マハーバーラタ · 章 9.42
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.42.1
ब्रह्मयोनिभिराकीर्णं जगाम यद्वुनन्दनः ।
यत्र दाल्भ्यो बको राजन्पश्वर्थ सुमहातपाः।
जुहाव धृतराष्ट्रस्य राष्ट्रं कोपसमन्वितः ॥ ९.४२.१ ॥
ヴリシュニの喜びであるクリシュナは、ヴェーダの血統のバラモンで満ちた場所へ行かれた。王よ、そこでダールビヤの子バカは、大いなる苦行者として、怒りに満ち、牛のためにドリタラーシュトラの国を呼び出した。
9.42.2
तपसा घोररूपेण कर्शयन्देहमात्मनः ।
क्रोधेन महताऽऽविष्टो धर्मात्मा वै प्रतापवान् ॥ ९.४२.२ ॥
恐ろしい姿の苦行によって自らの身体を衰えさせ、大いなる怒りに取り憑かれた、法の心を持ち、まことに威力ある者。
9.42.3
पुरा हि नैमिशीयानां सत्रे द्वादशवार्षिके ।
वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन् ॥ ९.४२.३ ॥
昔、ナイミシャの聖者たちの十二年の祭儀の、ヴィシュヴァジット祭の終わりに、聖者たちはパーンチャーラの国へ赴いた。
9.42.4
तत्रेश्वरमयाचन्त दक्षिणार्थं मनस्विनः ।
तत्र ते लेभिरे राजन्पाञ्चालेभ्यो महर्षयः।
बलान्वितान्वत्सतरान्निर्व्याधीन्सप्तविंशतिम् ॥ ९.४२.४ ॥
そこで気高い聖者たちは、供物の謝礼を地の主に求めた。王よ、そこで大聖者たちはパーンチャーラから、強健で病のない若い牛二十七頭を受け取った。
9.42.5
तानब्रवीद्बलो दाल्भ्यो विभजध्वं पशूनिति ।
पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् ॥ ९.४२.५ ॥
ダールビヤの子バラは彼らに言った。「この家畜を分けなさい。私はこれらの家畜を残して、最上の王に乞いに行こう。」
9.42.6
एवमुक्त्वा वको राजन्नृषीन्सर्वांन्प्रतापवान् ।
जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः ॥ ९.४२.६ ॥
王よ、こう言うと、威力ある者、バラモンの中の最上のバカは、すべての聖者を残して、ドリタラーシュトラの館へ向かった。
9.42.7
अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् ॥ ९.४२.७ ॥
ダールビャは家畜を求めた。すると彼は怒って彼に言った。
9.42.8
यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तमः ।
एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि ॥ ९.४२.८ ॥
王の中の最良の者は、偶然死んだ牛を見て言った。「卑しいバラモンよ、望むなら、この家畜を早く連れて行け。」
9.42.9
ऋषिस्त्वथ बकः क्रुद्धश्चिन्तयामास धर्मवित् ।
अहो वत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि ॥ ९.४२.९ ॥
そのとき、法に通じた仙人バカは怒って思った。「ああ!会衆の中で私にこのような残酷な言葉が投げかけられたとは!」
9.42.10
चिन्तयित्वा मुहूर्तेन रोषाविष्टो द्विजोत्तमः ।
मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः ॥ ९.४२.१० ॥
しばし思案した後、怒りに満たされたそのバラモンの最良の者は、王ドリタラーシュトラの滅亡を決意した。
9.42.11
स तूत्कृत्य मृतानां वै मांसानि मुनिसत्तमः ।
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा ॥ ९.४२.११ ॥
その最良の聖仙は、死んだ動物の肉を切り取り、かつて王ドリタラーシュトラの国のために火に供物として捧げた。
9.42.12
अवाकर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम् ।
… दाल्भ्यो महाराज नियमं परमं स्थितः ॥ ९.४२.१२ ॥
アヴァーカルナのサラスヴァティーの聖なる渡し場で火を燃やし…… ダールビャよ、大王よ、至上の誓いに堅く留まった。
9.42.13
