Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.41

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.41.1

आर्ष्टिषेणस्तथा ब्रह्मन्विपुलं तप्तवांस्तपः ।
सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा ॥ ९.४१.१ ॥

婆罗门啊,阿利什提舍那同样进行了广大的苦行。那时,信度洲又是如何获得婆罗门身份的呢?

9.41.2

देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तम ।
तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे ॥ ९.४१.२ ॥

婆罗门啊,提婆毗与毗首密多罗是如何成为婆罗门的?善人中最优秀者,尊贵的大师,请告诉我,我极为好奇。

9.41.3

पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः ।
वसन्गुरुकुले नित्यं नित्यमध्ययने रतः ॥ ९.४१.३ ॥

国王啊,往昔圆满时代,二生者中最优秀的阿利什提舍那住在师长家中,始终专心于学习。

9.41.4

तस्य राजन्गुरुकुले वसतो नित्यमेव च ।
समाप्तिं नागमद्विद्या नापि वेदा विशाम्पते ॥ ९.४१.४ ॥

国王啊,尽管他始终居住在师长家中,他的学业却未能圆满,吠陀也未能完整地降临于他,人民之主啊。

9.41.5

स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः ।
ततो वै तपसा तेन प्राप्य वेदाननुत्तमान् ॥ ९.४१.५ ॥

国王啊,于是他灰心失望,这位大苦行者便修起苦行;借此苦行,他获得了无与伦比的吠陀。

9.41.6

स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः ।
तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः ॥ ९.४१.६ ॥

他博学通晓吠陀,成就圆满,是最优秀的仙人,在那圣渡口,这位大苦行者赐予了三个恩典。

9.41.7

अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः ।
आप्लुतो वाजिमेधस्य फलं प्राप्स्यति पुष्कलम् ॥ ९.४१.७ ॥

从今日起,凡在这大河的圣渡口沐浴之人,将获得马祭的全部果报。

9.41.8

अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति ।
अपि चाल्पेन कालेन फलं प्राप्स्यति पुष्कलम् ॥ ९.४१.८ ॥

从今日起,此地再无猛兽之惧;不久之后,他便将获得全部果报。

9.41.9

एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः ।
एवं सिद्वः स भगवानार्ष्टिषेणः प्रतापवान् ॥ ९.४१.९ ॥

言毕,这位大光明的仙人升往天界;如此,圆满的、尊贵而威猛的阿尔什提舍那也离去了。

9.41.10

तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान् ।
देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत् ॥ ९.४१.१० ॥

就在那时,在那同一渡口,威猛的信度岛与大王啊,提婆阿毗都获得了大婆罗门的果位。

9.41.11

तथाच कौशिकस्तात तपोनित्यो जितेन्द्रियः ।
तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान् ॥ ९.४१.११ ॥

同样,亲爱的,恒常修苦行、克制诸根的憍尸迦,也凭借精勤的苦行获得了婆罗门的果位。

9.41.12

गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि ।
तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान् ॥ ९.४१.१२ ॥

从前有一位名叫伽陀的大刹帝利,在大地上享有盛名。大王啊,他的儿子便是威猛的毗奢蜜多罗。

9.41.13

स राजा कौशिकस्तात महायोग्यभवत्किल ।
स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः ॥ ९.४१.१३ ॥

亲爱的孩子,那位国王憍尸迦确实成为了伟大的瑜伽士。然后,这位苦行大德为其子毗奢蜜多罗举行了灌顶,……

9.41.14

देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः ।
न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात् ॥ ९.४१.१४ ॥

当他决意舍弃身体时,恭敬的臣民对他说:啊,大智者,您不可离去;请救护我们脱离大恐惧!

