Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.3.1

शृणु राजन्नवहितो यथावृत्तो महान्क्षयः ।
कुरूणां पाण्डवानां च समासाद्य परस्परम् ॥ ९.३.१ ॥

国王啊,请专心听,库鲁族与般度族相遇后,那场大毁灭是如何发生的。

9.3.2

निहते सूतपुत्रे च फल्गुनेन महात्मना ।
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् ॥ ९.३.२ ॥

当御者之子(迦尔纳)被伟大的法尔古那(阿周那)杀死,军队溃逃又一再被召集起来时。

9.3.3

विमुखे तव पुत्रे च शोकोपहतचेतसि ।
भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम् ॥ ९.३.३ ॥

你的儿子背转身去,心为悲伤所伤,而军队因见到般度子(阿周那)的勇武而极度惊惶之时。

9.3.4

ध्यायमानेषु योधेषु दुऋखं प्राप्तेषु भारत ।
बलानां मत्यमानानां श्रुत्वा निनदमुत्तमम् ॥ ९.३.४ ॥

婆罗多啊,当战士们沉思并陷入痛苦,军队被搅乱之时,听到了那极为响亮的吼声。

9.3.5

अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे ।
पतितानवनीपालान्धवजांश्चैव महात्मनाम्।
रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च भारत ॥ ९.३.५ ॥

婆罗多啊,看到战场上被毁坏的诸王标识,倒下的大地守护者,诸位大德的旗帜,以及在战场上被杀的大象与步兵。

9.3.6

आयोधनं महाघोरं रुद्रस्याक्रीडसन्निभम् ।
अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः ॥ ९.३.६ ॥

那战场极为可怖,如同楼陀罗的游戏之地,那里成千上万的国王已湮没无闻。

9.3.7

कृपाविष्टः कृपो दृष्ट्वा वयः शीलसमन्वितः ।
अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम्।
दुर्योधनमनुक्रोशाद्वाक्यं वाक्यविशारदः ॥ ९.३.७ ॥

慈悲充满的悲舍(Kṛpa),年高而有德,光辉照人,便走近那位人主,善于言辞,出于怜悯对难敌说了这些话。

9.3.8

दुर्योधन निबोधेयं यत्त्वां वक्ष्यामि कौरव ।
श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ ॥ ९.३.८ ॥

难敌啊,请听我要对你说的话,俱卢之子。听了之后,大王,若你觉得可以,就去做吧,无罪者啊。

9.3.9

न युद्धधर्माच्छ्रेयान्वै पन्था राजेन्द्र विद्यते ।
यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ ॥ ९.३.९ ॥

王中之王啊,没有比战争之法更好的道路,刹帝利们依靠它而作战,刹帝利中的雄牛啊。

9.3.10

पुत्रो भ्राता पिता चैव स्वस्रीयो मातुलस्तथा ।
सम्बन्धिबान्धवाश्चैव योद्वव्याः क्षत्रजीविन ॥ ९.३.१० ॥

儿子、兄弟、父亲、姐妹之子、舅父,以及亲属和族人——以刹帝利之业为生的人,也必须与他们作战。

9.3.11

वधे चैव परो धर्मस्तथाऽधर्मः पलायने ।
ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः।
तदत्र प्रतिवक्ष्यामि किञ्चिदेव हितं वचः ॥ ९.३.११ ॥

在杀戮中有至高的法,在逃避中则是非法。想要活命的人已陷入那可怕的生计。因此对此事,我将以一些有益的话来回答。

9.3.12

हते भीष्मे च द्रोणे च कर्णे चैव महारथे ।
जयद्रथे च निहते तव भ्रातृषु चानघ।
लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे ॥ ९.३.१२ ॥

当毗湿摩、德罗纳与大车士迦尔纳被杀,胜车也被杀,你的兄弟们和你的儿子罗什曼那也被杀之后,无垢者啊,我们还能等待什么呢?

