摩诃婆罗多 · 章 9.36
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.36.1
किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत ।
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत ॥ ९.३६.१ ॥
尊贵的月神苏摩为何被痨病所缠?月亮又为何沉没在那最殊胜的圣地之中?
9.36.2
कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी ।
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ॥ ९.३६.२ ॥
月亮在其中沐浴之后,又是如何重新恢复的?大仙啊,请把这一切详细地告诉我。
9.36.3
दक्षस्य तनयास्तात प्रादुरासन्विशाम्पते ।
स सप्तविंशतिं कन्या दक्ष सोमाय वै ददौ ॥ ९.३६.३ ॥
亲爱的,人类之主啊,达刹的女儿们降生了。达刹把这二十七位少女嫁给了月神苏摩。
9.36.4
नक्षत्रयोगनिरताः सङ्ख्यानार्थं च ताभवन् ।
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः ॥ ९.३६.४ ॥
她们专司月宿的交会,也用于计算;王中之王啊,她们是善行之月神苏摩的妻子。
9.36.5
तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमाऽभवन् ।
अत्यरिच्यत तासां तु रोहिणी रुपसम्पदा ॥ ९.३६.५ ॥
她们都有大大的眼睛,容貌无可比拟;但在她们之中,罗希妮以her美貌之富超过了其他人。
9.36.6
ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः ।
साऽस्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा ॥ ९.३६.६ ॥
于是那位尊贵的夜之主宰对她生出爱意;她成了他心中所爱,因此他始终只与她相伴。
9.36.7
ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः ।
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः ॥ ९.३६.७ ॥
于是,那些以星宿为名的、伟大者之女们全都愤怒,前往父亲生主那里,毫不倦怠地说道。
9.36.8
सोमो वसति नास्मासु रोहिणीं भजते सदा ।
ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर।
वत्स्यामो नियताहारास्तपश्चरणतत्पराः ॥ ९.३६.८ ॥
月神不与我们同住,他总是亲近罗希尼。主宰众生者啊,我们全体将聚集在您身边,节制饮食,专心修行苦行。
9.36.9
श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत् ।
समं वर्तस्व सर्वासु मा त्वाऽधर्मो महान्स्पृशेत् ॥ ९.३६.९ ॥
达刹听了她们的话,对月神说:'对待她们所有人要一视同仁,愿大不法不要沾染你。'
9.36.10
तास्तु सर्वाऽब्रवीद्दक्षो गच्छध्वं शशिनोन्तिकम् ।
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात् ॥ ९.३६.१० ॥
达刹对她们所有人说:'去到月神那里吧。依我的命令,月神将在你们所有人之间平等地居住。'
9.36.11
विसृष्टास्तास्तथा जग्मुः शीताशोर्भवनं शुभाः ।
तथाऽपि सोमो भगवान्पुनरेव महीपते।
रोहिण्या सार्धमवसत्प्रीयमाणो मुहुर्मुहुः ॥ ९.३६.११ ॥
这样被遣散后,那些吉祥的女儿们前往冷光月神的住所。然而,大地之主啊,尊贵的月神仍一次又一次地与罗希尼同住,心生欢喜。
9.36.12
ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन् ॥ ९.३६.१२ ॥
于是她们全体一起再次对父亲说道。
9.36.13
सोमो वसति नास्मासु नाकरोद्वचनं तव ।
तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके ॥ ९.३६.१३ ॥
月神不与我们同住,也不听从您的话。我们愿侍奉您,留在您的身边。
9.36.14
तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत् ।
समं वर्तस्व सर्वासु मा त्वां शप्स्ये विरोचन ॥ ९.३६.१४ ॥
达刹听了她们的话,对月神说:“对所有妻子一视同仁;光明者啊,愿我不要诅咒你。”
9.36.15
अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी ।
रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः ॥ ९.३६.१५ ॥
月神无视达刹的话,与罗诃尼同住;于是她们再次愤怒。
