Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.38

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.38.1

ततो विनशनं राजन्नाजगाम हलायुधः ।
शूराऽऽभीरन्प्रति द्वेषाद्यत्र नष्टा सरस्वती।
तस्मात्तामृषयो नित्यं प्राहुर्विनशनेति च ॥ ९.३८.१ ॥

大王,那时持犁者大力(Halāyudha)来到毗那奢那(Vinaśana),因对首罗(Śūra)与阿毗罗(Ābhīra)怀有敌意,萨罗私婆底(Sarasvatī)在那里消失了。因此仙人们始终称她为毗那奢那。

9.38.2

तत्राप्युपस्पृश्य बलः सरस्वत्यां महाबलः ।
सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे ॥ ९.३८.२ ॥

大力的巴拉(Bala)在那里也以水净身,在萨罗私婆底河中沐浴后,便前往萨罗私婆底河上好的岸边的苏菩米迦(Subhūmika)。

9.38.3

तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः ।
क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः ॥ ९.३८.३ ॥

那里光彩照人的天女(apsaras)始终不知疲倦,面容纯净,以清净的嬉戏而游乐。

9.38.4

तत्र देवाः सगन्धर्वा मासिमासि जनेश्वर ।
अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम् ॥ ९.३८.४ ॥

人主啊,诸天与乾达婆每月都前往那座为婆罗门所常驻的圣地渡口。

9.38.5

तत्र नृत्यन्ति गन्धर्वास्तथैवाप्सरसां गणाः ।
समेत्य सहिता राजन्यथाप्राप्तं यथासुखम् ॥ ९.३८.५ ॥

那里乾达婆起舞,天女的群队也如此;大王啊,他们聚集在一起,随其所得、随其所乐而欢娱。

9.38.6

तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः ।
पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः ॥ ९.३८.६ ॥

那里诸天、祖先与藤蔓皆欢喜,圣洁的天界花朵一次又一次地撒落在它们之上。

9.38.7

आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा ।
सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे ॥ ९.३८.७ ॥

大王啊,那是那些天女的吉祥游乐之地,在萨拉斯瓦蒂河的优胜岸边,名为苏菩弥迦。

9.38.8

तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः ।
श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम् ॥ ९.३८.८ ॥

摩陀婆在那里沐浴,又将财物布施给婆罗门,然后听到了那神圣的歌声与乐器之音。

9.38.9

शय्याश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम् ।
गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः ॥ ९.३८.९ ॥

罗诃尼之子看见诸天、乾闼婆与罗刹的广大卧床,随即来到乾闼婆的圣渡处。

9.38.10

विश्वावसुमुखास्तत्र गन्धर्वाप्सरसां गणाः ।
नृत्तवादित्रगीतं च कुर्न्वति सुमनोरमम् ॥ ९.३८.१० ॥

在那里,以毗首伐苏为首的乾闼婆与天女群众正表演舞蹈、乐器与歌唱,极为悦耳动人。

9.38.11

तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु ।
अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा ॥ ९.३८.११ ॥

在那里,持犁者将各种财物布施给婆罗门:山羊与绵羊、牛、驴与骆驼,还有金子和银子。

9.38.12

भोजयित्वा द्विजान्कामैः सन्तर्प्य च महाधनैः ।
प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः ॥ ९.३८.१२ ॥

摩陀婆以所欲之食供养再生者,并以大宝使之满足,随后与婆罗门同行,受到赞颂而启程。

9.38.13

तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिन्दमः ।
गर्गस्रोतो महातीर्थमाजगामैककुण्डली ॥ ९.३८.१३ ॥

从乾闼婆渡口出发,大臂、降伏敌人、单耳环者来到名为迦尔伽斯罗多的大圣渡口。

9.38.14

तत्र गर्गेण वृद्धेन तपसा भावितात्मना ।
कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः ॥ ९.३८.१४ ॥

