摩诃婆罗多 · 章 9.32
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.32.1
एवं सन्तर्ज्यमानस्तु मम पुत्रो महीपतिः ।
प्रकृत्या मन्युमान्वीरः कथमासीत्परन्तपः ॥ ९.३२.१ ॥
我的儿子,大地之主,性情暴烈的英雄,敌人的折磨者,被如此呵斥之后,又如何呢?
9.32.2
न हि सन्तर्जना तेन श्रुतपूर्वा कथञ्चन ।
राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत् ॥ ९.३२.२ ॥
他以前从未听过这样的责备;因为王者的身份,他受到全世界的尊重。
9.32.3
यस्यातपत्रच्छायापि स्वका भानोस्तथा प्रभा ।
खेदायैवाभिमानित्वात्सहेत्सैवं कथं गरिः ॥ ९.३२.३ ॥
他的伞盖之影与太阳之光皆属其有,因傲慢却只为苦恼而存在;他又怎能忍受这样的言语?
9.32.4
इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम् ।
प्रसादाद्भ्रियते यस्य प्रत्यक्षं तव सञ्जय ॥ ९.३२.४ ॥
这整个大地,连同蛮族和林居者,都极大地依靠他的恩惠而得以供养;这一切你亲眼所见,桑闍耶。
9.32.5
स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः ।
विहीनश्च स्वकैर्भृत्यैर्निर्जिते चावृतो भृशम् ॥ ९.३२.५ ॥
他被般度之子们如此特别地责备,又失去了自己的侍从,且已被击败,陷入重重包围之中。
9.32.6
स श्रुत्वा कटुका वाचो जययुक्ताः पुनःपुनः ।
किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व सञ्जय ॥ ९.३२.६ ॥
他一再听到那些在胜利中说出的严厉之言之后,对般度之子们说了什么?桑闍耶,请告诉我。
9.32.7
तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः ।
युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह ॥ ९.३२.७ ॥
国王啊,那时站在水中的你的儿子被坚战与他的兄弟们威胁,王中之王啊。
9.32.8
श्रुत्वा स कटुका वाचो विषमस्थो नराधिपः ।
दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनःपुनः ॥ ९.३२.८ ॥
听到那些严厉的话,那位处于困境、站在水中的人主,一次又一次地长长地、热热地叹息。
9.32.9
सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनःपुनः ।
मनश्चकार युद्धाय राजानं चाभ्यभाषत ॥ ९.३२.९ ॥
沉在水中的国王一次又一次地挥动双手,下定了作战的决心,并对国王说道。
9.32.10
यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः ।
अहमेकः परिद्यूनो विरथो हतवाहनः ॥ ९.३२.१० ॥
你们,普利塔之子及其朋友,都有战车和坐骑;而我独自一人,已极度疲惫,没有战车,坐骑也已被杀。
9.32.11
आत्तशस्त्रै रथोपेतैर्बहुभिः परिवास्तिः ।
कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सह ॥ ९.३२.११ ॥
被许多持械、乘战车的人包围,我独自一人,步行且无兵器,怎能敢于作战?
