摩诃婆罗多 · 章 9.43
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.43.1
वसिष्ठापवाहो ब्रह्मन्वै भीमवेगः कथं नु सः ।
किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् ॥ ९.४३.१ ॥
婆罗门啊,那股可怕的洪流是如何产生、将仙人伐悉吒卷走的?这条最优秀的河流又是出于什么缘故将那位仙人冲走的?
9.43.2
कथमस्याभवद्वैरं कारणं किं च तत्प्रभो ।
शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यति ॥ ९.४३.२ ॥
他们之间的这份仇怨是如何产生的?主啊,其原因是什么?大智者啊,既已问及,请您讲述;即便听您讲述,我仍不能满足。
9.43.3
विश्वामित्रस्य विप्रर्षेर्वसिष्ठस्य च भारत ।
भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत् ॥ ९.४३.३ ॥
婆罗多啊,婆罗门仙人毗首弥多罗与伐悉吒之间产生了极大的仇怨。大王啊,那极深的仇怨是由苦行上的竞争所引起的。
9.43.4
आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान् ।
पूर्वतः पार्श्वतश्चासीद्विश्वामित्रस्य धीमतः ॥ ९.४३.४ ॥
在桩津(Sthāṇu)有一座伐悉吒的大精舍。智者毗首弥多罗的精舍位于东方和旁边。
9.43.5
यत्र स्थाणुर्महाराज तप्तवान्परमं तपः ।
तत्रास्य कर्म तद्धोरं प्रवदन्ति मनीषिणः ॥ ९.४३.५ ॥
大王啊,桩神在那里修了最上的苦行,智者们说,他那可怕的行为也正发生在那里。
9.43.6
यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम् ।
स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो ॥ ९.४३.६ ॥
在那里,吉祥的桩神举行祭祀、供养萨罗室伐底之后,设立了那处圣渡,主啊,因此它被称为桩津(Sthāṇu-tīrtha)。
9.43.7
तत्र तीर्थे सुराः स्कन्दमभ्यषिञ्चन्नराधिप ।
सैनापत्येन महता सुरारिविनिबर्हणम् ॥ ९.४३.७ ॥
王啊,在那圣渡之处,诸神以大将之职为斯建达行灌顶礼,他是摧毁诸神敌人的人。
9.43.8
तस्मिन्सारस्वते तीर्थे विश्वामित्रो महामुनिः ।
वसिष्ठं चालयामास तपसोग्रेण तच्छृणु ॥ ९.४३.८ ॥
在那萨罗斯瓦提圣渡,大仙毗首密多罗以猛烈的苦行,欲使婆私湿陀动摇。你且听着。
9.43.9
विश्वामित्रवसिष्ठौ तावहन्यहनि भारत ।
स्पर्धां तपः कृतां तीव्रां चक्रतुस्तौ वतपोधनौ ॥ ९.४३.९ ॥
婆罗多之子啊,毗首密多罗与婆私湿陀,以苦行为财富,日复一日地竞相修行严酷的苦行。
9.43.10
तत्राप्यधिकसन्तप्तो विश्वामित्रो महामुनिः ।
दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह ॥ ९.४३.१० ॥
在那里,大仙毗首密多罗更加烦恼,见到婆私湿陀的光辉,便陷入了忧思。
9.43.11
तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत ।
इदं सरस्वती तूर्णं मत्समीपं तपोधनम् ॥ ९.४३.११ ॥
婆罗多之子啊,那位始终恪守法度的仙人心中生出一念:'愿萨罗斯瓦提速将这以苦行为财富者带到我面前。'
9.43.12
आनयिष्यति वेगेन वसिष्ठं जपतां वरम् ।
इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः ॥ ९.४३.१२ ॥
'她将迅速把诵经者中最优秀的婆私湿陀带到这里;这位再生者中的最优者来到这里,我必定杀死他,毫无疑问。'
9.43.13
एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः ।
सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः ॥ ९.४३.१३ ॥
如此决定之后,尊贵的大仙人毗首弥多罗怒目赤红,忆起了诸河中最殊胜者。
9.43.14
सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह ।
गत्वा चैनं महावीर्यं महाकोपं च भामिनी ॥ ९.४३.१४ ॥
她被那位仙人念及,便陷入不安;这位美丽的女子便前往那位大力而大怒者面前。
9.43.15
तदा तं वेपमानाङ्गी विवर्णा प्राञ्जलिर्भृशम् ।
उपतस्थे मुनिवरं विश्वामित्रं सरस्वती ॥ ९.४३.१५ ॥
于是萨拉斯瓦蒂身体颤抖,面色苍白,极力合掌,来到诸仙人中最殊胜的毗首弥多罗面前。
9.43.16
हतवीरा यथा नारी साऽभवद्दुःखिता भृशम् ।
ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम् ॥ ९.४३.१६ ॥
她如同丧失英勇丈夫的妇人一般极为悲伤。她对诸仙人中最殊胜者说:“请告诉我,我该做什么?”