那里有苦行净化了心灵的年老的迦尔伽,他通晓时间之知与星辰运行的变化。

9.38.15

उत्पाता दारुणाश्चैक शुभाश्च जनमेजय ।
सरस्वत्याः शुभे तीर्थे विदिता वै महात्मना ॥ ९.३८.१५ ॥

啊,阇那美阇耶,那位大德在萨拉斯瓦蒂吉祥的渡口知晓了可怖与吉祥的种种征兆。

9.38.16

तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम् ॥ ९.३८.१६ ॥

以他的名字,那渡口被称为迦尔伽斯罗多。

9.38.17

तत्र गर्गं महाभागमृषयः सुव्रता नृप ।
उपासाञ्चक्रिरे नित्यं कालज्ञानं प्रति प्रभो ॥ ९.३८.१७ ॥

那里,大王啊,持守善誓的仙人们常常侍奉大福的迦尔伽,以求时间之知,主啊。

9.38.18

तत्र गत्वा महाराज बलः श्वेतानुलेपनः ।
विधिवद्वि धनं दत्त्वा मुनीनां भावितात्मनाम् ॥ ९.३८.१८ ॥

大王啊,白檀涂身的婆罗(大力)到了那里,依照仪轨把财物布施给心灵清净的诸牟尼。

9.38.19

उच्चावचांस्तथा भक्ष्यान्विप्रेभ्यो विप्रदाय सः ।
नीलवासास्तदाऽगच्छच्छङ्घतीर्थं महायशाः ॥ ९.३८.१९ ॥

于是这位大名远扬者身着蓝衣,将各色食物布施给婆罗门后,前往螺贝渡口。

9.38.20

तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम् ।
श्वेतपर्वतसङ्काशमृषिसङ्घैर्निषेवितम्।
सरस्वत्यास्तटे जातं नगं तालध्वजो बली ॥ ९.३८.२० ॥

力大的多罗旗者在那里看见了那座大螺山,它矗立在萨罗室伐底河岸,高耸如大须弥,形如白山,群仙众多来此栖居。

9.38.21

यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः ।
पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः ॥ ९.३८.२१ ॥

夜叉、持明、罗刹之威力无量者,毗舍遮之力量无量者,以及千千万万的悉陀,都在此处居住。

9.38.22

ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः ।
व्रतैश्च नियमैश्चैव कालेकाले स्म भुञ्जते ॥ ९.३८.२२ ॥

他们都舍弃饮食,依照誓愿与戒律,按时食用那株树的果实。

9.38.23

प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक् ।
अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ ॥ ९.३८.२३ ॥

人中之牛啊,他们各自依所得戒律分散游行,人们看不见他们。

9.38.24

एवं ख्यातो नरव्याघ्र लोकेऽस्मिन्स वनस्पतिः ।
तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम् ॥ ९.३८.२४ ॥

人中之虎啊,如此,那棵树在此世间闻名;那里有萨罗室伐底河的圣渡口,闻名于世。

9.38.25

तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे पयस्विनीः ।
ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च ॥ ९.३८.२५ ॥

在圣渡口,那位象群中的猛虎般的雅度英雄布施了产奶的母牛、铜铁器皿以及各色衣物。

9.38.26

पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः ।
पुण्यं नैसर्गिकं राजन्नाजगाम हलायुधः ॥ ९.३८.२६ ॥

大王啊,持犁的力军在礼敬再生者之后,也受到苦行者的尊敬,带着天然的功德而来。

9.38.27

तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः ।
आप्लुत्य सलिले चापि पूजयामास वै द्विजान् ॥ ९.३८.२७ ॥

到了那里,见到那些装束各异的圣者,力军入水沐浴,并礼敬了再生者。

9.38.28

तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान् ।
ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम् ॥ ९.३८.२८ ॥

同样,他把丰厚的生活用品布施给婆罗门后,大王啊,力军沿着萨拉斯瓦蒂河向南而行。

9.38.29

गत्वा चैवं महाबाहुर्नातिदूरे महायशाः ।
धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः ॥ ९.३८.२९ ॥

