摩诃婆罗多 · 章 9.28
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.28.1
ततः क्रुद्धा महाराज सौबलस्य पदानुगाः ।
त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन् ॥ ९.२८.१ ॥
大王,于是,沙恭尼的愤怒随从们舍弃性命,在喊杀声中包围了般度五子。
9.28.2
तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः ।
भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः ॥ ९.२८.२ ॥
为保护偕天而驻守的阿周那迎击了他们;光辉的怖军也以愤怒毒蛇般的面容如此行事。
9.28.3
शक्त्यृ-ष्टिप्रासहस्तानां सहदेवं जिघांसताम् ।
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ॥ ९.२८.३ ॥
财富征服者以甘狄拔弓使那些手持投枪、长矛与标枪、意欲杀害偕天者的决心化为乌有。
9.28.4
सङ्गृहीतायुधान्बाहून्योधानामभिधावताम् ।
भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि ॥ ९.२८.४ ॥
憎恶者(阿周那)以新月箭斩断了冲上前来的战士持械的手臂,连同他们的头颅,甚至马匹。
9.28.5
ते हयाः प्रत्यपद्यन्त वसुधां विगतासवः ।
चरता लोकवीरेण प्रहताः सव्यसाचिना ॥ ९.२८.५ ॥
那些马匹失去生命倒在地上,被往来奔驰的世界英雄、左手神射手(阿周那)击毙。
9.28.6
ततो दुर्योधनो राजा दृष्ट्वा स्वबलसङ्क्षयम् ।
हतशेषान्समानीय क्रुद्धो रथगणान्बहून् ॥ ९.२८.६ ॥
于是,国王难敌见自己的军队惨遭毁灭,便聚集残存者,愤怒地召来许多车队。
9.28.7
कुञ्जरांश्च हयांश्चैव पादातांश्च समन्ततः ।
उवाच दुःखितान्सर्वान्धार्तराष्ट्र इदं वचः ॥ ९.२८.७ ॥
看到四面八方的象、马和步兵,持国之子对所有悲伤的人说了这番话。
9.28.8
समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान् ।
पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं न्यवर्तत ॥ ९.२८.८ ॥
在战场上遇到所有般遮武士、他们的友人眷属,以及般遮罗连同其军队,将其杀尽之后,他迅速返回。
9.28.9
तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः ।
अभ्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात् ॥ ९.२८.९ ॥
他们恭敬地领受其命令,因战斗的狂热而昏头,遵从你儿子的命令,向般遮武士们冲去。
9.28.10
तानभ्यापततः शीघ्रं हतशेषान्महारणे ।
शरैराशीविषाकारैः पाण्डवाः समवाकिरन् ॥ ९.२८.१० ॥
看到大战中侥幸存活的人迅速冲来,般遮武士们便以如毒蛇般的箭矢将他们射得密密麻麻。
9.28.11
तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः ।
अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत ॥ ९.२८.११ ॥
婆罗多之最啊!那支军队被那些伟大的人在一瞬间杀尽;进入战场后,它找不到任何保护者。
9.28.12
पलायमानं तु भयान्नावतिष्ठति दंशितम् ।
अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते ॥ ९.२८.१२ ॥
因恐惧而逃奔的人不肯停留,披甲的战士也不肯站住。马匹四处奔驰,整个战场都被大军扬起的尘土遮蔽。
9.28.13
न प्राज्ञायन्त समरे दिशः सप्रदिशस्तथा ।
ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः ॥ ९.२८.१३ ॥
战场上连方向与次方向也无法辨认。于是,从般度之子的军队中冲出的众多人
9.28.14
अभ्यघ्नंस्तावकान्युद्धे मुहूर्तादिव भारत ।
ततो निःशेषमभवत्तत्सन्यं तव भारत ॥ ९.२८.१४ ॥
战斗中,他们几乎在瞬间就打倒了你的部众。婆罗多的后裔啊,那时你的军队被彻底消灭了。
9.28.15
अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत ।
एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः ॥ ९.२८.१५ ॥
婆罗多的后裔啊,你儿子聚集的十一个阿刹呼希尼军在战斗中被杀。主啊,他们被般度之子与斯林遮耶人所杀。
9.28.16
तेषु राजसहस्रेषु तावकेषु महात्मसु ।
एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः ॥ ९.२८.१६ ॥
在你那些成千上万的伟大国王中,大王啊,只有难敌一人显得伤重。
9.28.17
ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम् ।
विहीनः सर्वयोधैश्च पाण्डवान्वीक्ष्यं संयुगे ॥ ९.२८.१७ ॥
于是他环顾四方,见大地空旷,失去了所有战士,便在战场上望向般度之子。
9.28.18
मुदितान्सर्वतः सिद्धान्नर्दमानान्समन्ततः ।
बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम् ॥ ९.२८.१८ ॥
听到那些伟大的人们四面欢呼、取得胜利、高声吼叫,以及他们周围箭矢的呼啸与喊声。
9.28.19
दुर्योधनो महाराज कश्मलेनाभिसंवृतः ।
अपयो मनश्चक्रे विहीनबलवाहनः ॥ ९.२८.१९ ॥
大王啊,难敌被忧惧与迷惑所笼罩,失去了军队与车乘,于是打定主意要逃走。