Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 9.29

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

9.29.1

निहते मामके सैन्ये निःशेषे शिबिरे कृते ।
पाण्डवानां बले सूत किन्नु शेषमभूत्तदा ॥ ९.२९.१ ॥

御者よ、わが軍が殺され陣営が完全に壊滅したとき、パーンダヴァの軍勢には何が残っていたのか。

9.29.2

एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि सञ्जय ।
यच्च दुर्योधनो मानी कृतवांस्तनयो मम।
वलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः ॥ ९.२९.२ ॥

サンジャヤよ、お前は有能だ。私の誇り高い息子ドゥルヨーダナは敗北を見て、あの孤独な大地の主が何をしたのか、私に話せ。

9.29.3

रथानां द्वे सहस्रे तु सप्त नागशतानि च ।
पञ्च चाश्वसहस्राणि पत्तीनामयुतानि च ॥ ९.२९.३ ॥

二千両の戦車、七百頭の象、五千頭の馬、そして数万の歩兵が残っていた。

9.29.4

एतच्छेषमभूद्राजन्पाण्डवानां मह्रद्बलम् ।
परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः ॥ ९.२९.४ ॥

王よ、パーンダヴァの この大軍が残っており、それを率いてドリシュタデュムナが戦場に立っていた。

9.29.5

एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः ।
नापश्यत्समरे कञ्चित्सहायं रथिनां वरः ॥ ९.२९.५ ॥

バラタの最良者よ、そのときドゥルヨーダナ王はただ一人残された。戦車の勇者の中の第一人者は、戦場でひとりの助けも見出せなかった。

9.29.6

नर्दमानान्परान्दृष्ट्वा स्वबलस्य च सङ्क्षयम् ।
दृष्ट्वा भरतशार्दूलः कश्मलेनाभिसंवृतः।
हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रावद्भयात् ॥ ९.२९.६ ॥

敵が咆哮し、自軍が壊滅するのを見て、バラタの虎は混乱に包まれ、殺された馬を捨て、恐怖にかられて東に向かって逃げた。

9.29.7

एकादशचमूभर्ता पुत्रो दुर्योधनस्तव ।
गदामादाय तेजस्वी पदातिः प्रस्थितो ह्रदम् ॥ ९.२९.७ ॥

十一アクシャウヒニーの主であるあなたの息子ドゥルヨーダナは、棍棒を取り、輝きを放ちながら、徒歩で湖へ向かって出発した。

9.29.8

नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः ।
सस्मार वचनं क्षत्रुर्धर्मशीलस्य धीमतः ॥ ९.२९.८ ॥

それほど遠くへは行かず、徒歩で、王は正義を重んじ賢明なヴィドゥラの言葉を思い出した。

9.29.9

इदं नूनं महाप्राज्ञो विदुरो दृष्ट्वान्पुरा ।
मह्रद्व्सनमस्माकं क्षत्रियाणां च सर्वशः ॥ ९.२९.९ ॥

きっと大智のヴィドゥラは昔からこれを見通していたのだ——我らとすべてのクシャトリヤの大いなる破滅を。

9.29.10

एवं विचिन्तयानस्तु प्रविविक्षुर्ह्रदं नृपः ।
दुःखसन्तप्तहृदयो दृष्ट्वा राजन्बलक्षयम् ॥ ९.२९.१० ॥

このように考え、悲しみに心を焼かれた王は、大王よ、軍勢の滅亡を見て、湖に入ろうとした。

9.29.11

दशैकाक्षौहिणीभर्ता तदा दुर्योधनोऽपि सन् ।
प्राप्तवान्व्यसनं तीव्रं दैवं हि बलवत्तरम् ॥ ९.२९.११ ॥

十一アクシャウヒニーの主であったにもかかわらず、ドゥルヨーダナはそのとき激しい災厄に遭った。まことに運命は遥かに強大である。

9.29.12

पाण्डवास्तु महाराज धृष्टद्युम्नपुरोगमाः ।
अभ्यद्रवन्त सङ्क्रुद्धास्तव राजन्बलं प्रति ॥ ९.२९.१२ ॥

しかし大王よ、ドゥリシュタドュムナを先頭とするパーンダヴァたちは怒りに燃え、王よ、あなたの軍勢へと突進した。

9.29.13

शक्त्यृष्टिप्रासहस्तानां बलानामभिगर्जताम् ।
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ॥ ९.२९.१३ ॥

