Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.35

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.35.1

पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते ।
आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः ॥ ९.३५.१ ॥

在战争临近之时,主罗摩向克沙瓦告辞,与毗湿尼族人一同先行离去。

9.35.2

साहाय्यं धार्तराष्ट्रस्य न च कर्ताऽस्मि केशव ।
न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम् ॥ ९.३५.२ ॥

"啊,克沙瓦,我不会帮助持国之子,也不会去帮助般度之子;我将照来时那样离去。"

9.35.3

एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः ।
तस्य चागमनं भूयो ब्रह्मञ्शं सितुमर्हसि ॥ ९.३५.३ ॥

说完这番话,灭敌者罗摩便离去了。婆罗门啊,你应当再讲述他归来的经过。

9.35.4

आख्याहि मे विस्तरशः कथं राम उपस्थितः ।
कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम ॥ ९.३५.४ ॥

请详细告诉我,罗摩是如何到来的,又如何观看了那场战斗?善人中的最优者啊,你精通此事。

9.35.5

उपप्लाव्ये निविष्टेषु पाण्डवेषु महात्मसु ।
प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः ॥ ९.३५.५ ॥

当大心的般度五子驻扎在优帕普拉维亚时,摩图苏陀那(克里希那)被派往持国王面前。

9.35.6

शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम् ।
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च। ॥ ९.३५.६ ॥

啊,大臂者,为了一切有身众生的利益而努力促成和平,他前往象城,与持国王相会。

9.35.7

उक्तवान्वचनं पथ्यं हितं चैव विशेषतः ॥ ९.३५.७ ॥

他说出了有益、尤其有利的话语。

9.35.8

न च तत्कृतवान्राजा यथाऽख्यातं हि तत्पुरा ॥ ९.३५.८ ॥

国王没有照先前所宣告的那样去做。

9.35.9

अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः ।
आगच्छत महाबाहुरुपप्लाव्यं जनाधिप ॥ ९.३५.९ ॥

未能在那里取得和平,人中最优秀的、大臂的克利希那返回了,人主啊。

9.35.10

ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः ।
आजगाम नरव्याघ्रः पाण्डवानामनीकिनीम्।
यथोक्तं च यथावृत्तं गत्वा पाण्डवमब्रवीत् ॥ ९.३५.१० ॥

随后,被持国之子送走的克利希那返回。人中猛虎来到般度五子的军队,去见般度之子,将所说之事与所发生之事如实相告。

9.35.11

न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः ।
निर्गच्छध्व पाण्डवेयाः पुष्येण सहिता मया ॥ ९.३५.११ ॥

被时间驱使的俱卢人不听从我的话。般度之子们,与补舍及我一同出发吧。

9.35.12

ततो विभज्यमानेषु बलेषु बलिनां वरः ।
प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः ॥ ९.३५.१२ ॥

当军队正在分开之际,力量强大者中最优秀的、罗希尼之子、心胸宽广的大力罗摩,对他的兄弟克利希那说道。

9.35.13

तेषामपि महाबाहो साहाय्यं मधुसूदन ।
क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा ॥ ९.३५.१३ ॥

大臂的摩图苏陀那啊,愿二人都得到帮助——他这样说;但当时黑天没有听从他的话。

9.35.14

ततो मन्युपरीतात्मा जगाम यदुनन्दनः ।
तीर्थयात्रां हलधरः सरस्वत्यां महायशाः।
मैत्रनक्षत्रयोगे स्म सहितः सर्वयादवैः ॥ ९.३५.१४ ॥

于是,怒气充盈其心的、雅度家族的喜悦、持犁者、大名远扬的婆罗摩,在弥多罗星宿的会合之时,与全体雅达瓦人一同前往娑罗私婆底河进行朝圣。

9.35.15

आश्रयामास भोजस्तु दुर्योधनमरिन्दमः ।
युयुधानेन सहितो वासुदेवस्तु पाण्डवान् ॥ ९.३५.१५ ॥

降伏敌人的婆阁王投奔了难敌;而婆苏提婆与优由陀那一道,站在般度五子一边。

9.35.16

रौहिणेये गते शूरे पुष्येण मधुसूदनः ।
पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कूरून् ॥ ९.३५.१६ ॥

英雄罗希尼之子离去后,摩图苏陀那在补沙星宿之下,让般度之子走在前面,面向俱卢人进发。

9.35.17

गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह ।
सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च ॥ ९.३५.१७ ॥