9.36.16
गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा ।
सोमो वसति नास्मासु तस्मान्नः शरणं भव ॥ ९.३६.१६ ॥
她们走到父亲面前,低头行礼,说道:“月神不与我们同住,所以请您做我们的依靠。”
9.36.17
रोहिण्यामेव भगवान्सदा वसति चन्द्रमाः ।
न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति ॥ ९.३६.१७ ॥
尊贵的月神总是只与罗诃尼同住;他不把您的话放在心上,也不愿对我们有所眷顾。
9.36.18
तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत् ।
तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते ॥ ९.३६.१८ ॥
“请保护我们所有人,使月神无法侵入我们。”听了这话,尊贵者愤怒了,地上之主啊。
9.36.19
ससर्ज रोषात्सोमाय स चोडुपतिमाविशत् ।
स यक्ष्मणाऽभिभूतात्माक्षीयताहरहः शशी ॥ ९.३६.१९ ॥
他因愤怒为苏摩造出消耗之病,此病侵入了众星之主的月亮。被消耗之病所制伏的沙希(月)日渐消瘦。
9.36.20
यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः ।
इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः ॥ ९.३६.२० ॥
大王啊,他也为从那消耗之病中解脱而努力;大王啊,以多种祭供举行祭祀,夜之造者(月)如此行了。
9.36.21
न चामुच्यत शापाद्वै क्षयं चैवाधिगच्छति ।
क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे ॥ ९.३६.२१ ॥
然而他并未从诅咒中解脱,反而走向衰亡。沙摩日渐消减之时,草药便不再生长。
9.36.22
निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः ।
ओषधीनां क्षये जाते प्राणिनामपि सङ्क्षयः ॥ ९.३६.२२ ॥
所有草木都失去了滋味与汁液,完全丧失了效力。草药衰亡之后,众生也随之毁灭。
9.36.23
कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे ।
ततो देवाः समागम्य सोममूचुर्महीपते ॥ ९.३६.२३ ॥
月亮衰减之时,一切众生都变得消瘦。于是,大地之主啊,诸神聚集起来对苏摩说。
9.36.24
किमिदं भवतो रूपमीदृशं सम्प्रकाशते ।
कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम् ॥ ९.३६.२४ ॥
你的形貌为何如此显现?请把使你生此大恐惧的全部原因告诉我们。
9.36.25
श्रुत्वा तु कारणं त्वत्तो विधास्यामस्ततो वयम् ।
एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः ॥ ९.३६.२५ ॥
“听了你的缘由,我们便依此行事。”如此说后,以兔为标记者回答了他们所有人。
9.36.26
शापस्य कारमं चैव यक्ष्माणं च तथाऽऽत्मनः ।
देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाऽब्रुवन् ॥ ९.३६.२६ ॥
诅咒的缘由,以及他自身的消耗之病——诸神听了他的话,便前往达刹那里说道。
9.36.27
प्रसीद भगवन्सोमे शापोऽयं विनिवर्त्यताम् ।
असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते ॥ ९.३६.२७ ॥
“尊者啊,请对月神施恩;愿此咒被收回。那月亮确实已经亏损,只见微小的残余。”
9.36.28
क्षयाच्चैवास्य देवेश प्रजाश्चैव गताः क्षयम् ।
वीरुदोषधयश्चैव बीजानि विविधानि च।
तथा नरा लोकगुरो प्रसादं कर्तुमर्हसि ॥ ९.३६.२८ ॥
“众神之主啊,因他的衰败,众生也已衰亡;藤蔓与草药,以及各种种子,还有人类。世界之师啊,您应当施恩。”
9.36.29
एवमुक्तस्ततो देवान्प्राह वाक्यं प्रजापतिः ।
नैतच्छक्यं मम वचो व्यावर्तयितुमञ्जसा ॥ ९.३६.२९ ॥
如此说后,众生之主便对诸神说道:“我这话不容易收回。”
9.36.30
हेतुना तु महाभागा निवर्तिष्यति केनचित् ।
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः ॥ ९.३६.३० ॥
“诸位大福之人啊,因某种缘由,此咒将被收回。愿月神永远对所有妻子一视同仁。”
9.36.31
सरस्वत्या वरे तीर्थे निमज्जञ्शशलक्षणः ।
पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम ॥ ९.३६.३१ ॥