9.3.13

येषु भारं समासज्य राज्ये मतिमकुर्महि ।
ते सन्त्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम् ॥ ९.३.१३ ॥

我们曾将王国的重担托付、寄以信任的那些英雄,已舍弃身体,走上了梵智者的道路。

9.3.14

वयं त्विह विनाभूता गुणवद्भिर्महारथैः ।
कृपणं वर्तयिष्यामः पातयित्वा नृपान्बहून् ॥ ९.३.१४ ॥

我们在此失去了有德的大车士,击倒了许多国王,将在困苦的境况中度日。

9.3.15

सर्वैरथ च जीवद्भिर्बीभत्सुरपराजितः ।
कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः ॥ ९.३.१५ ॥

在尚存的人中,有不可战胜的毗跋特苏(阿周那),眼如黑莲般似克里希那,臂力强大,连诸神也难以接近。

9.3.16

इन्द्रकार्मुकवज्राभमिन्द्रकेतुमिवोच्छ्रितम् ।
वानरं केतुमासाद्य सञ्चचाल महाचमूः ॥ ९.३.१६ ॥

抵达高高扬起、如因陀罗之幢般的猴旗,闪耀如因陀罗之弓与金刚杵,大军向前推进。

9.3.17

सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च ।
गाण्डीवस्य च निर्घोषात्सम्मुह्यन्ते मनांसि नः ॥ ९.३.१७ ॥

因毗摩的狮吼、般遮热尼耶螺的声响,以及甘狄拔弓的鸣响,我们的心智都陷入迷乱。

9.3.18

स्फुरन्तीव महाविद्युन्मुष्णन्ती नयनप्रभाम् ।
अलातमिव चाविद्वं गाण्डवीं समदृश्यत ॥ ९.३.१८ ॥

它闪耀如大闪电,遮蔽了眼中的光芒;甘提婆弓看起来像一支燃烧的火把。

9.3.19

जाम्बूनदविचित्रं च धूयमानं महद्धनुः ।
दृश्यते दिक्षु स्रवासु विद्युदभ्रघनेष्विव ॥ ९.३.१९ ॥

那张饰有金色的大弓在各个方向挥动,看上去如同浓云中的闪电。

9.3.20

उह्यमानश्च कृष्णेन वायुनेव बलाहकः ।
तावकं तद्बलं राजन्नर्जुनोऽस्त्रविशारदः।
गहनं शिशिरापाये ददाहाग्निरिवोल्बणः ॥ ९.३.२० ॥

在克里希那驱策下,如风吹动的云,王啊,精通武器的阿周那焚烧了你的那支军队,犹如寒季末的猛烈大火焚烧茂密的森林。

9.3.21

गाहमानमनीकानि महेन्द्रसदृशप्रभम् ।
विक्षोभयन्तं सेनां वै त्रासयन्तं च पार्थिवान्।
धनञ्जयमपश्याम नलिनीमिव कुञ्जरम् ॥ ९.३.२१ ॥

我们看见如因陀罗般光辉的大财(Dhanañjaya)冲入军阵,扰乱军队,使诸王恐惧,犹如大象进入莲花池。

9.3.22

त्रासयन्तं तथा योधान्धनुर्घोषेण पांण्डवम् ।
भूय एनमपश्याम सिंहं मृगगणानिव ॥ ९.३.२२ ॥

我们又看见那位用弓弦声使武士恐惧的般度之子,如狮子望着鹿群。

9.3.23

सर्वलोकमहेष्वासो वृषभौ सर्वधन्विनाम् ।
आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः ॥ ९.३.२३ ॥

两位克里希那,乃是诸界的大弓手,诸弓手中的两头雄牛,身着铠甲,在世间闪耀。

9.3.24

अद्य सप्तदशाहानि वर्तमानस्य भारत ।
सङ्ग्रामस्यातिघोरस्य युध्यतां चाभितो युधि ॥ ९.३.२४ ॥

婆罗多之子啊,在这场持续了十七天的极其惨烈的战斗中,战士们四面八方地厮杀。

9.3.25

वायुनेव विधूतानि एव सैन्यानि गच्छता ।
शरदम्भोदजालानि विशीर्यन्ते समन्ततः ॥ ९.३.२५ ॥