9.32.12
एकैकशश्च मां यूयं योधयध्वं युधिष्ठिर ।
न ह्येको बहुभिर्वीरैर्न्याय्यो योधयितुं युधि ॥ ९.३२.१२ ॥
坚战啊,你们一个一个地与我作战吧;让一个人在战场上与许多英雄交战,并不公正。
9.32.13
विशेषतो विकवचः श्रान्तश्चापत्समाश्रितः ।
भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः ॥ ९.३२.१३ ॥
尤其是无甲,疲惫,陷入灾祸,肢体重伤,坐骑与士兵皆已疲乏。
9.32.14
न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात् ।
फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथवा पुनः ॥ ९.३२.१४ ॥
大王啊,我不怕你,也不怕普利塔之子、狼腹、白光、婆苏提婆,也不怕般遮罗人,或其他任何人。
9.32.15
यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः ।
एकः सर्वानहं क्रुद्धो वारयिष्ये युधि स्थितः ॥ ९.३२.१५ ॥
无论来自双生子、尤尤陀那,还是你的其他士兵,我都将独自一人、怒火满胸地站立于战场,将他们全部阻挡。
9.32.16
धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप ।
धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम् ॥ ९.३२.१६ ॥
人主啊,善人与世人的名声以法为根本。我在此守护法与名声,故而说道。
9.32.17
अहमुत्थाय सर्वान्वै प्रतियोत्स्यामि संयुगे ।
अन्वभ्याशं गतान्सर्वान्निहनिष्यामि भारत ॥ ९.३२.१७ ॥
我将起身,在战场上与他们全部交战;婆罗多啊,凡是靠近的,我都将杀死。
9.32.18
अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन् ।
नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये ॥ ९.३२.१८ ॥
今日,即使我无甲无车,也将战胜你们所有人,连同你们的战车与马匹,正如夜尽时太阳掩盖一切星辰。
9.32.19
तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः ।
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनां ॥ ९.३२.१९ ॥
我将以我的威力摧毁他们。般度之子们啊,坚定地站着吧!今天我将偿还对荣耀的刹帝利们所欠的债。
9.32.20
बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः ।
जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः ॥ ९.३२.२० ॥
巴赫利迦、德罗纳、毗湿摩、伟大的迦尔纳、英雄胜车、以及两位薄伽达多的(债)。
9.32.21
मद्रराजस्य शल्यस्य भूरिश्रवस एव च ।
पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च ॥ ९.३२.२१ ॥
摩德罗王沙利耶、布利希罗婆,婆罗多之最啊,你的诸子,以及苏巴拉之子沙恭尼的(债)。
9.32.22
मेत्राणां सुहृदां चैव बान्धवानां तथैव च ।
प्रानृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह ॥ ९.३२.२२ ॥
也包括朋友、友人和亲属的(债)。今天我将杀死你和你的兄弟们,从而完全还清债务。
9.32.23
एतावदुक्त्वा वचनं विरराम जनाधिपः ।
सलिलान्तर्गतः श्रीमान्पुत्रो दुर्योधनस्तव ॥ ९.३२.२३ ॥
说完这些,人主便沉默了。那时,你光荣的儿子难敌进入了水中。
9.32.24
दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन ।
दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज ॥ ९.३२.२४ ॥
幸运的是,你也懂得刹帝利的本分,苏耶陀那啊;幸运的是,你的心志正向着战斗,大臂者啊。
9.32.25
दिष्ट्या शूरोऽसि गान्धारे दिष्ट्या जानासि सङ्गरम् ।
यस्त्वमेको हि नः सर्वान्सङ्गरे योद्भुमिच्छसि ॥ ९.३२.२५ ॥
幸运的是你是英雄,乔达罗啊;幸运的是你懂得战争。你独自想与我们所有人交战。
9.32.26
एक एकेन सङ्गम्य यत्ते सम्मतमायुधम् ।
तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः ॥ ९.३२.२६ ॥
你与一人相遇,取你所同意的兵器而战;我们作为你的观众站立于此。