在萨拉斯瓦蒂河的殊胜圣渡口沐浴后,带有兔形标记者将再次增长。诸神啊,我的这句话是真实的。
9.36.32
मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति ।
मासार्धं तु पुनर्वृद्विं सत्यमेतद्वचो मम ॥ ९.३६.३२ ॥
月亮将有半月持续亏损,再有半月重新增长。我的这句话是真实的。
9.36.33
समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम् ।
आराधयतु देवेशं ततः कान्तिमवाप्स्यति ॥ ९.३६.३३ ॥
前往西方大海,到萨拉斯瓦蒂河汇入大海之处,敬拜诸神之主;然后他将获得光辉。
9.36.34
सरस्वतीं ततः सोमः स जगामर्षिशासनात् ।
प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह ॥ ९.३६.३४ ॥
于是月亮遵照仙人的命令前往萨拉斯瓦蒂河;他来到萨拉斯瓦蒂河的第一圣渡口——普拉巴萨。
9.36.35
अमावास्यां महातेजास्तत्रामज्जन्महाद्युतिः ।
लोकान्प्रभासयामास शीतांशुत्वमवाप च ॥ ९.३६.३५ ॥
在新月之日,那位大光明、大辉煌者在那里沐浴;他照亮了诸世界,并获得了清凉光芒的状态。
9.36.36
देवास्तु सर्वे राजेन्द्र प्रसादं प्राप्य पुष्कलम् ।
सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन् ॥ ९.३६.३६ ॥
王中之王啊,诸神得到了丰厚的恩典,与月亮会合,来到了达刹面前。
9.36.37
ततः प्रजापतिः सर्वा विससर्जाथ देवताः ।
सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत् ॥ ९.३६.३७ ॥
于是生主遣散了诸神,并对尊贵的月神感到欢喜,再次说出了这些话。
9.36.38
मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन ।
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम ॥ ९.३६.३८ ॥
孩子,不要轻慢女人,也不要轻慢婆罗门。去吧,时时保持自制,务必遵从我的命令。
9.36.39
स विसृष्टो महाराज जगामाथ स्वमालयम् ।
प्रजाश्च मुदिता भूत्वा ईजिरे च यथा पुरा ॥ ९.३६.३९ ॥
大王啊,他被遣散后,便回到自己的住所;众生欢喜,又像从前一样祭祀。
9.36.40
एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः ।
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत् ॥ ९.३६.४० ॥
如此,我已将一切告诉你:月亮如何被诅咒,以及普拉帕萨如何成为众圣地中最伟大、最殊胜的圣地。
9.36.41
अमावास्यां महाराज नित्यशः शशलक्षणः ।
स्नात्वाह्याप्यायते श्रीमान्प्रभासे तीर्थउत्तमे ॥ ९.३६.४१ ॥
大王啊,在新月之日,具兔纹的月亮于普拉帕萨最殊胜的圣地中按时沐浴,便重新得到滋养,变得光辉。
9.36.42
अतश्चैतत्प्रजानन्ति प्रभासमिति भूमिप ।
प्रभां हि परमां लेभे तस्मिंश्चामज्ज्य चन्द्रमाः ॥ ९.३६.४२ ॥
因此,大地之主啊,人们称之为普拉帕萨,因为月亮在其中沐浴,获得了至高的光辉。
9.36.43
लोकान्प्रभासयामास पुपोष च वपुस्तथा ।
तत्र स्नात्वा हलीरामो दत्वा प्रीतोऽथ दक्षिणाः ॥ ९.३६.४३ ॥
他照亮了诸世界,也滋养了自己的身体。在那里沐浴之后,持犁者巴拉姆喜悦地布施了达克西那。
9.36.44
ततस्तु चमसोद्भेदमभीतस्त्वगमद्बली ।
चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत ॥ ९.३६.४४ ॥
于是这位强大者无所畏惧地迅速前往恰玛索德贝达。人们因此称此地为恰玛索德贝达。
9.36.45
तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः ।
उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा ॥ ९.३६.४५ ॥
在那里,持犁者施予了殊胜的布施。停留一夜之后,他便依照仪轨沐浴。
9.36.46
उदपानमथागच्छत्त्वरावान्केशवाग्रजः ।
आद्यं स्वस्त्ययनं चैव तत्रावाप्य महाबलः ॥ ९.३६.४६ ॥
于是克舍婆的兄长急忙来到井边。大力者在那里获得了原初的吉祥加持。
9.36.47
स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय ।
जानन्ति सिद्धा राजेन्द्र निगूढां तां सरस्वतीम् ॥ ९.३६.४७ ॥
因为草药与大地的滋润,哦,王中之王竟那木时阁,成就者们知道那隐没的萨罗室伐底河。