Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.31

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.31.1

सञ्जय उवाच ।
ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः।
तं हदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत् ॥ ९.३१.१ ॥

桑闪耶说:那三辆战车离去之后,般度之子们来到了难敌所在的那个湖边。

9.31.2

आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनं हदम् ।
स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् ॥ ९.३१.२ ॥

库鲁之最那时到达了毗耶娑之湖,看见了被持国之子所凝固的那片水域。

9.31.3

वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः ।
पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम् ॥ ९.३१.३ ॥

库鲁之喜对婆薮提婆说了这番话:“你看,持国之子在水中施展的这幻术。

9.31.4

विष्टभ्य सलिलं शेते नास्य मानुषतो भयम् ।
दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम् ॥ ९.३१.४ ॥

他躺在那里,阻止着水流;他不怕凡人。施展了这神圣的幻术,他隐藏在水中。

9.31.5

निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते ।
यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम्।
तथाप्येनं हतं युद्धे लोका द्रक्ष्यन्ति माधव ॥ ९.३१.५ ॥

智慧已被欺诈所染之人,不会被我放生。即使持金刚者亲自在战中助他,摩陀婆啊,世人仍会看见他在战斗中被杀。

9.31.6

मायाविन इमां मायां मायया जहि भारत ।
मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर ॥ ९.३१.६ ॥

婆罗多之子啊,以幻术摧毁这幻术者的幻术吧。幻术者应以幻术来诛杀——这是真理,坚战。

9.31.7

क्रियाभ्युपायैर्बहुभिर्भायामप्सु प्रयोज्य च ।
जहि त्वं भरतश्रेष्ठ मायात्मानं सुयोधनम् ॥ ९.३१.७ ॥

以多种计策与手段,并在水中施展幻术,婆罗多之最啊,你应击杀这位施行幻术的苏yodhana。

9.31.8

क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः ।
क्रियाभ्युपायैर्बलिभिर्बलिर्बद्धो महात्मना ॥ ९.३१.८ ॥

以计策与手段,因陀罗杀死了提迭耶与檀那婆;同样以这些手段,那位大德者缚住了巴利。

9.31.9

क्रियाभ्युपायपूर्वं वै हिरण्याक्षो महासुरः ।
हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ ॥ ९.३१.९ ॥

的确,大阿修罗金眼与金衣王,正是以计策与手段被消灭的。

9.31.10

वृत्रश्च निहतो राजन्क्रिययैव महाबलः ।
तथा पौलस्त्यतनयो रावणो नाम राक्षसः।
रामेण निहतो राजन्सानुबन्धः सहानुगः ॥ ९.३१.१० ॥

大王,强大的弗栗多也是以计策被杀的;同样,补罗斯蒂亚之子罗刹王罗波那,连同亲属与随从,被罗摩所杀。

9.31.11

क्रियया योगमास्थाय तथा त्वमपि विक्रम ॥ ९.३१.११ ॥

依靠计策之道,你也应同样勇敢地行动。

9.31.12

क्रियाभ्युपायैर्निहतौ मया राजन्पुरातनौ ।
तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान् ॥ ९.३१.१२ ॥

大王,往昔这两位,都是我以计策与手段所杀:大阿修罗塔拉卡与勇猛的毗普罗奇提。

9.31.13

वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो ।
सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ ॥ ९.३१.१३ ॥

伐多毗与利尔瓦罗,三头魔亦然;哦,大能者,阿修罗桑达与优波桑达——这些也仅凭计谋被杀。

9.31.14

क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो ।
क्रिया बलवती राजन्नान्यत्किंचिद्युधिष्ठिर ॥ ९.३१.१४ ॥

因陀罗凭借策略与权谋而享有天界,哦,大能者。唯有策略才是强大的,哦,国王坚战,别无他物。

9.31.15

दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा ।
क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर ॥ ९.३१.१५ ॥