罗摩在路上边走边停下,对他的仆人说:把朝圣所需的物资和一切器具都拿来。

9.35.18

आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा ।
सुवर्णरजनं चैव धैनूर्वासांसि वाजिनः ॥ ९.३५.१८ ॥

从杜瓦拉迦把圣火和主祭司带来,还有金黄色的郁金香粉、牛、衣物和马匹。

9.35.19

कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च ।
क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम् ॥ ९.३५.१९ ॥

请迅速牵来大象、战车、驴、骆驼及其他车辆,连同一切用具,以备朝圣之行。

9.35.20

प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः ।
ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान् ॥ ९.३५.२० ॥

疾行的使者们,请逆流沿萨拉斯瓦蒂河而上,务必带来数百名祭司和最优秀的婆罗门。

9.35.21

एवं सन्दिश्य तु प्रेष्यान्बलदेवो महाबलः ।
तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा ॥ ९.३५.२१ ॥

大王啊,大力的力天如此吩咐使者之后,在库鲁族毁灭之时,便启程踏上了朝圣之旅。

9.35.22

सरस्वत्याः प्रतिस्रोतः समुद्रादभिजग्मिवान ।
रामो यदूत्तमः श्रीमांस्तीर्थयात्रामनुस्मरन् ॥ ९.३५.२२ ॥

光荣的耶度族之最罗摩,怀念着朝圣之行,从大海逆流而上,来到萨拉斯瓦蒂河。

9.35.23

ऋत्विग्भिश्च सुहृद्भिश्च यथाऽन्यैर्द्विजसत्तमैः ।
रथैर्गजैस्तथाऽश्वैश्च प्रेष्यैश्च भरतर्षभ।
गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः ॥ ९.३५.२३ ॥

婆罗多族的雄牛啊,他被祭司、朋友、其他优秀婆罗门、战车、大象、马匹、仆从以及许多由牛、驴和骆驼拉的车辆所环绕。

9.35.24

श्रान्तानां क्लान्तबपुषां शिशूनां विपुलायुषाम् ।
देशेदेशे तु देयानि दानानि विविधानि च ॥ ९.३५.२४ ॥

每个地方都应当向疲惫者、身体困乏者和长寿的孩童布施种种施舍。

9.35.25

अर्चायै चार्थिनां राजन्क्लृप्तानि बहुशस्तथा ।
तानि यानीह देशेषु प्रतीक्षन्ति स्म भारत ॥ ९.३५.२५ ॥

君王啊,为礼敬乞求者,也预备了许多物品;婆罗多啊,这些物品在这些地方等待着。

9.35.26

बुभुक्षितानामर्थाय क्लृप्तमन्नं समन्ततः ॥ ९.३५.२६ ॥

四面八方为饥饿之人备好了食物。

9.35.27

योयो यत्र द्विजो भोज्यं भोक्तुं कामयते तदा ।
तस्यतस्य तु तत्रैवमुपजह्रुस्तदा नृष ॥ ९.३५.२७ ॥

凡婆罗门想在何处、何时用餐,便在那里为他取来并摆好食物。君王啊,当时便是这样办的。

9.35.28

तत्रतत्र स्थिता राजन्रौहिणेयस्य शासनात् ।
भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः ॥ ९.३५.२८ ॥

君王啊,遵照罗喜尼之子(大力罗摩)的命令,各处站立的人在四面堆起了饮食的堆。

9.35.29

वासांसि च महार्हाणि पर्यङ्कास्तरणानि च ।
पूजार्थं तत्र क्लृप्तानि विप्राणां सुखमिच्छताम् ॥ ९.३५.२९ ॥

那里为礼敬追求安适的婆罗门,还预备了贵重的衣服和床褥。

9.35.30

यत्र यः स्वपते विप्रो यो वा जागर्ति भारत ।
तत्रतत्रैव सर्वस्य क्लृप्तं सर्वमपश्यत ॥ ९.३५.३० ॥

婆罗多啊,无论哪位婆罗门在何处睡觉或醒着,那里都看到为所有人预备好了一切。

9.35.31

यथासुखं जनः सर्वो याति तिष्ठति वै तदा ।
यातुकामस्य यानानि पानानि तृषितस्य च ॥ ९.३५.३१ ॥

那时众人安然往来、停留;想要出行者有车乘,口渴者有饮料。

9.35.32

बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ ।
उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च ॥ ९.३५.३२ ॥

婆罗多中的雄牛啊,那里饥饿者得到美味的食物,人们也在那里奉上衣服和装饰品。

9.35.33

स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः ।
स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम् ॥ ९.३५.३३ ॥