9.43.17
तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय ।
यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी ॥ ९.४३.१७ ॥
愤怒的仙人对她说:“快把婆罗sh带来;今天我就要杀死他。”闻此言,河流十分痛苦。
9.43.18
साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा ।
प्राकम्पत भृशं भीता वायुनेवाहता लता ॥ ९.४३.१८ ॥
于是她合掌,眼如白莲,极度惊惧,如同被风吹打的藤蔓般颤抖起来。
9.43.19
तथारूपां तु तां दृष्ट्वा मुनिराह महानदीम् ।
अविचारं वसिष्ठं त्वमानयस्त्वान्तिकं मम ॥ ९.४३.१९ ॥
仙人见她如此模样,对大河说:“不加思索地把婆罗门仙人伐悉吒带到我这里来。”
9.43.20
सा तस्य वचनं श्रुत्वा ज्ञात्वा पापं चिकीर्षितम् ।
वसिष्ठस्य प्रभावं च जानन्त्यप्रतिमं भुवि ॥ ९.४३.२० ॥
她听了他的话,明白了他想做的罪行,也知道伐悉吒在大地上无与伦比的威力,
9.43.21
साऽभिगम्य वसिष्ठं च इदमर्थमचोदयत् ।
यदुक्ता सरितांश्रेष्ठा विश्वामित्रेण धीमता ॥ ९.४३.२१ ॥
她走到伐悉吒面前,按照智者毗奢蜜多罗对诸河之首所说的那样,促使他去做这件事。
9.43.22
उभयोः शापयोर्भीता वेपमाना पुनःपुनः ।
चिन्तयित्वा महाशापमृषिविप्रासिता भृशम् ॥ ९.४३.२२ ॥
她害怕两种诅咒,一再颤抖,想到那大诅咒,被诸仙与婆罗门所弃,极其忧伤。
9.43.23
तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम् ।
उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः ॥ ९.४३.२३ ॥
大王啊,他见她消瘦、面色苍白、满怀忧虑,正直的伐悉吒,人中之最,便对她说。
9.43.24
पाह्यात्मानं सरिच्छेष्ठे वह मां शीघ्रगामिनी ।
विश्वामित्रः शपेद्वि त्वां मा कृथास्त्वं विचारणाम् ॥ ९.४३.२४ ॥
“诸河之首啊,保全你自己;迅捷之河啊,载我而行。毗奢蜜多罗必定会诅咒你;你不要犹豫。”
9.43.25
तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित् ।
चिन्तयामास कौरव्य किं कृत्वा सुकृतं भवेत् ॥ ९.४३.२५ ॥
那条怀有慈悲的河流听了他的话,俱卢后裔啊,心想应当做什么善行。
9.43.26
तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि ।
कृतवान्हि दयां नित्यं तस्या कार्यं हितं मया ॥ ९.४३.२६ ॥
她心中生起一念:婆私吒对我一向极为慈悲,我应当为他做有益之事。
9.43.27
अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम् ।
जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत् ॥ ९.४३.२७ ॥
大王啊,那时,萨罗室伐底看见在自己岸边诵咒并献祭的圣仙中的最上者憍尸迦,便思量起来。
9.43.28
इदमन्तरमित्येवं ततः सा सरितां वरा ।
कूलापहारमकरोत्स्वेन वेगेन सा सरित् ॥ ९.४३.२८ ॥
她心想:“这正是机会。”于是,诸河中最殊胜的她以自身的水势冲走了河岸。
9.43.29
तेन कूलापहारेण मैत्रावरुणिरौह्यत ।
उह्यमानः स तुष्टाव तदा राजन्सरस्वतीम् ॥ ९.४३.२९ ॥
河岸被冲走,弥多罗-伐楼那之子(婆私吒)随之被卷走;他被冲走时,大王啊,便赞颂萨罗室伐底。
9.43.30
