Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.4.1

एवमुक्तस्ततो राजा गौतमेन तपस्विना ।
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशाम्पते ॥ ९.४.१ ॥

苦行者乔达摩如此说后,国王长长地、灼热地叹息,沉默不语。众民之主啊!

9.4.2

ततो मुहूर्तं स ध्यात्वा तव पुत्रो महामनाः ।
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः ॥ ९.४.२ ॥

随后,你那心胸宽广、能灼烧敌人的儿子思量片刻,对沙罗昙婆之子克利巴说了这些话。

9.4.3

यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् ।
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता ॥ ९.४.३ ॥

朋友应当说的话,你都已说给我听了。你舍弃性命、奋勇作战,已尽了一切。

9.4.4

गाहमानमनीकानि युध्यमानं महारथैः ।
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् ॥ ९.४.४ ॥

你冲入军阵,与大车战士和光辉灿烂的般度子孙作战,世人都曾见到你。

9.4.5

सुहृदा यदिदं वाक्यं भवता श्रावितो ह्यहम् ।
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् ॥ ९.४.५ ॥

你以朋友身份对我说的这些话,并不能让我高兴,就像药对将死之人并不悦意一样。

9.4.6

हेतुकारणसंयुक्तं हितं वचनमुत्तमम् ।
उच्यमानं महाबाहो न मे विप्राग्र्य रोचने ॥ ९.४.६ ॥

大臂者,婆罗门中最优秀的人啊!即使有人说出了有理有据、有益而上乘的话,我也不喜欢听。

9.4.7

राज्याद्विनिकृतोऽस्माभिःकथं सोस्मासु विश्वसेत् ॥ ९.४.७ ॥

我们夺去王国的人,怎能信任我们?

9.4.8

अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः ।
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु ॥ ९.४.८ ॥

在掷骰子的博戏中,我们战胜了那位大富的国王。他怎会再相信我的话?

9.4.9

तथा दूत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः ।
प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम्।
स च मे वचनं ब्रह्मन्कथमेवाभिमन्यते ॥ ९.४.९ ॥

同样,黑天作为使者而来,专心于般度子的利益。希利希凯莎被欺骗,那件事未曾审慎考虑。婆罗门啊,他怎会听从我的话?

9.4.10

विललाप च यत्कृष्णा सभामध्ये समेयुषी ।
न तन्मर्षयते कृष्णो न राज्यहरणं तथा ॥ ९.४.१० ॥

黑天不能忍受黑天女在大会中央所发出的哀号,也不能忍受王国被夺。

9.4.11

एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ ।
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो ॥ ९.४.११ ॥

两位黑天同一生命之气,彼此依托。主啊,往昔所闻者,今日我亲眼所见。

9.4.12

स्वस्रीयं निहतं दृष्ट्वा दुःखं स्वपिति केशवः ।
कृतागसो व यं तस्य हितं मे स कथं चरेत् ॥ ९.४.१२ ॥

见到姐姐之子被杀,科沙瓦悲伤入睡。对于犯过错的人,他怎会为我的利益行事?

9.4.13

अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः ।
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः ॥ ९.४.१३ ॥

阿周那因阿毗曼尤的毁灭而得不到安宁。即便被请求,他又怎能为我的利益而努力呢?

9.4.14

मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः ।
प्रतिज्ञातं च तेनोग्रं भज्येतापि न सन्नमेत् ॥ ९.४.१४ ॥

中间的般度之子毗摩森那勇猛而力大无穷。他所发的可怕誓言或许会被打破,却不会弯曲。

9.4.15

उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ ।
कृतवैरावुभौ वीरौ यमावपि यमोपमौ ॥ ९.४.१५ ॥

二人都佩着剑,却都没有披甲。两位英雄都怀着仇恨;二人都如同阎摩。

9.4.16

धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह ।
तौ कथं मद्विते यत्नं कुर्यातां द्विजसत्तम ॥ ९.४.१६ ॥

德里斯塔德永那与尸甘丁与我结下仇怨,他们怎会为我的利益而努力?啊,再生者中最优秀的人。

9.4.17

दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला ।
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः ॥ ९.४.१७ ॥

那位身着单衣、正值经期的黑公主,被难近在大众的注视下,于集会厅中央拖拽折磨。

9.4.18

तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः ।
न निवारयितुं शक्याः सङ्ग्रामात्ते परन्तपाः ॥ ९.४.१८ ॥

般度之子至今仍记得她那赤身受辱、悲惨的模样。啊,焚灭敌人者,他们不可能被阻止投入战斗。

9.4.19

यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता ।
उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये।
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातनम् ॥ ९.४.१९ ॥

