摩诃婆罗多 · 章 9.39
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.39.1
सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः ।
कथं सिद्धः स भगवान्कश्चास्य नियमोऽभवत् ॥ ९.३९.१ ॥
七河仪式因何而起?仙人芒堪迦是谁?这位尊者如何成就,他的誓愿又是什么?
9.39.2
कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम ।
एतन्मे सर्वमाचक्ष्व यथातत्त्वं महामुने ॥ ९.३९.२ ॥
他出生于哪一族,学过什么?二生者中的最优者,大仙啊,请如实把这一切都告诉我。
9.39.3
सप्तनद्यः सरस्वत्या याभिर्व्याप्तमिदं जगत् ।
आहूता बलवद्भिर्हि तत्रतत्र सरस्वती ॥ ९.३९.३ ॥
萨拉斯瓦蒂的七条河流,此世界因之而遍布,被有力者在各处召请;萨拉斯瓦蒂亦然。
9.39.4
सुप्रभा काञ्चनाक्षी च विशाला च मनोरमा ।
सरस्वती चौघवती सुरेणुर्विमलोदका ॥ ९.३९.४ ॥
妙光、金眼、广大、可意、萨拉斯瓦蒂、奥伽瓦蒂、苏雷努,以及清水之河。
9.39.5
पितामहस्य महतो वर्तमाने महामखे ।
वितते यज्ञवाटे च संसिद्धेषु द्विजातिषु ॥ ९.३९.५ ॥
当伟大的祖父(梵天)的大祭正在举行,祭坛铺展开来,二生者皆已成就之时,
9.39.6
पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा ।
देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा ॥ ९.३९.६ ॥
伴随着吉祥日的清净颂声与吠陀的诵唱,诸天神也忙于那祭祀仪式之时——那时,
9.39.7
तत्र चैव महाराज दीक्षिते प्रपितामहे ।
यजतस्तस्य सत्रेण सर्वकामसमृद्विना ॥ ९.३९.७ ॥
大王啊,那里,受戒的曾祖父正在举行那场圆满一切愿望的长期祭祀(萨特拉),
9.39.8
मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा ।
उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्रतत्र ह ॥ ९.३९.८ ॥
王中之王啊,那里的婆罗门精通法与财富,心中所想之物便自行来到他们面前,处处皆是。
9.39.9
जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः ।
वादित्राणि च दिव्यानि वादयामासुरञ्जसा ॥ ९.३९.९ ॥
那里,乾闼婆歌唱,阿普萨拉斯群舞,他们轻松地演奏着天界的乐器。
9.39.10
तस्य यज्ञस्य सम्पत्त्या तुतुषुर्देवतागणाः ।
विस्मयं परमं जग्मुः किमु मानुषयोनयः ॥ ९.३९.१० ॥
诸神之众因那祭祀的盛况而欢喜,极其惊叹;何况那些生于人间的人呢。
9.39.11
वर्तमाने यथा यज्ञे पुष्करस्थे पितामहे ।
अब्रुवन्नृषयो राजन्नायं यज्ञो महागुणः ॥ ९.३९.११ ॥
大王啊,当那位祖父在普什卡拉举行祭祀时,仙人们说:“此祭祀并无大功德。”
9.39.12
न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती ।
तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम् ॥ ९.३९.१२ ॥
因为河流中最好的萨拉斯瓦蒂河在此不可见。世尊听了之后欢喜,便忆念萨拉斯瓦蒂。
9.39.13
पितामहेन यजता आहूता पुष्करेषु वै ।
सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती ॥ ९.३९.१३ ॥
君王之主啊,祖父在普什卡拉举行祭祀时,于此以苏普拉巴之名召请了萨拉斯瓦蒂。
9.39.14
तां दृष्ट्वा मुनयस्तुष्टास्त्वरायुक्तां सरस्वतीम् ।
पितामहं मानयन्तीं क्रतुं ते बहुमेनिरे ॥ ९.३९.१४ ॥
众仙人见萨拉斯瓦蒂急速到来,都十分欢喜;她尊敬祖父与祭祀,众人便极其敬重她。
9.39.15
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती ।
पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम् ॥ ९.३९.१५ ॥
如此,这条最殊胜的河流萨拉斯瓦蒂为了祖父,也为了使智者欢喜,在普什卡拉显现。
9.39.16
नैमिषे मुनयो राजन्समागम्य समासते ।
तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर ॥ ९.३९.१६ ॥
大王啊,众仙人在奈弥沙聚会而坐;那里关于吠陀有许多奇妙的谈论,人主啊。