स तैरेव जुहावाग्नौ राष्ट्रं मांसैर्महातपः ॥ ९.४२.१३ ॥
その大苦行者は彼らと共に、肉を供物として王国を火に捧げた。
9.42.14
तस्मिंस्तु विधिवत्सत्रे सम्प्रवृत्ते सुदारुणे ।
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव ॥ ९.४२.१४ ॥
その規定どおりに始まった極めて恐ろしい祭祀が進むと、王よ、ドリタラーシュトラの王国は衰え始めた。
9.42.15
छि…मानं … परशुना विभो ।
… व्यवकीर्थमचेतनम् ॥ ९.४२.१५ ॥
……斧で、おおいなる方よ。……散らばった、無意識の。
9.42.16
दृष्ट्वा तथाऽवकीर्णं तु राष्ट्रं च मनुजाधिपः ।
बभूव दुर्मना राजा चिन्तयामास च प्रभुः ॥ ९.४२.१६ ॥
王国がこのように散らされたのを見て、人々の主は心を乱され、王は思いにふけった。
9.42.17
…रद्यत्रं ब्राह्मणैः सहितः पुरा ।
…गच्छत्तु क्षीयते राष्ट्रमेव च ॥ ९.४२.१७ ॥
……バラモンたちと共に、かつて……進むにつれ王国は衰えている。
9.42.18
यदा स पार्थिवः खिन्नस्ते च विप्रास्तदाऽनघ ॥ ९.४२.१८ ॥
その王が苦しみ、あのバラモンたちも苦しんだとき、無垢なる者よ。
9.42.19
यदा चापि न शक्नोति राष्ट्रं मोक्षयितुं नृपः ।
अथ विप्रादिकांस्तत्र पप्रच्छ जनमेजय ॥ ९.४२.१९ ॥
王が国を救うことができなかったとき、そこで彼はバラモンたちに尋ねた、ジャナメージャヤよ。
9.42.20
ततो विप्रादिकाः प्राहुः पशुविप्रकृतस्त्वया ।
मांसैरभिजुहोतीदं तव राष्ट्रं मुनिर्बकः ॥ ९.४२.२० ॥
するとバラモンたちは言った。あなたは家畜とバラモンに罪を犯した。聖者バカは肉をもってあなたの国を火に供物として捧げているのだ。
9.42.21
तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान् ।
तस्यैतत्तपसः कर्म येन तेऽद्य लयो महान् ॥ ९.४२.२१ ॥
彼によってこの国が供物として焼かれるので、大きな破滅が起こる。これは彼の苦行の業であり、それゆえ今日あなたに大きな滅びが来たのだ。
9.42.22
यदीच्छसि महाबाहो शान्तिं राष्ट्रस्य भूमिप ।
अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव ॥ ९.४२.२२ ॥
大いなる腕を持つ大地の主よ、もし国に平安を望むなら、サラスヴァティーの水の茂みで彼を宥めよ、王よ。
9.42.23
सरस्वतीं ततो गत्वा स राजा बकमब्रवीत् ।
निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ ॥ ९.४२.२३ ॥
それから、そのサラスヴァティーへ行き、王はバカに語った。頭を地に伏せ、合掌して、バラタの牡牛よ。
9.42.24
प्रसादये त्वां भगवन्नपराधं क्षमस्व मे ।
मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः।
त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि ॥ ९.४२.२४ ॥
尊きお方よ、あなたをお宥めします。私の罪をお赦しください。私は卑しく貪欲で、愚かさによって心が滅びていました。あなただけが私の拠り所、あなただけが私の主です。どうか慈悲をお示しください。
9.42.25
तं तथा विलपन्तं तु शोकोपहतचेतसम् ।
दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तस्य व्यमोचयत् ॥ ९.४२.२५ ॥
悲しみに打ちのめされ、このように嘆き悲しむ彼を見て、彼に慈悲が生じ、その王国を解放した。
9.42.26
ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः ।
मोक्षार्थं तस्य राज्यस्य जुहाव पुनराहुतिम् ॥ ९.४२.२६ ॥
聖仙は彼に満足し、怒りを捨て、その王国の解放のために再び供物を火に捧げた。
9.42.27
मोक्षयित्वा ततो र्ष्ट्रं प्रतिगृह्य पशून्बहून् ।
हृष्टात्मा नैमिशारण्यं जगाम पुनरेव सः ॥ ९.४२.२७ ॥