提迭、檀那婆、罗刹及诸王,也都是凭策略与权谋而被杀。所以你也应当施行策略。

9.31.16

इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः ।
जलस्थं तं महाराज तव पुत्रं महाबलम्।
अभ्यभाषत कौन्तेयः प्रहसन्निव भारत ॥ ९.३१.१६ ॥

婆苏提婆如此说后,坚守誓愿的般度之子仿佛带着笑意,对站在水中的你那位大力之子说话。哦,伟大的国王,婆罗多的后裔,俱卢子(坚战)对他说道。

9.31.17

सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया ।
सर्वं क्षत्रं घातयित्वा स्वकुलं च विशाम्पते ॥ ९.३१.१७ ॥

哦,难敌!你为何在水中做这番举动?哦,人民之主,你使整个刹帝利族和你自己的家族走向毁灭。

9.31.18

जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः ।
उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन ॥ ९.३१.१८ ॥

如今你进入了水潭,只想保全自己的性命。起来吧,国王,与我们一同作战,哦,难敌!

9.31.19

स ते दर्पो नरश्रेष्ठ स च मानः क्व ते गतः ।
यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः ॥ ९.३१.१९ ॥

人中之英,你的骄傲与尊严今何在?你阻住了水,怀着恐惧站在此处,啊,国王。

9.31.20

सर्वे त्वां शूर इत्येवं जना जल्पन्ति संसदि ।
व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः ॥ ९.३१.२० ॥

众人在朝会上都称你为勇士,但我认为你这躺在水中的勇气实属徒劳。

9.31.21

उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः ।
कौरवेयो विशेषेण कुलं जन्म च संस्मर ॥ ९.३१.२१ ॥

起来吧,国王,去战斗!你是刹帝利,出身于高贵的家族;你是俱卢族人,尤应记住你的家族与出身。

9.31.22

स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः ।
युद्वात्त्रस्ततरस्तोयं प्रविश्य प्रतितिष्ठसि ॥ ९.३१.२२ ॥

你一面夸耀俱卢族的家世与自己的出身,却因畏惧战斗而潜入水中,如今怎能站立在此?

9.31.23

अयुद्धेन व्यवस्थानं नैष धर्मः सनातनः ॥ ९.३१.२३ ॥

不战而袖手旁观,这不是永恒的法。

9.31.24

अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम् ।
कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः ॥ ९.३१.२४ ॥

国王啊,在战场上逃走是卑劣者的行为,不能通往天界。你想在战斗中求生,却不曾到达彼岸,这怎么可能?

9.31.25

इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा ।
सम्बन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा।
घातयित्वा कथं तात हदे तिष्ठति साम्प्रतम् ॥ ९.३१.२५ ॥

见这些倒下的子侄、兄弟、父辈、亲族、友伴、舅父与宗亲,亲爱的,你使他们被杀之后,如今怎能站在湖中?

9.31.26

शूरमानी न शूरस्त्वं मृषा वदसि भारत ।
शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः ॥ ९.३१.२६ ॥

婆罗多之子啊,你自以为英雄,实则不是英雄,你妄言。愚昧之人啊,众人皆听,你却说“我是英雄”。

9.31.27

न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथञ्चन ।
ब्रूहि वा त्वं यया वृत्त्या शूर त्यजसि सङ्गरम् ॥ ९.३१.२७ ॥

英雄见到敌人,决不会逃跑。英雄啊,告诉我,你以怎样的作为放弃战斗?

9.31.28

स त्वमुत्तिष्ठ युध्यस्व विहाय भयमात्मनः ।
घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन ॥ ९.३१.२८ ॥

因此起来吧,抛弃你自己的恐惧,去战斗吧。苏由陀那啊,你已使全军与兄弟被杀,现在就战斗吧。

9.31.29

नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया ।
क्षत्रधर्ममुपाश्रित्य त्वद्विधेन सुयोधन ॥ ९.३१.२९ ॥

现在不应当把心思放在生命上;为了行法之愿,苏由陀那啊,像你这样的人应当依托刹帝利之法。

9.31.30

यत्तु कर्णमुपाश्रित्य शकुनिं चापि सौबलम् ।
दुःशासनं च मोहात्त्वमात्मानं नावबुद्धवान् ॥ ९.३१.३० ॥

你依靠迦尔纳、苏婆罗之子沙恭尼和兵车手,因迷惑而没有认清自己。

9.31.31

तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत ।
कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम् ॥ ९.३१.३१ ॥

婆罗多之子啊,你犯下了如此大罪,就应当迎战。像你这样的人,怎会因迷惑而喜欢逃跑呢?