पितामहस्य सरसः प्रवृत्ताऽसि सरस्वति ।
व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः ॥ ९.४३.३० ॥
萨罗室伐底啊,你从祖父(梵天)的湖中流出;这整个世界都被你殊胜的水所充满。
9.43.31
त्वमेवाकाशगा देवि मेघेषु सृजसे पयः ।
सर्वाश्चापस्त्वमेवेति यथा वयमधीमहि ॥ ९.४३.३१ ॥
女神啊,你行于天空,唯你在云中生成水;你便是一切水,正如我们所学。
9.43.32
पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्बुद्धिरमा तथा ।
त्वमेव वाणी स्वाहा त्वं तवायत्तमिदं जगत्।
त्वमेव सर्वभूतेषु वससीह चतुर्विधा ॥ ९.४३.३२ ॥
你是滋养、光辉、名声、成就、智慧,也是罗摩(吉祥天)。你唯一是言语与娑婆诃。这个世界依赖于你。在一切众生中,你以四种形态住于此处。
9.43.33
एवं सरस्वती राजन्स्तूयमाना महर्षिणा ।
वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति ॥ ९.४३.३३ ॥
大王啊,萨罗私瓦蒂受大仙赞颂,便迅速将那位婆罗门带往毗首密多罗的仙院。
9.43.34
न्यवेदयत चाक्षीक्ष्णं विश्वामित्राय तं मुनिम् ॥ ९.४३.३४ ॥
她一再把那件事告知仙人毗首密多罗。
9.43.35
तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः ।
अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा ॥ ९.४३.३५ ॥
他见萨罗私瓦蒂将其带来,心中充满愤怒,便寻找能毁灭婆私吒的武器。
9.43.36
तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्मवध्याभयान्नदी ।
अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता।
उभयोः कुर्वती वाक्यं वञ्चयित्वा च गाधिजम् ॥ ९.४३.३६ ॥
她见他满怀愤怒,又畏惧杀害婆罗门之罪,便不知疲倦地将婆私吒冲向东方,一面与双方说话,一面欺骗了迦地之子。
9.43.37
ततोपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम् ।
अब्रवीत्त्वथ सङ्क्रुद्धो विश्वामित्रः सरस्वतीम् ॥ ९.४३.३७ ॥
此时,见婆私吒被冲走,最优秀的仙人毗首婆密多愤怒地对萨罗私伐底说道。
9.43.38
यस्मान्मां त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता ।
शोणितं वह कल्याणि राक्षसानां च सम्मतम् ॥ ९.४३.३८ ॥
最优秀的河流啊,你欺骗了我又离去,故吉祥者啊,你当携带罗刹所喜爱的血液。
9.43.39
ततः सरस्वती शप्ता विश्वामित्रेण धीमता ।
अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा ॥ ९.४३.३९ ॥
于是萨罗私伐底被智者毗首婆密多诅咒,一年之中流淌着混有血液的水。
9.43.40
अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तदा ।
सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः ॥ ९.४३.४० ॥
那时,仙人、天神、乾闼婆与阿普萨拉斯见萨罗私伐底如此,皆深感悲痛。
9.43.41
एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप ।
आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा ॥ ९.४३.४१ ॥
人主啊,如此,婆私吒被冲走之事在世间广为流传;而河流中最优秀的萨罗私伐底又回到了她自己的河道。