如秋日的云团被风吹散,四面八方裂开,他前进时,军队也四散奔逃。

9.3.26

तां नावमिव पर्यस्तां मज्जमानां महार्णवे ।
तव सेनां महाराज सव्यसाची व्यकम्पयत् ॥ ९.३.२६ ॥

大王啊,如同倾覆的船在大海中沉没、被波涛摇撼,萨维亚萨钦(阿周那)震撼了你的那支军队。

9.3.27

क्वनु ते सूतपुत्रोऽभूत्क्वनु द्रोणः सहात्मजः ।
अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्वनु ॥ ९.३.२७ ॥

你的御者之子(迦尔纳)如今何在?与其子同在的德罗纳何在?我在何处,你的心爱之人在何处,还有希尔迪基亚(克里塔瓦尔曼)又在何处?

9.3.28

दुःशासनश्च ते भ्राता भ्रातृभिः सहितः क्वनु ॥ ९.३.२८ ॥

你的兄弟难降,与他的兄弟们在一起,如今又在何处?

9.3.29

वाणगोचरसम्प्राप्तं युध्यमानं जयद्रथम् ।
सम्बन्धिनस्ते भ्रातॄंश्च साहयान्मातुलांस्तथा।
सर्वान्विक्रम्य मिपतो लोकमाक्रम्य मूर्धनि ॥ ९.३.२९ ॥

他以勇力击败了在箭程之内奋战的胜车,以及你的所有亲属、兄弟、盟友和舅父——在他们注视之下,仿佛将世界扛在头上。

9.3.30

जयद्रथो हतो राजन्किन्नु शेषमुपास्महे ।
को वेह स पुमानास्ते यो विजेष्यति पाण्डवम् ॥ ९.३.३० ॥

大王,賢豪的闍耶陀羅已經被殺。我們還等待什麼呢?這裡有誰能戰勝般度之子呢?

9.3.31

तस्य चास्त्राणि दिव्यानि विदितानि महात्मनः ।
गाण्डीवस्य च निर्घोषो धैर्याणि हरते हि नः ॥ ९.३.३१ ॥

那位大士的神聖兵器人人皆知,而甘提婆弓的轟鳴奪走了我們的勇氣。

9.3.32

नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका ।
नागभग्नद्रुमा शुष्का नदीव प्रतिभाति मे ॥ ९.३.३२ ॥

这支失去统帅的军队,在我看来就像月亮隐没的夜晚,又如被象群折断树木的干涸河流。

9.3.33

ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः ।
चरिष्यति महाराजः कक्षेष्वग्निरिव ज्वलन् ॥ ९.३.३३ ॥

当军队的眼目被毁灭之时,白马御者那位大王(阿周那)将随心所欲地驰骋,如同在林莽中熊熊燃烧的烈火。

9.3.34

सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः ।
दारयेत गिरीन्सर्वाञ्शोषयेच्चैव सागरान् ॥ ९.३.३४ ॥

悉底奇与毗摩勢那二人之勢,足以劈裂一切山岳,使大海乾涸。

9.3.35

उवाच वाक्यं यद्भीमः सभामध्ये विशाम्पते ।
कृतं तत्सफलं सर्वं भूयश्चैव करिष्यति ॥ ९.३.३५ ॥

人主啊,毗摩在会堂中所说的话,全都已经应验了,他还将再次如此行事。

9.3.36

प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम् ।
दुरासदं तदा गुप्तं व्यूढं गाण्डीवधन्वना ॥ ९.३.३६ ॥

当迦尔纳居于前列时,由般度之子守护、由持甘狄拔弓者布阵的军队,那时难以接近,且受到严密护卫。

9.3.37

युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु ।
अकारणकृतान्येव तेषां वः फलमागतम् ॥ ९.३.३७ ॥

你们对善人所做的恶行,是无端而为;如今其果报已经降临到你们身上。

9.3.38

आत्मनोऽर्थे त्वया लोके यत्नतः सर्व आहृतः ।
स ते संशयितस्तात आत्मा च भरतर्षभ ॥ ९.३.३८ ॥