富の征服者アルジュナは、槍・投槍・鉾を手に咆哮する軍勢の意図を、ガーンディーヴァ弓で空しくした。

9.29.14

तान्हत्वा निशितैर्वाणैः सामात्यान्सह बन्धुभिः ।
रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत ॥ ९.२९.१४ ॥

鋭い矢で大臣や親族もろとも彼らを倒し、白馬の戦車の上に立つアルジュナは大いに輝いた。

9.29.15

सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे ।
महावनमिव च्छिन्नमभवत्तावकं बलम् ॥ ९.२९.१५ ॥

スバラの息子が殺されると、あなたの軍は馬・戦車・象もろとも、伐採された大森林のようになった。

9.29.16

अनेकशतसाहस्रे बले दुर्योधनस्य ह ।
नान्यो महारथो राजञ्जीवमानो व्यदृश्यत ॥ ९.२९.१६ ॥

王よ、ドゥルヨーダナの数十万の軍勢の中で、生きている他の大戦士は見えなかった。

9.29.17

द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः ।
कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात् ॥ ९.२९.१७ ॥

王よ、ドローナの子のあの英雄、同様にクリタヴァルマン、ゴータマ族のクリパ、そしてあなたの子である王を除いて。

9.29.18

धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत् ।
किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता ॥ ९.२९.१८ ॥

ところがドリシュタデュムナは私を見て笑い、サーティヤキに言った。「こいつを捕らえて何になる?生きたままでは我々の役に立たない。」

9.29.19

धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः ।
उद्यम्य निशितं खङ्गं हन्तुं मामुद्यतस्तदा ॥ ९.२९.१९ ॥

ドリシュタドュムナの言葉を聞き、シニの孫の大戦士は鋭い剣を振り上げ、その時私を討とうと身構えた。

9.29.20

तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ।
मुच्यतां सञ्जयो जीवन्न हन्तव्यः कथञ्चन ॥ ९.२९.२० ॥

彼のもとに近づき、大智のクリシュナ・ドヴァイパーヤナは言った。「サンジャヤを放せ。生きているサンジャヤは、どうあっても殺してはならない。」

9.29.21

द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः ।
ततो मामब्रवीन्मुक्त्वा स्वस्ति सञ्जय साधय ॥ ९.२९.२१ ॥

ドヴァイパーヤナの言葉を聞き、シニの孫は合掌して私を解き放ち、こう言った。「サンジャヤよ、無事であれ。行って自分の務めを果たせ。」

9.29.22

अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः ।
प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः ॥ ९.२९.२२ ॥

彼の許しを得て私は鎧を脱ぎ、武器も持たずにその都へ向かい、夕方血にまみれて着いた。

9.29.23

क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम् ।
एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम् ॥ ९.२९.२३ ॥

王よ、一クローシャほど離れたところに、棍棒を手にして立つ、ひどく傷ついたドゥルヨーダナただ一人を私は見た。

9.29.24

स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम् ।
उपप्रैक्षत मां दृष्ट्वा तथा दीनमवस्थितम् ॥ ९.२९.२४ ॥

涙で満ちた目では、彼は私をまともに見ることもできなかった。打ちひしがれて立つ私を見て、彼は私の方に目を向けた。

9.29.25

तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे ।
मुहूर्तं नाशकं वक्तुमतिदुःखपरिप्लुतः ॥ ९.२९.२५ ॥

戦場で一人嘆く彼を見て、大きな悲しみに浸された私も、しばし言葉を発することができなかった。

9.29.26

यस्य मूर्धाभिषिक्तानां सहस्रमणिमौलिनाम् ।
आहृत्य च करं सर्वं स्वस्य वेश्म समागतम् ॥ ९.२९.२६ ॥

彼のために、千の宝玉の冠を戴く灌頂された王たちは貢ぎ物を持ち来たり、すべてを自分の館に集めた。

9.29.27

चतुःसागरपर्यन्ता पृथिवी रत्नभूषिता ।
कर्णेनैकेन यस्यार्थे करमाहारिता पुरा ॥ ९.२९.२७ ॥