9.32.27
अयमिष्टं च ते कामं वीर भूयो ददाम्यहम् ।
हत्वैकं भव नो राजा हतो वा स्वर्गमाप्नुहि ॥ ९.३२.२७ ॥
勇士啊,我再次满足你的心愿:杀死一人,成为我们的国王;或者被杀,得到天界。
9.32.28
एकश्चेद्योद्भुमाक्रन्दे वरोऽद्य मम दीयताम् ।
आयुधानामियं चापि मता मे सतं गदा ॥ ९.३२.२८ ॥
若要在战场喧嚣中一对一交战,愿今日赐我此恩;依我看,这根权杖抵得上所有兵器的一百件。
9.32.29
भ्रातणां भवतामेकः शक्यं मां योऽभिमन्यते ।
पदातिर्गदया सङ्ख्ये स युध्यतु मया सह ॥ ९.३२.२९ ॥
你们兄弟中谁能向我挑战,就让他徒步手持权杖在战场上与我交战。
9.32.30
वृत्तानि रथयुद्धानि विचित्रामि पदेपदे ।
इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत् ॥ ९.३२.३० ॥
车战在每一步都曾发生,形式多样;愿这一场权杖之战今日成为一场宏大而奇异的较量。
9.32.31
अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः ।
युद्धानामपि पर्यायो भवत्वनुमते तव ॥ ९.३२.३१ ॥
人们尚且想为食物轮流安排;若得你同意,也让战斗轮流进行吧。
9.32.32
गदया त्वां महाबाहो विजेष्यामि सहानुजम् ।
पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः।
न हि मे सम्भ्रामो जातु शक्रादपि युधिष्ठिर ॥ ९.३२.३२ ॥
啊,大臂者!我将以铁杵击败你和你的弟弟们,以及般遮罗人、斯林遮耶人和你的其他士兵。坚战啊,即便是因陀罗,也从未使我惊惧。
9.32.33
उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन ।
एक एकेन सङ्गम्य संयुगे गदया बली ॥ ९.३२.३३ ॥
起来,起来,甘陀利之子!苏约达那,与我交战。在战场上一对一相遇,持杵而战,啊强者。
9.32.34
पुरुषो भव गान्धारे युध्यस्व सुसमाहितः ।
अद्य ते जीवितं नास्ति यदीन्द्रोपि तवाश्रयः ॥ ९.३२.३४ ॥
甘陀利之子,请做一个男子汉,专心应战。今日你已无命,即便因陀罗是你的依靠。
9.32.35
एतत्स नरशार्दूलो नामृष्यत तवात्मजः ।
सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन् ॥ ९.३२.३५ ॥
你的儿子,人中之虎,不能忍受这些,如同大蛇沉没水中,在洞穴中嘶嘶作响。
9.32.36
तथाऽसौ वाक्प्रतोदेन तुद्यमानः पुनःपुनः ।
वचो न ममृषे राजन्नुत्तमाश्वः कशामिव ॥ ९.३२.३६ ॥
如此,他被言语之钩一再刺激,大王,他不能忍受这些话,正如良马不能忍受鞭子。
9.32.37
सङ्क्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान् ।
अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम्।
अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन् ॥ ९.३२.३७ ॥
他奋力搅动水面,取起那用坚石精华制成、沉重、饰有金臂钏的大棒,从水中站起,像象王一样喘息。
9.32.38
स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम् ।
उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिवानिव ॥ ९.३२.३८ ॥
他劈开静止的水面,把铁棒扛在肩上,你的儿子如同放射光芒的太阳般光耀地升起。
9.32.39
ततः शैक्यायसीं गुर्वी जातरूपपरिष्कृताम् ।
गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः ॥ ९.३२.३९ ॥
于是这位明智而大力的持国之子握住了那根沉重的钢棒,上饰黄金。
9.32.40
गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम् ।
प्रजानामिव सङ्क्रुद्धं शूलपाणिमिव स्थितम् ॥ ९.३२.४० ॥
看见他手持大棒站立,人们觉得他就像有山峰的高山,或像对众生震怒、手持三叉戟而立的湿婆。
9.32.41
सगदो भारतो भाति प्रतपन्भास्करो यथा ॥ ९.३२.४१ ॥
持着大棒的婆罗多之子闪耀如炽热的太阳。
9.32.42
तमुत्तीर्णं महाबाहुं गदाहस्तमरिन्दमम् ।
मेनिरे सर्वभूतानि दण्डपाणिमिवान्तकम् ॥ ९.३२.४२ ॥