婆罗多中的雄牛啊,亲爱的孩子!你为自己在世上费力聚集的一切,如今已岌岌可危,连你自己的性命也是如此。

9.3.39

रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् ।
भिन्ने हि भाजने तात दिशो गच्छति तद्गतम् ॥ ९.३.३९ ॥

请保护自己免受难敌之害,因为自我是一切的容器。亲爱的孩子,容器破碎之时,其中所盛之物便四散飘向各方。

9.3.40

हीयमानेन वै सन्धिः पर्येष्टव्यः समेन वा ।
विग्रहो वर्धमानेन नीतिरेषा बृहस्पतेः ॥ ९.३.४० ॥

衰弱者应寻求和议,或与对等者和解;强盛者可以开战。这便是布里哈斯帕蒂的治国之道。

9.3.41

ते वयं पाण्डुपुत्रेभ्यो हीनाः स्म बलशक्तितः ।
अत्र ते पाण्डवैः सार्धं सन्धिं मन्ये क्षमं प्रभो ॥ ९.३.४१ ॥

我们在力量与势力上不如般度之子;主啊,我认为此时与般度五子议和,对您是恰当的。

9.3.42

न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते ।
स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दति ॥ ९.३.४२ ॥

不知善、轻慢善者,很快就会失去王国,也得不到善。

9.3.43

अणिपत्य हि राजानं राज्यं यदि लभेमहि ।
श्रेयः स्यान्न तु मौढ्येन राजन्गन्तुं पराभवम् ॥ ९.३.४३ ॥

若能向国王俯首而得回王国,那便是善;但是,国王啊,因愚昧而走向败亡,并非善举。

9.3.44

वैचित्रवीर्यवचनात्कृपाशीलो युधिष्ठिरः ।
विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च ॥ ९.३.४४ ॥

依毗质多毗耶之子的话,依戈文达的话,怀有慈悲之性的坚战会让你重新掌管王国。

9.3.45

अजातशत्रुः कौरव्यो गुरुशुश्रूषणे रतः ।
धृतराष्ट्रस्य वचनं नावमंस्यति धार्मिकः ॥ ९.३.४५ ॥

无敌的俱卢后裔坚战,专心侍奉长辈,秉持正法,不会轻慢持国的话。

9.3.46

कुर्वन्ति भ्रातरश्चास्य वचनं नात्र संशयः ॥ ९.३.४६ ॥

他的兄弟们也会遵从他的话,这一点毫无疑问。

9.3.47

यद्ब्रूयाद्धि हृषीकेशो राजानमपराजितम् ।
अर्जुनो भीमसेनश्च सर्वे कुर्युरसंशयम् ॥ ९.३.४७ ॥

无敌的君王,只要毗湿奴(须弥克)开口,阿周那、怖军等人必定毫无疑问地照办。

9.3.48

नातिक्रमिष्यते कृष्णो वचनं पाण्डवस्य तु ।
धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः ॥ ९.३.४८ ॥

我想,黑天不会违背般度之子的话,般度之子也不会违背持国的话,更不会违背黑天的话。

9.3.49

एतत्क्षममहं मन्ये तव पार्थैरविग्रहम् ।
न त्वां ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात् ॥ ९.३.४९ ॥

我认为,对你而言,与般度之子们不起冲突才是恰当的。我对你说这话,不是出于怯懦,也不是为了保全性命。

9.3.50

पथ्यं राजन्ब्रवीमि त्वां तत्परासुः स्मरिष्यसि ॥ ९.३.५० ॥

大王,我对你说一句有益的话;当你失去生命时,你会想起它。

9.3.51

इति वृद्धो विलप्यैतत्कृपः शारद्वतो वचः ।
दीर्घमुष्णं च निःश्वस्यशुशोच च मुमोह च ॥ ९.३.५१ ॥

年老的沙罗陀婆之子俱利波说完这番话后,悲叹不已,长长地热切叹息,悲伤不已,陷入了迷惘。