德罗波蒂因我的毁灭而痛苦悲伤,为丈夫们的目的成就而修行严酷的苦行,直到仇恨得到报应,她始终睡在裸露的地上。

9.4.20

निक्षिप्य मानं दर्पं च वासुदेवसहोदरा ।
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा ॥ ९.४.२० ॥

舍弃荣誉与骄傲,婆苏提婆之妹如侍女一般,始终侍奉克里希那(德罗波蒂)。

9.4.21

इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन ।
अभिमन्योर्विनाशेन स सन्धेयः कथं मया ॥ ९.४.२१ ॥

如此一切都炽烈燃烧,丝毫不能平息。因阿毗曼尤之死而生的那份悲痛,我该如何抚平?

9.4.22

कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम् ।
पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम् ॥ ९.४.२२ ॥

作为国王,我如何享用这被大海环绕为衣的大地?依靠般度子孙的恩惠,我又如何享用王国?

9.4.23

उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा ।
युधिष्ठिरं कथं पञ्चादनुयास्यामि दासवत् ॥ ९.४.२३ ॥

我如太阳般高高照耀于众王之上,怎能像奴隶一样跟随在坚战身后?

9.4.24

कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् ।
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ॥ ९.४.२४ ॥

我自己享尽欢乐、慷慨布施之后,怎能与穷人一道,过着卑微的生活?

9.4.25

नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया ।
न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन। ॥ ९.४.२५ ॥

你所说的温和而有益的话,我并不责怪;但我认为此时无论如何都不宜议和。

9.4.26

सुनीतमनुपश्यामि सुयुद्धेन परन्तप ॥ ९.४.२६ ॥

啊,焚烧敌人者,我认为唯有通过一场良好的战斗,这才是正确的策略。

9.4.27

नायं क्लीबायितुं कालः संयोद्वुं काल एव नः ॥ ९.४.२७ ॥

此时不是怯懦的时候;对我们而言,正是战斗的时候。

9.4.28

इष्टं मे बहुभिर्जज्ञैर्दत्ता विप्रेषु दक्षिणाः ।
प्राप्ताः कामाः श्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम् ॥ ९.४.२८ ॥

我举行了许多祭祀,向婆罗门布施财物,实现了我的心愿,聆听了吠陀,并且将敌人踩在我的头顶之上。

9.4.29

भृत्या मे सुभृतास्तात दीनश्चाभ्युद्वृतो जनः ।
नोत्साहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम् ॥ ९.४.२९ ॥

亲爱的,我的臣仆都得到了很好的供养,连卑微的百姓也已兴起;婆罗门中最优秀的人啊,今日我无心向般度之子说这样的话。

9.4.30

जितानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् ।
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया ॥ ९.४.३० ॥

我征服了敌国,守护了自己的国家,享受了种种欢乐,并遵行了三种人生目标。

9.4.31

पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः ।
न ध्रुवं सुखमस्तीह कुतो राष्ट्रं कुतो यशः।
इह कीर्तिर्विचेतव्या सा च युद्वेन नान्यथा ॥ ९.४.३१ ॥

摆脱对祖先的债务,并履行刹帝利的本分:就这两方面而言,此世都没有确定的幸福。王国在哪里,名声在哪里?在此应当追求荣誉,而它只能通过战斗获得,别无他途。

9.4.32

वृथा च यत्क्षत्रियस्य निधनं तद्विगर्हितम् ।
अधर्मः सुमहानेष यच्छय्यामरणं गृहे ॥ ९.४.३२ ॥

刹帝利之死若徒然无益,便是可耻的;在家中卧床而死,则是极大的非法。

9.4.33

अरण्ये यो विमुच्येत सङ्ग्रामे वा तनुं नृपः ।
क्रतूनाहृत्य महतो महिमानं स गच्छति ॥ ९.४.३३ ॥

在森林中或战场上舍弃身体的国王,便能获得那伟大的威光,仿佛他已举行了大祭祀一般。

9.4.34

कृपणं विलपन्नार्तो जरयाऽभिपरिप्लुतः ।
म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः ॥ ९.४.३४ ॥

在哭泣的亲属之中,悲苦哀号、痛苦、被衰老所压倒而死的人,不是真正的男子。

9.4.35

त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम् ।
अपीदानीं सुयुद्धेन गच्छेयं यत्सलोकताम् ॥ ९.४.३५ ॥

舍弃种种享乐,愿我如今也能借着一场高尚的战斗,抵达那些已得至高归宿者的世界。

9.4.36

शूराणामार्यवृत्तानां सङ्क्रामेष्वनिवर्तिनाम् ।
धीमतां सत्यसन्धानां सर्वेषां क्रतुयाजिनाम्।
शस्त्रावभृथपूतानां ध्रुवो वासस्त्रिविष्टपे ॥ ९.४.३६ ॥