四つの海に囲まれ、宝玉で飾られた大地。その貢ぎ物は、かつてカルナただ一人が彼のために持ち来たった。

9.29.28

यस्याज्ञा परराष्ट्रेषु कर्णेनैव प्रसारिता ।
नाभवद्यस्य शस्त्रेषु खेदो राज्ञः प्रशासतः ॥ ९.२९.२८ ॥

彼の命令は、カルナ一人によって他国にまで広められた。統治した王は、武器において疲れを感じることがなかった。

9.29.29

आसीनो हास्तिनपुरे क्षेमं राज्यमकण्टकम् ।
अन्वपालयदैश्वर्यात्कुबेरमपि नास्मरत् ॥ ९.२९.२९ ॥

ハスティナプラに坐して、安全で棘のない王国を治めた。その権勢ゆえに、彼はクベーラすら思い出さなかった。

9.29.30

भवनाद्भवनं राजन्प्रयातुं पृथिवीपते ।
देवालयप्रदेशे च पन्था यस्य हिरण्मयः ॥ ९.२९.३० ॥

おお王よ、大地の主よ。一つの館から別の館へ行く道、また神殿の区域の道は、黄金であった。

9.29.31

पताकावृतसूर्यांशुतोरणोच्छ्रितशोभिताः ।
प्रयाणे पृथिवीभर्तुर्धन्यानामभवन्गृहाः ॥ ९.२९.३१ ॥

王の出立の際、旗に覆われ、陽光に輝き、高い門楼で飾られた幸運な人々の家々があった。

9.29.32

आरुह्यैरावतप्रख्यं नागमिन्द्रसमो बली ।
विभूत्या सुमहत्या यः प्रयाति पृथिवीपते ॥ ९.२९.३२ ॥

インドラに等しい力を持つ彼は、アイラーヴァタに似た象に乗り、大いなる威光のうちに出立するのであった、大地の主よ。

9.29.33

तं भृशक्षतसर्वाङ्गं पद्ध्यामेव धरातले ।
तिष्ठन्तमेकं दृष्ट्वा तु ममाभूत्क्लेश उत्तमः ॥ ९.२९.३३ ॥

全身に深い傷を負い、徒歩で地上にただ一人立つ彼を見て、私は非常に深い苦悩に襲われた。

9.29.34

तस्य चैवंविधस्याद्य जगन्नाथस्य भूपते ।
आपदप्रतिमैवाभूद्बलीयान्विधिरेव हि ॥ ९.२९.३४ ॥

大地の主よ、今日このような状態に陥った世界の主にとって、これは比類なき災厄であった。まことに運命こそが最も強いのである。

9.29.35

ततोऽस्मै तदहं सर्वमुक्तवान्ग्रहणं तदा ।
द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे ॥ ९.२९.३५ ॥

そこで私は彼にそのすべてを語った。その時の捕縛のこと、そしてドヴァイパーヤナの恩寵により戦場で生きたまま解放されたことを。

9.29.36

स मुहूर्तमिव ध्यात्वा प्रतिलभ्य च चेतनाम् ।
भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः ॥ ९.२९.३६ ॥

彼はしばし思いに沈んだかのようであった。そして意識を取り戻すと、私に兄弟たちと全軍のことを尋ねた。

9.29.37

तस्मै तदहमाचक्षे सर्वं प्रत्यक्षदर्शिवान् ।
भ्रातॄश्च निहतान्सर्वान्सैन्यं च विनिपातितम् ॥ ९.२९.३७ ॥

私が自分の目で見たことすべて、殺された兄弟たちと打ち倒された軍勢を、彼に語った。

9.29.38

त्रयः किल रथाः शिष्टास्तावकानां नराधिप ।
इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत् ॥ ९.२९.३८ ॥

人の王よ、あなたの側には三台の戦車しか残っていない——出発のときクリシュナ・ドヴァイパーヤナ(ヴィヤーサ)が私にそう言った。

9.29.39

स दीर्घमिव निःश्वस्य प्रत्यवेक्ष्य पुनः पुनः ।
असौ मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत ॥ ९.२९.३९ ॥

彼は長いため息をつき、何度も私を見つめ、手で私に触れてから、あなたの息子は言った。

9.29.40

त्वदन्यो नेह सङ्ग्रामे कश्चिज्जीवति सञ्जय ।
द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः ॥ ९.२९.४० ॥