9.31.32

क्व ते तत्पौरुषं यातं क्व च मानः सुयोधन ।
क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत् ॥ ९.३१.३२ ॥

苏yodhana啊,你的男子气概去哪里了?你的骄傲在哪里?你的勇武去哪里了?你那巨大的夸耀又在哪里?

9.31.33

क्व ते कृतास्त्रता याता किं नु शेषे जलाशये ।
स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत ॥ ९.३१.३३ ॥

你的武器技艺哪里去了?你为何躺在水池中?婆罗多之子啊,你仍是那位英雄;起来,依刹帝利之法而战。

9.31.34

अस्मांस्तु वा पराजित्य प्रशाधि पृथिवीमिमाम् ।
अथवा निहतोस्माभिर्भूमौ स्वप्स्यसि भारत ॥ ९.३१.३४ ॥

要么击败我们而统治此地,要么被我们杀死而躺卧在地上,婆罗多之子啊。

9.31.35

एष ते परमो धर्मः सृष्टो धात्रा महात्मना ।
तं कुरुष्व यथातथ्यं पौरुषे स्व व्यवस्थितः ॥ ९.३१.३५ ॥

这是你的最高之法,由伟大的造物主所定。请如实履行,以你自身的男子气概坚定守持。

9.31.36

एवमुक्तो महाराज धर्मपुत्रेण धीमता ।
सलिलस्थस्तव सुत इदं वचनमब्रवीत् ॥ ९.३१.३६ ॥

大王啊,当智慧的法之子如此言说时,站在水中的你的儿子说出了这番话。

9.31.37

नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत् ।
न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत ॥ ९.३१.३७ ॥

大王,众生生起恐惧并不奇怪。婆罗多之后,我并非因惧怕性命而退避。

9.31.38

अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः ।
एकश्चाप्यगणः सङ्ख्ये प्रत्याश्वासमरोचयम् ॥ ९.३१.३८ ॥

车毁箭尽,后轮御者已死,我独自在阵中,无随从,于是希望重新振作。

9.31.39

न प्राणहेतोर्न भयाश्च विषादाद्विशाम्पते ।
इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम् ॥ ९.३१.३९ ॥

民主之主,我入此水并非为了性命,亦非出于恐惧或沮丧,而是因为疲惫。

9.31.40

त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव ।
अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे ॥ ९.३१.४० ॥

贡蒂之子,你和跟随你的人都应宽心;我将起身,在战场上与你们所有人交战。

9.31.41

आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे ।
तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन ॥ ९.३१.४१ ॥

我们都已宽心,长时间在寻找你;所以现在起来,就在这里作战吧,苏约陀那。

9.31.42

हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि ।
निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि ॥ ९.३१.४२ ॥

或者在战场上杀死普利塔之子,获得繁荣的王国;或者在战场上被我们杀死,得到英雄之界。

9.31.43

यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन ।
त इमे निहताः सर्वे भ्रातरो मे जनेश्वर ॥ ९.३१.४३ ॥

库鲁之乐啊,我为之渴望库鲁王国的那些人,人主啊,我这些兄弟都已被杀。

9.31.44

क्षीणरत्नां च पृथिवीं हतक्षत्रियपुङ्गवाम् ।
न ह्युत्सहाम्यहं भोक्तुं विधवामिव योषितम् ॥ ९.३१.४४ ॥

大地失去了珍宝,最好的刹帝利已被杀尽,我实在不能像享用寡妇一样去享有它。

9.31.45

अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर ।
भङ्क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ ॥ ९.३१.४५ ॥