大王啊,那条道路照耀着,给所有人带来快乐;英雄啊,那时对前往那里的人来说,它如同天堂。

9.35.34

नित्यप्रमुदितोपेतः स्वादुभक्ष्यो जलान्वितः ।
विपण्यापणपण्यानं नानाजनशतैर्वृतः।
नानाद्रुमलतोपेतो नानारत्नविभूषितः ॥ ९.३५.३४ ॥

那条道路总是充满欢乐,备有美味的食物和清水;店铺与市集的货物充盈,被成百上千各式各样的人环绕,装饰着各种树木与藤蔓,并以众多宝石妆点。

9.35.35

ततो महात्मा नियतो मनस्विनां ।
पुण्येषु तीर्थेषु वसूनि राजन्।
ददौ द्विजेभ्यः क्रतुदक्षिणाश्च ।
यदुप्रवीरो हलभृत्प्रतीतः ॥ ९.३५.३५ ॥

那时,大心、自制、智慧,在药氏英雄中最为杰出的持犁者,欢喜地,大王啊,在圣洁的渡口把财物和祭祀酬金施予再生者(婆罗门)。

9.35.36

दोग्ध्रीश्च धेनूश्च सहस्रशो वै ।
सुवाससः काञ्चनबद्धशृङ्गीः।
हयांश्च नानाविधदेशजातान् ।
यानानि दासांश्च शुभान्द्विजेभ्यः ॥ ९.३५.३६ ॥

他成千上万地施予乳牛,披着华服,角上缠着金饰;又施予来自各地不同品种的马匹、车乘和优秀的仆役给再生者(婆罗门)。

9.35.37

रत्नानि मुक्तामणिविद्रुमं चा… ।
प्यग्र्यं सुवर्णं रजतं सुशुन्द्वम्।
अयस्मयं ताम्रमयं च भाण्डं ।
ददौ द्विजातिप्रवरेषु रामः ॥ ९.३५.३७ ॥

罗摩将宝石、珍珠、宝玉和珊瑚……以及上好的金、银、苏顺德缚(一种金属)和铁、铜器皿,赠予二生者中的最优秀者。

9.35.38

एवं स वित्तं प्रददौ महात्मा ।
सरस्वतीतीर्थगतेषु भूरि।
ययौ क्रमेणाप्रतिमप्रभाव… ।
स्ततः कुरुक्षेत्रमुदारवृत्तः ॥ ९.३५.३८ ॥

如此,这位大德将大量财富布施给前往萨拉斯瓦蒂圣渡口的人们。随后,这位威力无比、行为高尚的人依次前往俱卢之野。

9.35.39

सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे ।
फलं च द्विपदां श्रेष्ठ कर्म निर्वृत्तिमेव च ॥ ९.३५.३९ ॥

二足者中最殊胜的人啊!请告诉我萨罗斯瓦蒂圣渡口功德的由来、其果报以及业的成就。

9.35.40

यथाक्रमेण भगवंस्तीर्थानामनुपूर्वशः ।
ब्रूहि ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे ॥ ९.३५.४० ॥

尊者啊,请按次序一一讲述这些圣渡口。梵知者中最殊胜的人啊!我的好奇心确实很强烈。

9.35.41

तीर्थानां च फलं राजन्गुणोत्पत्तिं चं सर्वशः ।
मयोच्यमानं वै पुण्यं शृणु राजेन्द्र कृत्स्नशः ॥ ९.३५.४१ ॥

国王啊,请听这段功德之说,我现在将完整地讲述:圣渡口的果报及其功德的由来。诸王之主啊,请完整地听。

9.35.42

पूर्वं महाराज यदुप्रवीर ।
ऋत्विक्सुहृद्विप्रगणैश्च सार्धम्।
पुण्यं प्रभासं समुपाजगाम ।
यत्रोडुराढ्यक्ष्मणा क्षीयमाणः ॥ ९.३५.४२ ॥

大王啊,往昔雅度英雄与祭司、友人及婆罗门众人一同来到神圣的普拉巴萨,那里星辰之主正因肺痨而消瘦。

9.35.43

विमुक्तशापः पुनराप्य तेजः ।
सर्वं जगद्भासयते नरेन्द्र।
एतत्तु तीर्थप्रवरं पृथिव्यां ।
प्रभासनात्तस्य ततः प्रभासः ॥ ९.३५.४३ ॥

他摆脱诅咒,重获光辉,照亮了整个世界。人主啊,这是大地上最殊胜的圣渡口;因为他照亮了此地,故名普拉巴萨。