9.41.15

एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्ततः ।
विश्वस्य जगतो गोप्ता भविष्यति सुतो मम ॥ ९.४१.१५ ॥

被如此请求后,迦提回答臣民说:我的儿子将成为整个世界的守护者。

9.41.16

इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च ।
जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः ॥ ९.४१.१६ ॥

说完这些,迦提立毗奢蜜多罗为王,大王啊,他升天而去;毗奢蜜多罗成为了国王。

9.41.17

न स शक्नोति पृथिवीं यत्नवानपि रक्षितुम् ।
ततः शुश्राव राजा स राक्षसेभ्यो महाभयम् ॥ ९.४१.१७ ॥

尽管他努力,却无法保护大地。于是那位国王听闻了来自罗刹的大恐惧。

9.41.18

निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः ।
स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात् ॥ ९.४१.१८ ॥

他率领四军离开城市,走过漫长的道路,来到了缚悉吒的修行处。

9.41.19

तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून् ।
ततस्तु भगवान्विप्रो वसिष्ठो श्रममभ्ययात्।
ददृशेऽथ ततः सर्वं भज्यमानं महाव्रनम् ॥ ९.४१.१९ ॥

大王啊,他们的士兵在那里造成了许多破坏。于是尊贵的婆罗门仙人伐悉吒来到修行处,看见整片大森林正被摧毁。

9.41.20

तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः ।
सृजस्व शबरान्घोरानिति स्वां गामुवाच ह ॥ ९.४१.२० ॥

大王啊,诸仙中最优秀的伐悉吒对他们大怒,对自己的母牛说:“创造可怕的舍伐罗人吧。”

9.41.21

तथोक्ता साऽसृजद्धेनुः पुरुषान्घोरदर्शनान् ।
ते तु तद्बलमासाद्य बभञ्जुः सर्वतोदिशम् ॥ ९.४१.२१ ॥

她受此命令,便创造出外貌可怖的男子。他们攻击那支军队,将其向四面八方击溃。

9.41.22

तच्छ्रुत्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः ।
तपः परं मन्यमानस्तपस्येव मनो दधे ॥ ९.४१.२२ ॥

闻知军队四散奔逃,迦提之子毗首弥多罗认为苦行最为殊胜,便将心专注于苦行。

9.41.23

सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः ।
नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः ॥ ९.४१.२३ ॥

大王啊,他在萨拉斯瓦蒂河这处殊胜的圣渡口专心致志,以誓戒和斋戒消耗自己的身体。

9.41.24

जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत् ।
तथा स्थण्डिलशायी च ये चान्ये नियमाःपृथक् ॥ ९.४१.२४ ॥

他以水为食,以风为食,以树叶为食。他睡在光秃的地上,还另外遵守其他各种誓戒。

9.41.25

असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे ।
न चास्य नियमाद्बुद्धिरपयाति महात्मनः ॥ ९.४१.२५ ॥

诸神屡次设置障碍阻挠他的誓愿,但这位大德的心志并未离开他的戒律。

9.41.26

ततः परेण यत्नेन तप्त्वा बहुविधं तपः ।
तेजसा भास्कराकारो गाधिजः समपद्यत ॥ ९.४१.२६ ॥

此后,他以极大的努力行种种苦行,迦提之子变得如太阳般光辉。

9.41.27

तपसा तु तथायुक्तं विश्वामित्रं पितामहः ।
अमन्यत महातेजा वरदोऽदर्शयत्तदा ॥ ९.४१.२७ ॥

毗湿伐弥多罗因苦行而如此充足,大光明的祖父注意到了他,赐予恩惠者便现身显示。

9.41.28

स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति ।
तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः ॥ ९.४१.२८ ॥

大王啊,他请求一个恩惠:“愿我成为婆罗门。”一切世界的祖父梵天说:“就这样吧。”

9.41.29

स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः ।
विचचार महीं कृत्स्नां कृतकामः सुरोपमः ॥ ९.४१.२९ ॥

他以猛烈的苦行获得婆罗门身份,这位大名声者心愿已满,如同天神一般,遍游整个大地。

9.41.30

तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु ।
पयस्विनीस्तथा धेनूर्यानानि शयनानि च ॥ ९.४१.३० ॥

在那最好的圣渡口,罗摩布施了各种财富、乳牛、车辆和床榻。

9.41.31

अथ वस्त्राण्यलङ्कारं भक्ष्यं पेयं च शोभनम् ।
अददन्मुदितो राजन्पूजयित्वा द्विजोत्तमान् ॥ ९.४१.३१ ॥

大王啊,随后,罗摩欢喜地恭敬了再生者中的最优者,并赠予他们华美的衣物、饰品、食物与饮品。

9.41.32

ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात् ।
यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः ॥ ९.४१.३२ ॥

大王啊,随后罗摩从仙人跋迦的修行处附近离去;据闻,名为跋迦的达尔毗耶曾在那里修行苦行。