凡英勇、行止高尚、临阵不退、有智慧、守誓言、行祭祀,并经兵器阿婆陀仪式洗净的人,在天界必有确定的居所。

9.4.37

मुदा नूनं प्रपश्यन्ति युद्वे ह्यप्सरसां गणाः ॥ ९.४.३७ ॥

在战斗中,阿普萨拉斯的群众必定欢喜地注视着他们。

9.4.38

पश्यन्ति नूनं पितरः पूजितान्सुरसंसदि ।
अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे ॥ ९.४.३८ ॥

在诸神集会中受尊敬的祖先必定看见他们被阿普萨拉斯环绕,在天界欢喜。

9.4.39

पन्थानममरैर्यान्तं शूरैश्चैवानिवर्तिभिः ।
अपि तत्सङ्गतं मार्गं वयमध्यारुहेमहि ॥ ९.४.३९ ॥

愿我们也登上那条被不死者和从不退缩的英雄们走过的道路。

9.4.40

पितामहेन वृद्वेन तथाऽचार्येण धीमता ।
जयद्रथेन कर्णेन तथा दुःशासनेन च ॥ ९.४.४० ॥

被年老的祖父、睿智的师尊、胜车、迦尔纳以及难降也所杀。

9.4.41

घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः ।
शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः ॥ ९.४.४१ ॥

为我而奋战、在此战中被杀的英雄国王们,身上沾满鲜血,被箭所伤,躺卧在大地上。

9.4.42

उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः ।
त्यक्त्वा प्राणान्यथान्यायमिन्द्रसद्मसु धिष्ठितः ॥ ९.४.४२ ॥

精通上等兵器、依规行祭的英雄们,依法舍弃生命,安居于因陀罗的宫殿之中。

9.4.43

तैः स्वयं रचितो मार्गो दुर्गमो हि पुनर्भवेत् ।
सम्पतद्भिर्महावेगैरितो यास्यामि सद्गतिम् ॥ ९.४.४३ ॥

他们自己开辟的道路,会因那些以极大速度奔来的人而再度变得难以通行。我将从此处前往善趣。

9.4.44

ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन् ।
ऋणं तत्प्रतियुञ्जानो न राज्ये मन आदधे ॥ ९.४.४४ ॥

追念那些为我而战死的英雄所作的功绩,偿还那份恩情,我没有把心思放在王国上。

9.4.45

पातयित्वा वयस्यांश्च भ्रातृनथ पितामहान् ।
जीवितं यदि रक्षेयं लोको मां गर्हयेद्व्रुवम् ॥ ९.४.४५ ॥

若我使朋友、兄弟与祖父们陨落,却还保全了自己的性命,世人必定会责备我。

9.4.46

कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः ।
सखिभिश्च विशेषेण प्रणिपत्य च पाण्डवम् ॥ ९.४.४६ ॥

我失去亲族,尤其失去朋友,又向般度之子俯首称臣,那王国对我又是怎样的呢?

9.4.47

सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम् ।
सुयुद्धेन हतः स्वर्गं प्राप्सामि न तदन्यथा ॥ ९.४.४७ ॥

我如此行事,使世间蒙羞,然后在善战中阵亡,便能得到天界;别无他途。

9.4.48

एं दुर्योधनेनोक्ते सर्वे सम्पूज्य तद्वचः ।
साधुसाध्विति राजानं क्षत्रियाः सम्बभाषिरे ॥ ९.४.४८ ॥

难敌如此说罢,众刹帝利尊重他的话,齐声说:“善哉!善哉!”并向国王致辞。

9.4.49

पराजयमशोचन्तः कृतचित्ताश्च विक्रमे ।
सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन् ॥ ९.४.४९ ॥

不为失败而悲伤,心志坚定于勇武,众人皆决意战斗,意气高昂。

9.4.50

ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः ।
ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः ॥ ९.४.५० ॥

随后,众俱卢族人喜好战斗,安抚了马匹,行进不到两由旬便停下了。

9.4.51

आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे ।
अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च तेजलम् ॥ ९.४.५१ ॥

在喜马拉雅山坡上,于一处洁净吉祥、色如珊瑚的开阔之地,他们来到名为阿runā的萨罗室伐底河,饮其水并沐浴。

9.4.52

तव पुत्रकृतोत्साहाः पर्यवर्तन्त ते ततः ।
पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा।
सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः ॥ ९.४.५२ ॥

受你儿子的鼓舞,他们转身折返。随后,大王啊,众刹帝利彼此扶持,在时运的驱使下,全部返回。