,在战阵前沿一同斩断了他高举的长矛和两条匀称的手臂,并在混战中央高声吼叫。

9.27.59

तस्याशुकारी सुसमाहितेन ।
सुवर्णपुङ्खेन दृढायसेन।
भल्लेन सर्वावरणातिगेन ।
शिरः शरीरात्प्रममाथ भूयः ॥ ९.२७.५९ ॥

他以一支迅疾精准、饰金羽、由坚铁制成、能穿透一切护甲的阔头箭,再次将他的头颅从身体上斩落。

9.27.60

शरेण कार्तस्वरभूषितेन ।
दिवाकराभेण सुसंहितेन।
हृतोत्तमाङ्गो युधि पाण्डवेन ।
पपात भूमौ सुबलस्य पुत्रः ॥ ९.२७.६० ॥

被般度之子在战斗中斩下头颅的苏跋罗之子,被一支如太阳般明亮、饰金、制作精良的箭射中,倒在地上。

9.27.61

स तच्छिरो वेगवता शरेण ।
सुवर्णपुङ्खेन शिलाशितेन।
प्रावेरयत्कुपितः पाण्डुपुत्रो ।
यत्तत्कुरूणामनयस्य मूलम् ॥ ९.२७.६१ ॥

愤怒的般度之子以迅疾的金羽箭,经磨石打磨的利箭,将那颗头颅射飞——那是俱卢族不义的根源。

9.27.62

भुजौ सुवृत्तौ प्रचकर्त वीरः ।
पश्चात्कबन्धं रुधिरावसिक्तम्।
विस्पन्दमानं निपपात घोरं ।
रथोत्तमात्पार्थिव पार्थिवस्य ॥ ९.२७.६२ ॥

英雄随即斩断了他匀称的双臂;那浸满鲜血、颤抖的躯干,啊国王,从最好的战车上惨烈地坠落。

9.27.63

हृतोत्तमाङ्गं शकुनिं समीक्ष्य ।
भूमौ शयानं रुधिरार्द्रगात्रम्।
योधास्त्वदीया भयनष्टसत्वा ।
दिशः प्रजग्मुः प्रगृहीतशस्त्राः ॥ ९.२७.६३ ॥

看见沙恭尼倒卧在地,头颅被斩,身体浸满鲜血,你的战士们因恐惧而失去勇气,手持兵器向四方逃散。

9.27.64

प्रविद्रुताः शुष्कमुखा विसञ्ज्ञा ।
गाण्डीवघोषेण समाहताश्च।
भयार्दिता भग्नरथाश्वनागाः ।
पदातयश्चैव सधार्तराष्ट्राः ॥ ९.२७.६४ ॥

被甘狄拔弓弦的嗡鸣所震慑,为恐惧所折磨,面色干枯、神志恍惚,他们逃散了;战车、马匹和象群都被摧毁,步兵也与持国之子们一同逃走。

9.27.65

ततो रथाच्छकुनिं पातयित्वा ।
मुदान्विता भारत पाण्डवेयाः
शङ्कान्प्रदध्युः समरेऽतिहृष्टाः ।
सकेशवाः सैनिकान्हर्षयन्तः ॥ ९.२७.६५ ॥

随后,将沙恭尼从战车上击落,啊婆罗多,欢欣的般度之子在战场上大喜,吹响海螺,与克沙ва一同使士兵欢喜。

9.27.66

तं चापि सर्वे प्रतिपूजयन्तो ।
दृष्ट्वा ब्रुवाणाः सहदेवमाजौ।
दिष्ट्या हतो नैकृतिको महात्मा ।
सहात्मजो वीर रणे त्वयेति ॥ ९.२७.६६ ॥

众人也向他致敬,在战场上见到偕天,说道:“英雄啊,幸运的是,那个狡诈的高尚者已被你与他的儿子一同杀死于战场。”