サンジャヤよ、お前以外に、この戦いで生き残っている者はここにはいない。味方とともにいるパーンダヴァの者も、ほかに見当たらない。

9.29.41

ब्रूयाः सञ्जय राजानं प्रज्ञाचक्षुषमीश्वरम् ।
दुर्योधनस्तव सुतः प्रविष्टो ह्रदमित्युत ॥ ९.२९.४१ ॥

サンジャヤよ、智慧の眼を持つあの王、主君に告げよ。「あなたの息子ドゥルヨーダナは湖に入ってしまった」と。

9.29.42

सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च ।
पाण्डवैश्च हृते राज्ये को नु जीवेत मादृशः ॥ ९.२९.४२ ॥

このような友人、息子、兄弟を失い、パーンダヴァに王国を奪われた今、私のような者の誰が生きたいと思うだろうか。

9.29.43

आचक्षीथाः सर्वमिदं मां च मुक्तं महाहवात् ।
आस्मिंस्तोयह्रदे गुप्तं जीवन्तं भृशविक्षतम् ॥ ९.२९.४३ ॥

お前はこのすべてを伝えよ、私が大戦から逃れ、この池の水に隠れていて、生きてはいるが深く傷ついていることを。

9.29.44

एवमुक्त्वा महाराज प्राविशत्तं महाह्रदम् ।
अस्तम्भयत तोयं च मायया मनुजाधिपः ॥ ९.२९.४४ ॥

大王よ、そう言うと人界の主はその大きな池に入り、幻力によって水を凍らせた。

9.29.45

तस्मिन्ह्रदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान् ।
अपश्यं सहितानेकस्तं देशं समुपेयुषः ॥ ९.२९.४५ ॥

彼がその池に入った後、私は疲れた馬を伴う三台の戦車を見た。それらはみな一つの場所に集まっていた。

9.29.46

कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् ।
भोजं च कृतवर्माणं सहिताञ्शरविक्षतान् ॥ ९.२९.४६ ॥

シャーradvatの子の英雄クリパ、ドローナの子、戦車の戦士の中で最も優れた者、そしてボージャのクリタヴァルマン――彼らは皆、矢傷を負って共にいた。

9.29.47

ते सर्वं मामभिप्रेक्ष्य तूर्णमश्वाननोदयन् ।
उपयाय तु मामूचुर्दिष्ट्या जीवसि सञ्जय ॥ ९.२९.४७ ॥

私を見ると、彼らは急いで馬を進め、私のもとに来て言った。「サンジャヤよ、幸いにもお前は生きている!」

9.29.48

अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम् ।
कच्चिद्दुर्योधनो राजा स नो जीवति सञ्जय ॥ ९.२९.४८ ॥

皆が私に、あなたの息子、人々の主について尋ねた。「サンジャヤよ、王ドゥルヨーダナはまだ我々の中に生きているのか?」

9.29.49

आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम् ।
तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत् ॥ ९.२९.४९ ॥

その時私は彼らに王の無事を伝え、ドゥルヨーダナが私に語ったことをすべて語った。

9.29.50

ह्रदं चैवाहमाचक्षं यं प्रविष्टो नराधिपः ।
अश्वत्थामा तु तद्राजन्निशम्य वचनं मम ॥ ९.२९.५० ॥

また、王が入った湖も私は示した。王よ、アシュヴァッタマンは私の言葉を聞いて、

9.29.51

तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत् ।
अहो धिक्स न जानाति जीवतोऽस्मान्नराधिप।
पर्याप्ता हि वयं तेन सह योधयितुं परान् ॥ ९.२९.५१ ॥

その広大な湖を見て、彼は哀れに嘆いた。「ああ、恥だ!あの王は生きている我々を知らない。王と共にあれば、敵と戦うには十分だったのだ。」

9.29.52

ते तु तत्र चिरं कालं विलप्य च महारथाः ।
प्राद्रवन्रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान्रणे ॥ ९.२९.५२ ॥

その大戦車の戦士たちはそこで長いこと嘆き、戦場でパーンドゥの息子たちを見ると、戦車の勇士の中の最良の者たちは逃げ去った。

9.29.53

ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम् ।
सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः ॥ ९.२९.५३ ॥

生き残った三台の戦車は、私をクリパの美しく飾られた戦車に乗せて、軍の陣営へ向かった。

9.29.54

तत्र गुल्माः परिक्षिप्ताः सूर्ये चास्तमिते सति ।
सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम् ॥ ९.२९.५४ ॥