9.39.17
यत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः ।
ते समागम्य मुनयः सस्मारुर्वै सरस्वतीम् ॥ ९.३९.१७ ॥
那些精通多种诵读与吠陀的仙人聚集在一起,忆念了萨拉斯瓦蒂。
9.39.18
सा तु ध्याता महाराज मुनिभिः सत्रयाजिभिः ।
समागतानां राजेन्द्र साहाय्यार्थं महात्मनाम्।
आजगाम महाभागा तत्र पुण्या सरस्वती ॥ ९.३९.१८ ॥
大王啊,那位大福的圣洁萨拉斯瓦蒂,被行长期祭祀的仙人们冥想,为帮助聚集的大德们,便来到了那里,君王之主啊。
9.39.19
नैमिषे काञ्चनाक्षी तु मुनीनां सत्रायाजिनाम् ।
आगता सरितां श्रेष्ठा तत्र भारत पूजित ॥ ९.३९.१९ ॥
在那密沙林中,金眼的河流之最,来到了行长期祭祀的仙人们之中;婆罗多啊,她在那里受到了礼敬。
9.39.20
गयस्य यजमानस्य गयेष्वेव महाक्रतुम् ।
आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती ॥ ९.३९.२० ॥
为施祭者伽耶的大祭祀,就在伽耶之地,河流之最的萨罗室伐底被召请;在伽耶的祭祀中,萨罗室伐底被召来。
9.39.21
गयस्य यजमानस्य गयेष्वेव महाक्रतुम् ।
विशालां तु गयस्याहुर्ऋषयः संशितव्रता ॥ ९.३९.२१ ॥
为施祭者伽耶的大祭祀,就在伽耶之地,持守坚定誓愿的仙人们称伽耶的毗舍罗为之。
9.39.22
सरित्सा हिमवत्पार्श्वात्प्रस्रुता शीघ्रगामिनी ।
औद्दालकेस्तथा यज्ञे यजतस्तस्य भारत ॥ ९.३९.२२ ॥
那条疾行的河流从喜马拉雅山侧奔涌而出;婆罗多啊,同样地,在乌达拉迦的祭祀中,在那位施祭者的祭祀中。
9.39.23
समेते सर्वतः स्फीते मुनीनां मण्डले तदा ।
उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः ॥ ९.३९.२३ ॥
那时,众仙人的大会从四面八方聚集,在憍萨罗北部神圣之地,大王啊,于那位大德的祭祀中。
9.39.24
औद्दालकेन यजता पूर्वं ध्याता सरस्वती ।
आजगाम सरिच्छेष्ठा तं देशं मुनिकारणात् ॥ ९.३९.२४ ॥
施祭者乌达拉迦先前曾专注冥想萨罗室伐底,河流之最为了仙人们而来到那片土地。
9.39.25
पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः ।
मनोहरेति विख्याता सा हि तैर्मनसा वृता ॥ ९.३९.२५ ॥
身着树皮与鹿皮的众多仙人崇敬她,因她被他们在心中选定,故名“摩诺诃罗”。
9.39.26
सुरणुऋषभे द्वीपे पुण्ये राजर्षिसेविते ।
कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः।
आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती ॥ ९.३९.२६ ॥
在这片圣洁、为王仙所常至的岛域,在行祭的大德库卢的俱卢之野,最有福的河流之首萨罗室伐底到来。
9.39.27
ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना ।
समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती ॥ ९.३९.२७ ॥
啊,诸王之王!大德婆私吒在俱卢之野也召请了奥伽婆蒂;具神圣之水的萨罗室伐底也被召请。
9.39.28
दक्षेण यजता चापि गङ्गाद्वारे सरस्वती ।
सुवेणुरिति विख्याता प्रस्रुता शीघ्रगामिनी ॥ ९.३९.२८ ॥
行祭者达刹在恒河门也召请了萨罗室伐底;她以“苏维努”之名著称,迅疾奔流而出。
9.39.29
विमलोदा भगवती ब्रह्मणा यजता पुनः ।
समाहूता ययौ तत्र पुण्ये हैमवते गिरौ ॥ ९.३९.२९ ॥
毗摩罗陀,尊贵的圣河,被行祭的梵天再次召请,便前往那神圣的喜马拉雅山。
9.39.30
एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः ।
सप्तसारस्वतं तीर्थं ततस्तु प्रथितं भुवि ॥ ९.३९.३० ॥
于是她们合为一体,在那圣渡汇聚;从此,那圣渡在大地上以“七萨罗室伐多”之名闻名。
9.39.31
इति सप्तसरस्वत्यो नामतः परिकीर्तिताः ।
सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम् ॥ ९.३९.३१ ॥
如此,七条萨拉斯瓦蒂河已按名称被提及,而名为七萨拉斯瓦塔的圣渡口也被记为神圣。
9.39.32
शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः ।