如此前行,这位臂力强大、名声显赫、心地正直的不退转者,不远便来到名为那伽檀婆那的圣渡口。

9.38.30

यत्र पन्नगराजस्य वासुकेः सन्निवेशनम् ।
महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम् ॥ ९.३८.३० ॥

那里是蛇王婆苏吉的居所,他光辉极盛,被众多蛇围绕,大王啊。

9.38.31

ऋषीणां हि सहस्राणि तत्र नित्यं चतुर्दश ।
यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम्।
सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि ॥ ९.३८.३१ ॥

那里常住一万四千位仙人。诸神在那里聚会,依礼将蛇中之最Vāsuki立为所有蛇王之王。

9.38.32

पन्नगेभ्यो भयं तत्र विद्यते न स्म पौरव ॥ ९.३८.३२ ॥

啊,补卢后裔,那里没有对蛇的恐惧。

9.38.33

तत्रापि विधिवद्दत्वा विप्रेभ्यो रत्नसञ्चयान् ।
प्रायात्प्राचीं दिशं राजंस्तत्र तीर्थान्यनेकशः ॥ ९.३८.३३ ॥

在那里,他依礼将成堆的宝物布施给婆罗门,大王,然后向东方前行,那里有许多圣渡口。

9.38.34

सहस्रशतसङ्ख्यानि प्रथितानि पदेपदे ।
आप्लुत्य तत्र तीर्थेषु यथोक्तं तत्र चर्षिभिः ॥ ९.३८.३४ ॥

那里每一步都有数十万处著名的圣渡口;在那里依照仙人所说,在这些圣渡口中沐浴,

9.38.35

दत्त्वा वसु द्विजाग्र्येभ्यो निर्जगाम महाबलः ।
तत्रस्थानृषिसङ्घांस्तानभिवाद्य हलायुधः ॥ ९.३८.३५ ॥

将财物布施给最优秀的婆罗门后,持犁的大力者(Balarāma)便离开了;他向在那里的仙人众致敬之后,

9.38.36

ततो रामोऽगमत्तीर्थमृषिभिः सेक्तिं महत् ।
यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती ॥ ९.३८.३६ ॥

于是罗摩(Balarāma)前往那处被仙人们经常光顾的大圣渡口,那里的萨拉斯瓦蒂河面向东方再次折返。

9.38.37

ऋषीणां नैमिषेयाणावमेक्षार्थं महात्मनाम् ।
निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली।
बभूव विस्मितो राजन्बलः श्वेतानुलेपनः ॥ ९.३८.३७ ॥

为了观看奈弥沙的大心圣者们,持犁者大力见那最殊胜的河流在那里折返,哦国王,感到惊讶,身上涂着白色香膏。

9.38.38

कस्मात्सरस्वती ब्रह्मन्निवृत्ता प्राङ्मुखीभवत् ।
व्याख्यातमेतदिच्छामि सर्वमध्वर्युसत्तम ॥ ९.३८.३८ ॥

婆罗门啊,萨罗私瓦蒂为何折返而面向东方?祭司中的最殊胜者啊,我愿听您详细解说这一切。

9.38.39

कस्मिंश्चित्कारणे तत्र विस्मितो यदुनन्दनः ।
निवृत्ता हेतुना केन कथमेव सरिद्वरा ॥ ९.३८.३९ ॥

因为某种原因,那里的雅度之子之喜感到惊讶吗?那最殊胜的河流因何缘故、如何折返?