那位从水中升起、手持大棒、降伏敌人的大臂者,众生都把他当作手持杖棒的死神。
9.32.43
वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम् ।
ददृशुः शर्वपाञ्चालाः पुत्रं तव जनाधिप ॥ ९.३२.४३ ॥
如手持金刚杵的因陀罗,如手持三叉戟的诃罗,湿婆与般遮罗人看见了你的儿子,人主啊。
9.32.44
तमुत्तीर्णं तु सम्प्रेक्ष्य समहृष्यन्त सर्वशः ।
पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः ॥ ९.३२.४४ ॥
见他站起,般遮罗人与般度之子各方欢喜,彼此拍击手掌。
9.32.45
अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव ।
उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान् ॥ ९.३२.४५ ॥
杜尔约陀那(难敌)以为那是嘲笑,愤怒地瞪大双眼,仿佛要焚烧般团人。
9.32.46
त्रिशिखां भ्रुकुटीं कृत्वा सन्दष्टदशनच्छदः ।
प्रत्युवाच ततस्तान्वै पाण्डवान्सह केशवान् ॥ ९.३२.४६ ॥
他双眉蹙成三道皱纹,咬紧嘴唇,随即回答了那些般度之子以及毗湿奴(克里希那)。
9.32.47
अस्यावहासस्य फलं प्रतिमोक्ष्यथ पाण्डवाः ।
गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम् ॥ ९.३२.४७ ॥
般度之子们啊,你们将受到这嘲笑的果报;与般遮罗人一同立即被杀,你们将前往阎摩的居所。
9.32.48
उत्थिन्तश्च जलात्तस्मात्पुत्रो दुर्योधनस्तव ।
अतिष्ठत गदापाणी रुधिरेण समुक्षितः ॥ ९.३२.४८ ॥
你的儿子杜尔约陀那(难敌)从水中起身,手持权杖,浑身沾满鲜血,站立于彼处。
9.32.49
तस्य शोणितदिग्धस्य सलिलेन समुक्षितम् ।
शरीरं स्म तदा भाति स्रवन्निव महीधारः ॥ ९.३२.४९ ॥
他的身体沾满鲜血,又被水洒过,此时闪耀着,宛如一股流淌的山泉。
9.32.50
तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः ।
वैवस्वतमिव क्रुद्धं शूलपाणिमिव स्थितम् ॥ ९.३२.५० ॥
般度之子们看见这位高举鎚杖的英雄站在那里,像愤怒的毗婆娑多之子阎摩,又像手持三叉戟的湿婆。
9.32.51
स मेघनिनदो हर्षान्नर्दन्निव च गोवृषः ।
आजुहाव ततः पार्थान्गदया युधि वीर्यवान् ॥ ९.३२.५१ ॥
他如云般雷鸣,因喜悦而如公牛般咆哮,手持鎚杖,英勇地在战场上向普利塔之子挑战。
9.32.52
एकैकेन च मां यूयमासीदत युधिष्ठिर ।
न ह्येको बहुभिर्न्याय्यो वीरो योधयितुं युधि ॥ ९.३२.५२ ॥
坚战啊,你们一个一个地来到我面前!一位英雄不应在战场上被众人围攻。
9.32.53
न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः ।
भृशं विक्षतगात्रश्च हतवाहनसैनिकः ॥ ९.३२.५३ ॥
卸下了铠甲,尤其疲惫,身浸水中,肢体伤势严重,战车马匹与士兵皆已战死。
9.32.54
अवश्यमेव योद्वव्यं सर्वैरेव मया सह ।
युक्तं त्वयुक्तमित्येतद्वेत्सि त्वं चैव सर्वदा ॥ ९.३२.५४ ॥
你们所有人必定要与我交战。什么是合宜、什么是不合宜,你向来是清楚的。
9.32.55
मा भूदियं तव प्रज्ञा कथमेकं सुयोधन ।
यदाऽभिमन्युं बहवो जघ्नुर्युधि महारथाः ॥ ९.३२.५५ ॥
苏尤达那啊,愿你的见识不要如此:当许多大车战士在战场上围杀独自一人的阿毗曼尤时,你却认为那是对的。
9.32.56
क्षत्रधर्मं भृशं क्रूरं निरपेक्षं सुनिर्घृणम् ।
अन्यथा तु कथं हन्युरभिमन्युं तथागतम् ॥ ९.३२.५६ ॥
刹帝利之法极为残酷、无所顾惜、毫无怜悯;否则,他们在那种境况中怎会杀死阿毗曼尤呢?
9.32.57
सर्वे भवन्तो धर्मज्ञाः सर्वे शूरास्तनुत्यजः ।
न्यायेन युध्यतां प्रोक्ता शक्रलोकगतिः परा ॥ ९.३२.५७ ॥
你们都是通晓法的人,都是勇士,都愿舍弃身体;对于依正义而战者,已宣说了通往因陀罗世界的至高之路。
9.32.58
यद्येकस्तु न हन्तव्यो बहुभिर्धर्म एव तु ।
तदाऽभिमन्युं बहवो निजघ्नुस्त्वन्मते कथम् ॥ ९.३२.५८ ॥
若一人不应被众人所杀才是法,那么依你的看法,众人是如何杀死阿毗曼尤的呢?