आपगामवगाढस्य राजन्प्रक्रीडितं महत् ॥ ९.३९.३२ ॥
大王,请听那自幼守梵行的曼坎纳迦在河中沐浴时的大神迹。
9.39.33
दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत ।
स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम्। ॥ ९.३९.३३ ॥
婆罗多之子啊,他偶然在那里看见一位在水中沐浴的女子,眼睛美丽,以四方为衣,无可指摘。
9.39.34
सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि ।
तद्रेतः स तु जग्राह कलशे वै महातपाः। ॥ ९.३९.३४ ॥
大王,他的精液落入萨拉斯瓦蒂河的水中;那位大苦行者便用一只瓶子接住了那精液。
9.39.35
ऋषिः परमधर्मात्मा तदा पुरुषसत्तम ।
सप्तधा प्रविभागं तु कलशस्थं जगाम ह। ॥ ९.३९.३५ ॥
人中最上者啊,那时这位具最高德行的仙人将瓶中之物分为七份。
9.39.36
तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः ।
वायुवेगो वायुबलो वायुहा वायुमण्डलः। ॥ ९.३९.३६ ॥
在那里生出了七位仙人,也生出了风神众的部众:风速、风力、杀风者、风轮。
9.39.37
वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान् ।
महर्षेश्चरितं यादृक् त्रिषु लोकेषु विश्रुतम् ॥ ९.३९.३७ ॥
风焰、风种与有力的风轮——大仙人的事迹在三界中广为人知。
9.39.38
पुरा मङ्कणकः सिद्भः कुशाग्रेणेति नः श्रुतम् ।
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ॥ ९.३९.३८ ॥
据我们所闻,往昔悉陀曼干迦的手被吉祥草的尖端划伤,大王;他手中流出了植物汁液。
9.39.39
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥ ९.३९.३९ ॥
他见到那植物汁液,充满喜悦,便起舞了。
9.39.40
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् ।
प्रनृत्तमुभयं वीर सेजसा तस्य मोहितम् ॥ ९.३९.४० ॥
当他起舞时,英雄啊,一切静止与运动之物也随之起舞,都被他的威力所迷惑。
9.39.41
ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः ।
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप।
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ॥ ९.३९.४१ ॥
大王啊,梵天等诸神与以苦行为财富的仙人们,为这位仙人请求大天:人主啊,天神啊,请使他不要起舞。
9.39.42
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह ।
सुगणां हितकामार्थं महादेवोऽभ्यभाषत ॥ ९.३९.४२ ॥
于是天神见仙人充满极大的喜悦,出于祝愿其福祉之心,大天便对他的诸随从说话。
9.39.43
भोभो ब्राह्मण धर्मज्ञ किमर्थं नृत्यते भवान् ।
हर्षस्थानं किमर्थं च तवेदमधिकं मुने।
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ॥ ९.३९.४३ ॥
婆罗门啊,通晓法者,你为何起舞?圣人啊,你这过度的喜悦因何而起?二生者中的最优者啊,你是立于法道的苦行者。
9.39.44
ऋषिरुवाच ।
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम्।
यं दृष्ट्वा सम्प्रनृत्तो वै हर्षेण महता विभो ॥ ९.३९.४४ ॥
圣人说:婆罗门啊,你没有看见从我手中流出的如糖般的汁液吗?伟大者啊,见到它,我因极大的喜悦而起舞。
9.39.45
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् ।
अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम् ॥ ९.३९.४५ ॥
天神微笑着对被欲望迷惑的圣人说:婆罗门啊,我并不惊讶;请看着我。
9.39.46
एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता ।
अङ्गुल्यग्रेण राजेन्द्रस्वाङ्गुष्ठस्ताडितोऽभवत् ॥ ९.३९.४६ ॥
智慧的摩诃提婆对最优秀的圣人说了这番话,王中之王啊,他用指尖弹击了自己的拇指。
9.39.47
ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम् ॥ ९.३९.४७ ॥
然后,王啊,从伤口中流出了如雪般的灰烬。
9.39.48