9.38.40

पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः ।
वर्तमाने सुविपुले सत्रे द्वादशवार्षिके ॥ ९.३८.४० ॥

往昔,哦国王,在克里塔时代,奈弥沙的苦行者们正在举行一场极为宏大、持续十二年的祭祀法会。

9.38.41

ऋषयो बहवो राजंस्तत्सत्रमभिपेदिरे ।
उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि ॥ ९.३८.४१ ॥

哦国王,许多圣者投身于那场祭祀,依照仪轨在那场法会中居住,那些大福德者……

9.38.42

निवृत्ते नैमिषे ये वै सत्रे द्वादशवार्षिके ।
आजग्मुर्ऋषयस्तत्र बहवस्तीर्थकारणात् ॥ ९.३८.४२ ॥

当奈弥沙那场十二年的法会结束后,许多圣者为了朝圣而来到那里。

9.38.43

ऋषीणां बहुलत्वात्तु सरस्वत्या विशाम्पते ।
तीर्थानि नगरायन्ते कूले वै दक्षिणोत्तरे ॥ ९.३८.४३ ॥

人主啊,因为仙人众多,萨拉斯瓦蒂河南北两岸的圣渡口变得如同城市一般。

9.38.44

समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः ।
तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः ॥ ९.३८.४४ ॥

人中之虎啊,为了圣渡口之故,那些最优秀的再生者沿河岸一直到三界五处聚居。

9.38.45

जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम् ।
स्वाध्यायेनातिमहता बभूवुः पूरिता दिशः ॥ ९.३८.४५ ॥

那些心意纯净的仙人在那里献祭,他们极为盛大的诵读吠陀之声充满了所有方向。

9.38.46

अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम् ।
अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः ॥ ९.३८.४६ ॥

于是,那条最优越的河流因那些大德者的阿格尼霍特拉祭火而四面光辉闪耀。

9.38.47

वालखिल्या महाराज अश्मकुट्टाश्च तापसाः ।
दन्तोलूखलिनश्चान्ये सम्प्रक्षालास्तथा परे ॥ ९.३८.४७ ॥

大王啊,那里有瓦拉基利亚仙人、以石捣物的苦行者、以牙臼的人,以及其他人,还有完全洗浴的苦行者。

9.38.48

वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः ।
नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः ॥ ९.३८.४८ ॥

还有以风为食、以水为食、以树叶为食的苦行者,奉行各种戒律的人,以及睡在光地上的人。

9.38.49

आसन्वै मुनयस्तवत्र सरस्वत्याः समीपतः ।
शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः ॥ ९.३८.४९ ॥

那里,在娑罗私瓦蒂河边,住着诸仙人,他们装点着最好的河流,犹如诸天装点恒河。

9.38.50

शतशश्च समापेतुर्ऋषयः सत्रयाजिनः ।
तेऽवकाशं न ददृशुः सरस्वत्या महाव्रताः।
तेऽवकाशं च ददृशुः कुरुक्षेत्रं महाव्रताः ॥ ९.३८.५० ॥

数百位行萨特拉祭的仙人聚集而来;那些持大愿者在娑罗私瓦蒂河边找不到容身之处,便在俱卢之野找到了地方。

9.38.51

ततो यज्ञोपवीतैः स्वैस्तत्र कृत्वा सरस्वतीम् ।
जुहुवुश्चाग्निहोत्रांश्च चक्रुश्च विविधाः क्रियाः ॥ ९.३८.५१ ॥

于是他们以自己的圣线在那里造出娑罗私瓦蒂,供奉祭火,行阿耆尼霍特罗,并举行种种仪式。

9.38.52

ततस्तमृपिसङ्घातं निराशं चिन्तयान्वितम् ।
दर्शयामास राजेन्द्र तेषामर्थे सरस्वती ॥ ९.३८.५२ ॥

于是,哦王中之王,娑罗私瓦蒂为那群失望忧虑的仙人显现了自己。

9.38.53

ततः कुञ्जान्बहून्कृत्वा सन्निवृत्ता सरस्वती ।
ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय ॥ ९.३८.५३ ॥

于是娑罗私瓦蒂造出许多林丛后折返,哦,阇那美阇耶,出于对持修福德苦行诸仙的怜悯。

9.38.54

ततो निवृत्त्य राजेन्द्र तेषामर्थे सरस्वती ।
भूयः प्रतीच्यभिमुखी प्रसुस्राव सरिद्वरा ॥ ९.३८.५४ ॥