9.32.59
सर्वो विमृशते जन्तुः कृच्छ्रस्थो धर्मदर्शनम् ।
पदस्थः पिहितं द्वारं परलोकस्य पश्यति ॥ ९.३२.५९ ॥
每个生灵身处困境时都会思量法;而站在安稳之地的人,看到的却是彼岸世界紧闭的门。
9.32.60
आमुञ्च कवचं वीर मूर्धजान्यमयस्व च ।
यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत ॥ ९.३२.६० ॥
勇士啊,卸下你的铠甲,松开你的头发;你所没有的东西,也请接受吧,婆罗多之子啊。
9.32.61
इममेकं च ते कामं वीर भूयो ददाम्यहम् ।
पञ्चानां पाण्डवेयानां येन त्वं योद्धुमिच्छसि ॥ ९.३२.६१ ॥
英雄啊,我再给你这一个愿望:你想与般度的五个儿子中的哪一个交战。
9.32.62
तं हत्वा वै भवाराजा हतो वा स्वर्गमाप्नुहि ।
ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम् ॥ ९.३२.६२ ॥
杀了他而成为世界之王,或者战死而获得天界。英雄啊,除了性命,我们还能为你在战斗中做什么你所喜爱的事呢?
9.32.63
ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम् ।
विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम् ॥ ९.३२.६३ ॥
于是,大王,你的儿子拿起金甲,以及以阎浮檀金装饰的花色头盔。
9.32.64
सोऽवबद्वशिरस्त्राणः शुभकाञ्चनवर्मभृत् ।
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥ ९.३२.६४ ॥
系好头盔,身披精美的金甲,大王,你的儿子光彩照人,犹如金色的山王。
9.32.65
सन्नद्धः सगतो राजन्सज्जः सङ्ग्राममूर्धनि ।
अब्रवीत्पाण्डवान्सर्वान्पुत्रो दुर्योधनस्तव ॥ ९.३२.६५ ॥
大王,他全副武装,已在战阵前列准备好,你的儿子难敌对所有般度之子说道。
9.32.66
भ्रातॄणां भवतामेको युध्यतां गदया मया ।
सहदेवेन वा योत्स्ये भीमेन नकुलेन वा ॥ ९.३२.६६ ॥
兄弟们中的一个,我将用铁锤与你们交战——与萨诃提婆,或与婆罗,或与那古罗。
9.32.67
अथवा फल्गुनेनाद्य त्वया वा भरतर्षभ ।
योत्स्येऽहं सङ्गरं प्राप्य विजेष्ये च रणाजिरे ॥ ९.३२.६७ ॥
或者今天与法尔古那,或者与你,婆罗多族的雄牛啊,我将投入战斗,在战场上取得胜利。
9.32.68
अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम् ।
गदया पुरुषव्याघ्र हेमपट्टनिबद्धया ॥ ९.३२.६८ ॥
今日我将走向那难以抵达的仇恨终点,人中之虎啊,手持以金带缠束的权杖。
9.32.69
गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तये ।
गदया वो हनिष्यामि सर्वानेव समागतान् ॥ ९.३२.६९ ॥
我想在棍棒战中没有人能与我相比;我将用权杖杀死你们所有聚集在此的人。
9.32.70
न मे समर्थाः सर्वे वै योद्धुं न्यायेन केचन ।
न युक्तमात्मना वक्तुमेवं गर्वोद्धतं वचः।
अथवा सफलं ह्येतत्करिष्ये भवतां पुरः ॥ ९.३२.७० ॥
按理说,你们中没有谁能与我作战;自己口出如此傲慢狂妄之言也不恰当。或者,我将在你们面前使之成真。
9.32.71
अस्मिन्महूर्ते सत्यं वा मिथ्या वै तद्भविष्यति ।
गृह्णातु च गदां यो वै योत्स्यतेऽद्य मया सह ॥ ९.३२.७१ ॥
就在此刻,这将证明是真是假。今天想与我作战的人,就拿起权杖吧。