婆罗多之牛啊,坚战,即便现在,我仍希望打垮般遮罗与般度之子的斗志,战胜你。

9.31.46

न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित् ।
द्रोणे कर्णे च संशान्ते निहते च पितामहे ॥ ९.३१.४६ ॥

但如今我不认为战争还能成就任何事,因为德罗纳与迦尔纳已经倒下,祖父也已被杀。

9.31.47

अस्त्विदानीमियं राजन्केवला पृथिवी तव ।
असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम् ॥ ९.३१.४७ ॥

大王啊,如今这大地就只归您所有吧。没有助手的国王,又有谁愿意去统治国家呢?

9.31.48

सुहृदस्तादृशान्हत्वा पुत्रान्भ्रातॄन्पितॄनपि ।
भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः ॥ ९.३१.४८ ॥

杀尽了这样的朋友、儿子、兄弟和父辈,又被你们夺去了王国,像我这样的人,还有谁愿意活下去呢?

9.31.49

अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः ।
रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत ॥ ९.३१.४९ ॥

我将身披羚羊皮前往森林。婆罗多啊,失去支持者的我,在王国中已无欢愉。

9.31.50

हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा ।
एषा ते पृथिवी राजन्भुङ्क्षैनां विगतज्वरः ॥ ९.३१.५० ॥

国王啊,这片大地布满了阵亡的亲族、倒毙的马匹和象群。请无忧地享受它吧。

9.31.51

वनमेव गमिष्यामि वसानो मृगचर्मणी ।
न हि मे निर्जनस्यास्ति जीवितेऽद्य स्पृहा विभो ॥ ९.३१.५१ ॥

我将身披两张羚羊皮前往森林。强大者啊,身边无人的我,如今已无求生之念。

9.31.52

गच्छ त्वं भुङ्क्ष राजेन्द्र पृथिवीं निहतेश्वराम् ।
हतयोधां नष्टरत्नां शीर्णक्षत्रां यथासुखम् ॥ ९.३१.५२ ॥

去吧,诸王之主!请安然享受这片大地——其君主已死,武士已亡,珍宝已失,刹帝利已然溃散。

9.31.53

दुर्योधनं तव सुतं सलिलस्थं महायशाः ।
श्रुत्वा तु करुणं वाक्यमभाषत युधिष्ठिरः ॥ ९.३१.५३ ॥

听到你的儿子难敌——他躺在水中——那些哀怜的话,大名鼎鼎的坚战便开口说道。

9.31.54

आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः ।
नैतन्मनसि मे राजन्वाशितं शकुनेरिव ॥ ९.३१.५४ ॥

亲爱的,躺在水中,请不要说这些痛苦的哀叹。国王啊,这些话在我心中如同鸟的啼鸣,并不入耳。

9.31.55

यदि वापि समर्थः स्यास्त्वं दानाय सुयोधन ।
नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम् ॥ ९.३१.५५ ॥

苏yodhana啊,即使你有能力施舍,我也不愿统治你所施予的这片大地。

9.31.56

अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम् ।
न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः ॥ ९.३१.५६ ॥

我不会以不义之道接受你所施予的这片大地;国王啊,刹帝利接受施舍并不被视为其本分。

9.31.57

त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम् ।
त्वां तु युद्धे विनिर्जित्य भोक्ताऽस्मि वसुधामिमाम् ॥ ९.३१.५७ ॥

你所施予的整个大地我并不想要;但在战场上战胜你之后,我将享有这片大地。

9.31.58

अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि ।
त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि ॥ ९.३१.५८ ॥

你既无权统治大地,又怎能想要施予?国王啊,你当时为何不就此把大地施予?

9.31.59

धर्मतो याचमानानां प्रशमार्थं कुलस्य नः ।
वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबालम् ॥ ९.३१.५९ ॥

国王啊,为了我们家族的和平,我们依法请求时,你首先拒绝了大力的筏尔什涅耶(克里希纳)。

9.31.60

किमिदानीं ददासि त्वं को हि ते जित्तविभ्रमः ।
अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीं ॥ ९.३१.६० ॥

你现在到底在施予什么?是谁让你产生了这种胜利的错觉?哪一个遭受攻击的国王,会愿意施予大地呢?