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ।
मेने देवं महादेवमिदं चोवाच विस्मितः ॥ ९.३९.४८ ॥
见此情景,王啊,羞愧的圣人跪倒在他脚下;认出神摩诃提婆,惊讶之中他说出了这些话。
9.39.49
नान्यं देवादहं मन्ये रुद्रात्परतरं महत् ।
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ॥ ९.३९.४९ ॥
我认为没有比楼陀罗更伟大的神。你是包括天神与阿修罗在内的世界的归宿,持三叉戟者啊。
9.39.50
त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः ।
त्वामेव सर्वं विशति पुनरेव युगक्षये ॥ ९.३९.५० ॥
这整个宇宙,此处的智者说,是由你所创造;在劫末,一切又重新进入你之中。
9.39.51
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ।
त्वयि सर्वे स्म दृश्यन्ते भावा ये जगति स्थिताः ॥ ९.३९.५१ ॥
即便诸神也无法完全了知你,何况是我。世间存在的一切事物,都显现于你之中。
9.39.52
त्वामुपासन्त वरदं देवा ब्रह्मादयोऽनघ ।
सर्वस्त्वमसि देवानां कर्ता कारयिता च ह ॥ ९.३९.५२ ॥
无罪者啊,以梵天为首的诸神都供奉你这位赐恩者。你是诸神的创造者,也是使他们行动的主宰。
9.39.53
त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ।
त्वं प्रभुः परमैश्वर्यादधिकं भासि शङ्करः ॥ ९.३९.५३ ॥
凭你的恩典,诸神在此欢喜,无所畏惧。你是主宰,光辉超越至高的威权,湿婆啊。
9.39.54
त्वयि ब्रह्मा च विष्णुश्च लोकान्सन्धाय तिष्ठतः ।
त्वन्मूलं च जगत्सर्वं भूतस्थावरजङ्गमम् ॥ ९.३९.५४ ॥
梵天与毗湿奴在你之中,维系诸界而安立;整个世界,包括不动与能动的众生,都以你为根本。
9.39.55
स्वर्गं च परमं स्थानं नृणामभ्युदयार्थिनाम् ।
ददासि च प्रसन्नस्त्वं भक्तानां परमेश्वर ॥ ९.३९.५५ ॥
至高之主啊,你欣然将天界与至上之处赐予追求兴盛的虔信者。
9.39.56
अनावृत्तिपदं नॄणां नित्यं निश्रेयसार्थिनाम् ।
ददासि कर्मिणां कर्म भावयन्ध्यानयोगतः ॥ ९.३९.५६ ॥
对追求至善的人,你永远赐予不再轮回的境地;对行动的人,你借禅定瑜伽而观想,赐予他们业的果报。
9.39.57
न वृथाऽस्ति महादेव प्रसादस्ते महेश्वर ।
यस्मात्त्वयोपकरणात्करोमि कमलेक्षण ॥ ९.३९.५७ ॥
大天啊,大自在啊,你的恩典并非徒然;莲目啊,正是凭借你所赐的助缘,我才行动。
9.39.58
प्रपद्ये शरणं शंभुं सर्वदा सर्वतः स्थितम् ।
कर्मणा मनसा वाचा तमेवाभिभजाम्यहम् ॥ ९.३९.५८ ॥
我皈依常住一切处的湿婆(商普);以身业、意念与语言,我唯独礼拜他。
9.39.59
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत् ॥ ९.३९.५९ ॥
如此赞颂大天之后,那位仙人恭敬地俯身礼拜。
9.39.60
यदिदं चापलं देव कृतमेतत्स्मयादिकम् ।
ततः प्रसादयमि त्वां तपो मे न क्षरेदिति ॥ ९.३९.६० ॥
神啊,我所犯的这些轻率、傲慢等过失,我如今向你请求宽恕,愿我的苦行不致衰退。
9.39.61
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत् ।
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ॥ ९.३९.६१ ॥
于是神心中欢喜,又对那位仙人说:婆罗门啊,凭我的恩典,愿你的苦行增长千倍。
9.39.62
आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा ।
सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरः ॥ ९.३९.६२ ॥
我将常住此地,与你同在这七河萨罗私伐底圣地;凡在此处敬拜我的人……
9.39.63
न तस्य दुर्लभं किञ्चिद्धवितेह परत्र वा ।
सारस्वतं च ते लोकं गमिष्यन्ति न संशयः ॥ ९.३९.६३ ॥
对他而言,无论在此世还是来世,都不会有难以得到的事物;他们无疑将往你的萨罗私伐底世界。
9.39.64
एतन्मङ्कणकस्यापि चरितं भूरितेजसः ।
स हि पुत्रः सुकन्यायामुत्पन्नो मातरिश्वना ॥ ९.३९.६४ ॥
这也是光辉伟大的曼卡纳卡的事迹;他是苏干雅与摩多利输婆所生之子。