その後、王国を解放し、多くの家畜を取り戻して、心喜びつつ、彼は再びナイミシャの森へ去った。
9.42.28
धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः ।
स्वमेव नगरं राजन्प्रतिपेदे महर्द्धिमत् ॥ ९.४२.२८ ॥
法を重んじ、心が穏やかで寛大な心を持つドリタラーシュトラもまた、王よ、大いに繁栄した自らの都へと帰った。
9.42.29
तत्र तीर्थे महाराज बृहस्पतिरुदारधीः ।
असुराणामभावाय भवाय च दिवौकसाम् ॥ ९.४२.२९ ॥
大王よ、その聖なる渡し場で、高潔な心の持ち主であるブリハスパティは、阿修羅の滅亡と天界の住人の繁栄のために(祭儀を行った)。
9.42.30
मांसैरभिजुहावेष्टिमक्षीयन्त ततोऽसुराः ।
दैवतैरपि सम्भग्ना जितकाशिभिराहवे ॥ ९.४२.३० ॥
彼は肉をもってイシュティの祭儀に供物を捧げた。すると阿修羅は衰え、戦いにおいて勝利を得た神々によってさえ打ち砕かれた。
9.42.31
तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः ।
वाजिनः कुञ्जरांश्चैव रथांश्चश्वतरीयुतान् ॥ ९.४२.३१ ॥
そこでもまた、大名声の王は規定どおりにバラモンたちへ馬、象、そしてラバをつないだ戦車を施した。
9.42.32
रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम् ।
ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते ॥ ९.४२.३२ ॥
宝玉、貴重な財宝、豊富な穀物を施したのち、大腕の王はヤヤーティの聖なる渡し場へ向かった、大地の主よ。
9.42.33
तत्र यज्ञे ययातेश्च महाराज सरस्वती ।
सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः ॥ ९.४२.३३ ॥
そこでヤヤーティの祠礼にて、大王よ、サラスヴァティーは偉大な魂のナフシャの子のために、澄ましバターと乳を流し出した。
9.42.34
तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः ।
आक्रामदूर्ध्वं पुदितो लेभे लोकांश्च पुष्कलान् ॥ ९.४२.३४ ॥
そこで祠礼を行ったのち、人中の虎、大地の主ヤヤーティは喜びのうちに天へ昇り、豊かな諸世界を得た。
9.42.35
पुनस्तत्र च राज्ञस्तु ययातेर्यजतः प्रभोः ।
औदार्यं परमं कृत्वा भक्तिं चात्मनि शाश्वतीम्।
ददौ कामान्ब्राह्मणेभ्यो वान्यान्यो मनसेच्छति ॥ ९.४२.३५ ॥
またそこで祠礼を行う王ヤヤーティは、無上の施与と内なる永遠の帰依を示し、バラモンたちと、心に願う他の者たちにも望みのものを施した。
9.42.36
यो यत्र स्थित एवेह आहूतो यज्ञसंस्तरे ।
तस्यतस्य सरिच्छ्रेष्ठा गृहादि शयनादिकम्।
षड्रसं भोजनं चैव दानं नानाविधं तथा ॥ ९.४२.३६ ॥
祭場にここでどこに立っていようと、招かれた者には、河の中で最も優れたサラスヴァティーのように、家など、寝具など、六味の食事、そして種々の施与が与えられた。
9.42.37
ते मन्यमाना राज्ञस्तु सम्प्रदानमनुत्तमम् ।
राजानं तुष्टुवुः प्रीता दत्त्वा चैवाशिषः शुभाः ॥ ९.४२.३७ ॥
王の最上の布施を知り、喜んで王を讃え、吉祥の祝福を与えた。
9.42.38
तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य सम्पदा ।
विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसम्पदम् ॥ ९.४२.३८ ॥
そこで神々とガンダルヴァらは祭祀の繁栄に喜び、人間たちはその祭祀の盛大さを見て驚嘆した。
9.42.39
ततस्तालकेतुर्महाधर्मकेतु… ।
र्महात्मा कृतात्मा महादाननित्यः।
वसिष्ठापवाहं महाभीमवेगं ।
धृतात्मा जितात्मा समभ्याजगाम ॥ ९.४२.३९ ॥
そこでターラケートゥ、大法幢……大いなる魂、自己を制御し、常に大布施をなす者が、ヴァシシュタの恐ろしく激しい速さの川へと来た。彼は心を堅く保ち、自己を征服していた。