そこには周囲に歩哨が配置されていた。太陽が沈むと、皆はあなたの息子たちの滅亡を聞いて嘆き叫んだ。

9.29.55

ततो वृद्धा महाराज योषितां रक्षिणो नराः ।
राजदारानुपादाय पययुर्नगरं प्रति ॥ ९.२९.५५ ॥

そこで大王よ、女性たちの年老いた守護者たちは王妃たちを連れて、町へ向かって出発した。

9.29.56

तत्र विक्रोशमानानां रुदतीनां च सर्वशः ।
प्रादुरासीन्महाञ्शब्दः श्रुत्वा तद्बलसङ्क्षयम् ॥ ९.२९.५६ ॥

そこでは四方から、泣き叫ぶ女たちの大きな声が起こった。あの軍勢の滅亡を聞いたからである。

9.29.57

ततस्ता योषितो राजन्रुदन्त्यो वै मुहुर्मुहुः ।
कुरर्य इव शब्देन नादयन्त्यो महीतलम् ॥ ९.२९.५७ ॥

そこで大王よ、女たちは幾度も泣き、雌のミサゴのように叫び声で大地を満たした。

9.29.58

आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत ।
लुलुचुश्च तदा केशान्क्रोशन्त्यस्तत्रतत्र ह ॥ ९.२९.५८ ॥

彼女たちは爪と手で自分の頭を打ち、あちこちで叫びながら髪をむしった。

9.29.59

हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च ।
शोचन्त्यस्तत्र रुरुदुः क्रन्दमाना विशाम्पते ॥ ९.२९.५९ ॥

「ああ、ああ」と叫び、胸を打ち、嘆きながら、彼女たちはそこで泣いた。民の主よ、大声で泣き叫んで。

9.29.60

ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः ।
राजदारानुपामन्त्र्य प्रययुर्नगरं प्रति ॥ ९.२९.६० ॥

そこでドゥルヨーダナの大臣たちは、涙に喉を詰まらせ、ひどく打ちひしがれて、王妃たちに別れを告げ、町へ向かって出発した。

9.29.61

वेत्रव्यासक्तहस्ताश्च द्वाराध्यक्षा विशाम्पते ।
शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च।
समादाय ययुस्तूर्णं नगरं दाररक्षिणः ॥ ९.२९.६१ ॥

民の主よ、手に杖を持つ門番と婦人の護衛たちは、白い寝台と美しい敷物を携えて、急いで都へ向かった。

9.29.62

आस्थायाश्वतरीयुक्तान्स्यन्दनानपरे पुनः ।
स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति ॥ ९.२९.६२ ॥

他の者たちはラバに引かせた戦車に乗り、それぞれ自分の妻を連れて再び都へ向かった。

9.29.63

अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु ।
ददृशुस्ता महाराज जना याताः पुरं प्रति ॥ ९.२९.६३ ॥

大王よ、家の中で太陽さえ見たことのなかった女たちを、人々は見た。彼女らは都へ向かっていた。

9.29.64

ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः ।
प्रययुर्नगरं तूर्णं हतस्वपतिबान्धवाः ॥ ९.२९.६४ ॥

バラタの最良者よ、夫と親族を殺された、か弱い女たちは、急いで都へ向かった。

9.29.65

आगोपालाविपालेभ्यो द्रवन्तो नगरं प्रति ।
ययुर्मनुष्याः सम्भ्रान्ता भीमसेनभयार्दिताः ॥ ९.२९.६५ ॥

牛飼いから羊飼いまで、ビーマセーナへの恐怖に苛まれた人々は、狼狽して走りながら都へ向かった。

9.29.66

अपिचैषां भयं तीव्रं पार्थेभ्योऽभूत्सुदारुणम् ।
प्रेक्षमाणास्तदाऽन्योन्यमाधावन्नगरं प्रति ॥ ९.२९.६६ ॥

さらに、パーンダヴァたちから彼らの中に激しく非常に恐ろしい恐怖が生じた。そこで互いに顔を見合わせながら、彼らは都へ走った。

9.29.67

तस्मिंस्तथा वर्तमाने विद्रवे भृशदारुणे ।
युयुत्सुः शोकसम्मूढः प्राप्तकालमचिन्तयत् ॥ ९.२९.६७ ॥