9.31.61

न त्वमद्य महीं दातुमीशः कौरवनन्दन ।
आच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसि ॥ ९.३१.६१ ॥

你现在无权施予大地,也无权以武力夺取,俱卢族的喜悦啊。国王啊,你如何想要施予它?

9.31.62

मां तु निर्जित्य सङ्ग्रामे पालयेमां वसुन्धराम् ।
सूच्यग्रेणापि यद्भूमेरपि भिद्येत भारत ॥ ९.३१.६२ ॥

在战斗中战胜我的人,才应统治这片大地。婆罗多啊,哪怕只有针尖所能刺入的一点土地,(我也不会给)。

9.31.63

तन्मात्रमपि तन्मह्यं न ददाति पुरा भवान् ।
स कथं पृथिवीमेतां प्रददासि विशाम्पते ॥ ९.३१.६३ ॥

从前你连那么一点都不肯给我。民众之主啊,那么现在你怎么要施予这整个大地?

9.31.64

सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम् ॥ ९.३१.६४ ॥

从前你连针尖大小的土地都不肯放弃。那么现在你怎么放弃这大地?

9.31.65

एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम् ।
को हि मूढो व्यवस्येत शत्रोर्दातुं वसुन्धराम् ॥ ९.३१.६५ ॥

这样获得王权、统治了这片大地之后,哪个愚人会决意把这片大地交给敌人?

9.31.66

त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे ।
पृथिवीं दातुकामोऽपि जीवंस्त्वं नैव मोक्ष्यसे ॥ ९.३१.६६ ॥

可你只因愚痴而迷惑,不能明白。即使你想施予大地,只要你活着,你就不会得到解脱。

9.31.67

अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् ।
अथवा निहतोऽस्माभिर्व्रज लोकाननुत्तमान् ॥ ९.३१.६७ ॥

或者你战胜我们而统治此大地,或者被我们所杀而往至最上的世界。

9.31.68

आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम् ।
संशयः सर्वभूतानां विजये नौ भविष्यति ॥ ९.३१.६८ ॥

大王啊,只要我们二人在世,在我和你之中,一切众生必定会对我们二人的胜利心存疑虑。

9.31.69

जीवितं त्वयि दुष्प्रापं मयि यत्परिवर्तते ।
जीवयेयमहं कामं न तु त्वं जीवितुं क्षमः ॥ ९.३१.६९ ॥

在你身上难以得到生命,而在我身上的生命则由我掌控。我可以随意使人存活,而你却不能活下去。

9.31.70

दहने हि कृतो यत्नस्त्वयाऽस्मासु विशेषतः ।
आशीविषैर्विषैश्चापि जले जापि प्रवेशनैः।
त्वया विनिकृता राजन्राज्यस्य हरणेन च ॥ ९.३१.७० ॥

你尤其企图把我们投入火中,用毒蛇和毒药,也曾把我们沉入水中。大王啊,你夺去王国,使我们受辱。

9.31.71

अप्रियाणां च वचनैर्द्रौपद्याः कर्षणेन च ।
एतस्मात्कारणात्पाप जीवितं न विद्यते ॥ ९.३१.७१ ॥

以难听的言语,又拖拽德罗波蒂——罪人啊!因此,你已不再有生命的权利。

9.31.72

उत्तिष्ठोत्तिष्ठ युध्यस्व युद्धे श्रेयो भविष्यति ॥ ९.३१.७२ ॥

起来,起来!战斗吧;在战斗中,对你将有好处。

9.31.73

एवं तु विविधा वाचो जययुक्ताः पुनःपुनः ।
कीर्तयन्ति स्म ते वीरास्तत्रतत्र जनाधिप ॥ ९.३१.७३ ॥

如此,那些勇士们一次又一次地、这里那里地高呼着伴随胜利欢呼的种种言辞,哦,人民之主。