于是,哦王中之王,娑罗私瓦蒂为他们折返,这最好的河流再次面向西方流淌。

9.38.55

अमोघा गमनं कृत्वा तेषां भूयो जगाम ह ।
अत्यद्भुतं महच्चक्रे तदा राजन्महानदी ॥ ९.३८.५५ ॥

无误之河为他们完成了其流程,又继续前行。大王啊,那时这条大河做出了极其奇妙的伟大之事。

9.38.56

एवं स कुञ्जो राजन्वै नैमिषीय इति स्मृतः ।
कुरुश्रेष्ठ कुरुक्षेत्रे कुरुष्व महतीं क्रियाम् ॥ ९.३८.५६ ॥

因此,大王啊,那个池塘被称为奈弥沙。库鲁之最啊,请在俱卢之野举行盛大的祭祀。

9.38.57

तत्र कुञ्जान्बहून्दृष्ट्वा निवृत्तां च सरस्वतीम् ।
बभूव विस्मयस्तत्र रामस्याथ महात्मनः ॥ ९.३८.५७ ॥

在那里看到许多池塘和回流的萨拉斯瓦蒂,伟大的罗摩感到惊异。

9.38.58

उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः ।
दत्त्वा देयान्द्विजातिभ्यो भाण्डानि विविधानि च ॥ ९.३८.५८ ॥

在那里,依照规定漱口之后,雅度族的喜悦者把应当施予的物品和各种器皿布施给再生者。

9.38.59

भक्ष्यं भोज्यं कच विविधं ब्राह्मणेभ्यः प्रदाय च ।
ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः ॥ ९.३८.५९ ॥

大王啊,布施给婆罗门各种食物饮料之后,受到再生者尊敬的帕拉(即罗摩)便启程了。

9.38.60

सरस्वतीतीर्थवरं नानाद्विजगणायुतम् ।
बदरेङ्गुदश्यामाकाप्लुक्षाश्वत्थबिभीतकैः ॥ ९.३८.६० ॥

萨拉斯瓦蒂的最殊胜圣渡口,充满众多再生者群体,生长着枣树、因古迪、香麦草、无花果、菩提树和毗毗陀迦树。

9.38.61

कङ्कोलैश्च पलाश्चैश्च करीरैः पीलुभिस्तथा ।
सरस्वतीतीर्थरुहैस्तरुभिर्विविधैस्तथा ॥ ९.३८.६१ ॥

以堪柯罗、palāśa、卡里拉和皮卢树,以及生长在萨拉斯瓦蒂圣渡口的各种树木为装饰。

9.38.62

करुषकवरैश्चैव बिल्वैराम्रातकैस्तथा ।
अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम् ॥ ९.३८.६२ ॥

以上好的卡鲁沙卡树、毕尔瓦树与阿姆拉塔卡树,以及阿提穆克塔丛林和波利遮多树为装饰。

9.38.63

कदलीवनभूयिष्ठं दृष्टिकान्तं मनोहरम् ।
वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि ॥ ९.३८.६३ ॥

遍布芭蕉林,悦目迷人;那里还住着以风、水、果、叶为食、以牙齿为臼的苦行者。

9.38.64

तथाऽश्मकुट्टैर्वातेयैर्मुनिभिर्बहुभिर्वृतम् ।
स्वाध्यायघोषसङ्घुष्टं मृगयूथशताकुलम् ॥ ९.३८.६४ ॥

被许多以石捣食、以风为生的苦行贤者环绕,回响着吠陀诵读之声,并聚集着成百上千群鹿。

9.38.65

अहिंस्रैर्धर्मपरमैर्नृभिरत्यर्थरोवितम् ।
सप्तसारस्वतं तीर्थमाजगाम हलायुधः।
यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः ॥ ९.३८.६५ ॥

来到以非暴力、全心奉行法的人闻名而喧嚣的七萨拉斯瓦蒂圣渡口的,是执犁者哈拉尤陀(Balarāma);那里圆满的大仙Maṅkaṇaka曾修苦行。