その恐ろしい潰走が続く中、悲しみに惑乱したユयुत्सुは、時が来たと考えた。

9.29.68

जितो दुर्योधनः सङ्ख्ये पाण्डवैर्भीमविक्रमैः ।
एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः ॥ ९.२९.६८ ॥

戦いで、十一軍団の主ドゥルヨーダナは、ビーマのような武勇の持ち主であるパーンダヴァ兄弟に敗れ、その兄弟たちも殺された。

9.29.69

हताश्च कुरवः सर्वे भीष्मद्रोणपुरः सराः ।
अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया ॥ ९.२९.६९ ॥

ビーシュマとドローナを先頭に、クル族は皆殺されました。私一人だけが運命の巡り合わせにより、偶然に逃れたのです。

9.29.70

विद्रुतानि च सर्वाणि शिबिराद्वै समन्ततः ।
इतस्ततः पलायन्ते हतनाथा हतौजसः ॥ ९.२९.७० ॥

陣営から、皆四方へ散り散りに逃げている。主君を失い、気力を失って、あちこちへ走っていく。

9.29.71

अदृष्टपूर्वा दुःखार्ता भयव्याकुललोचनाः ।
हरिणा इव वित्रस्ता वीक्षमाणा दिशो दश ॥ ९.२९.७१ ॥

以前には見たこともない姿で、悲しみに苦しみ、恐怖に乱れた目をして、怯えた鹿のように十方を見回している。

9.29.72

दुर्योधनस्य सचिवा ये केचिदवशेषिताः ।
राजदारानुपादाय प्रययुर्नगरं प्रति।
प्राप्तकालमहं मन्ये प्रवेशं तैः सह प्रभो ॥ ९.२९.७२ ॥

ドゥルヨーダナの生き残った大臣たちは王妃たちを連れて町へと向かった。主よ、私も彼らと共に町へ入る時が来たと思う。

9.29.73

युधिष्ठिरमनुज्ञाय वासूदेवं तथैव च ।
एतमर्थं महाबाहुरुभयोः सन्न्यवेदयत् ॥ ९.२९.७३ ॥

ユディシュティラとヴァースデーヴァに暇を告げた後、その大腕の者は此の件を二人に余すことなく報告した。

9.29.74

तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता ।
परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत् ॥ ९.२९.७४ ॥

王は彼をいつも喜んでいた。彼は慈悲を知っていたからである。その大腕の者はヴァイシャの子を抱擁して送り出した。

9.29.75

ततः स रथमास्थाय द्रुतमश्वानचोदयत् ।
संवाहयितवांश्चापि राजदारान्पुरं प्रति ॥ ९.२९.७५ ॥

それから彼は戦車に乗り、馬を急がせた。そして王の妃たちも町の方へ送って行った。

9.29.76

तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे ।
प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः ॥ ९.२९.७६ ॥

彼女たちと共に、太陽が沈む頃に急いで到着した。喉を詰まらせ、涙に目を濡らしてハースティナプラに入った。

9.29.77

अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम् ।
राज्ञः समीपान्निष्क्रान्तं शोकोपहतचेतसम् ॥ ९.२९.७७ ॥

彼は涙に濡れた目の大賢者ヴィドゥラが、王の前から退出し、悲しみに心を傷つけられているのを見た。

9.29.78

तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम् ॥ ९.२९.७८ ॥

サティヤドリティは、前に深く頭を垂れて立つ彼に語りかけた。

9.29.79

दिष्ट्या कुरुक्षये वृत्ते अस्मिंस्त्वं पुत्र जीवसि ।
विना राज्ञः पर्वेशार्द्वै किमसि त्वमिहागतः।
एतद्वै कारणं सर्वं विस्तरेण निवेदय ॥ ९.२९.७९ ॥

幸いにも、息子よ、クル族の滅亡の後もおまえは生きている。王なしでなぜここへ来たのか。その理由をすべて詳しく話せ。

9.29.80

युयुत्सुरुवाच ।
निहते शकुनौ तत्र सज्ञातिसुतबान्धवे।
हतशेषपरीवारो राजा दुर्योधनस्ततः ।
स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् ॥ ९.२९.८० ॥

ユユツは言った。そこでシャクニが亡くなり、親族、息子、縁者とともに、残った供の者も殺されたのち、王ドゥルヨーダナは自分の馬を捨て、恐怖にかられて東を向いて逃げた。

9.29.81

अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात् ।
भयव्याकुलितं सर्वं प्राद्रावन्नगरं प्रति ॥ ९.२९.८१ ॥

王が陣営から去ったとき、恐怖に混乱した者たちは皆、都へと逃げ走った。

9.29.82

ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वतः ।
वाहनेषु समारोप्य अध्यक्षाः प्राद्रावन्भयात् ॥ ९.२९.८२ ॥

そこで監督官たちは、王の妃たちと弟たちの妻たちを四方から乗り物に乗せ、恐れて逃げ去った。

9.29.83

ततोऽहं समनुज्ञाप्य राजानं सहकेशवम् ।
प्रविष्टो हास्तिनपुरं रक्षन्लोकस्य वाच्यताम् ॥ ९.२९.८३ ॥

そこで私は王とケーシャヴァに別れを告げ、人々の非難から身を守りながらハースティナプラに入った。

9.29.84

एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम् ।
प्राप्तकालमिति ज्ञात्वा विदुरः सर्वधर्मवित्।
अपूजयदमेयात्मा युयुत्सुं वाक्यमब्रवीत् ॥ ९.२९.८४ ॥

ヴァイシャーの息子(ヴィドゥラ)の言葉を聞き、それが時宜にかなうと知って、一切のダルマに通じ量り知れぬ魂を持つヴィドゥラはユユツ を敬い、この言葉を述べた。

9.29.85

प्राप्तकालमिदं सर्वं ब्रुवता भरतक्षये ।
रक्षितः कुलधर्मश्च सानुक्रोशतया त्वया ॥ ९.२९.८५ ॥

バラタ族の滅亡の時、あなたはこれらすべてを時宜にかなって語り、慈悲によって家の法を守った。

9.29.86

दिष्ठ्या त्वामिह सङ्ग्राम दस्माद्वीरक्षयात्पुरम् ।
समागतमपश्याम ह्यंशुमन्तमिव प्रजाः ॥ ९.२९.८६ ॥

幸いにも、英雄たちを滅ぼしたこの戦いから、あなたがここ都へ帰ってきたのを見ます。民が太陽を仰ぐように。

9.29.87

अन्धस्यं नृपतेर्यष्टिर्लुब्धस्यादीर्घदर्शिनः ।
बहुशो याच्यमानस्य दैवोपहतचेतसः।
त्वमेको व्यसनार्तस्य ध्रियसे पुत्र सर्वथा ॥ ९.२९.८७ ॥

息子よ、盲目で、貪欲で、先を見通せず、運命に心を打たれた王の、あなただけが杖だ。災厄に苦しむ彼を、あなただけがあらゆる面で支えている。

9.29.88

अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम् ।
एतावदुक्त्वा वचनं विदुरः साश्रुलोचनः।
युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम् ॥ ९.२९.८८ ॥

今日はここで休み、明日ユディシュティラのもとへ行け。こう言って、涙に濡れた目でヴィドゥラはユユツ に別れを告げ、王たちが滅んだ都に入っていった。

9.29.89

पौरजानपदैर्दुःखाद्धाहेति भृशनादितम् ।
निरानन्दं गतश्रीकं हृताराममिवाशयम्।
शून्यरूपमपध्वस्तं दुःखाद्दुःखतरोऽभवत् ॥ ९.२९.८९ ॥

都の民も地方の民も悲しみのあまり「ああ」と大声で嘆き叫んでいた。その都市は喜びを失い、栄光も消え、荒らされた園のように空しく崩れ去り、悲しみによっていっそう深く悲嘆した。

9.29.90

विदुरः सर्वधर्मज्ञो विक्लवेनान्तरात्मना ।
विवेश नगरे राजन्निशश्वास शनैः शनैः ॥ ९.२९.९० ॥

あらゆる法を知る賢者ヴィドゥラは、動揺した心で都に入った。王よ、彼は少しずつ、ゆっくりと嘆息した。

9.29.91

युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा ।
वन्द्यमानः स्वकैश्चापि नाभ्यनन्दत्सुदुःखितः।
चिन्तयानः क्षयं तीव्रं भरतानां परस्परम् ॥ ९.२९.९१ ॥

ユユツも、その夜は自分の家で過ごした。身内に敬われながらも、深く悲しんで喜ぶことなく、バラタ族同士の恐ろしい殺し合いの破滅を思い続けていた。