Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.45

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.45.1

सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम ।
कुमारस्याभिषेकं तु ब्रह्मन्नाख्यातुमर्हसि ॥ ९.४५.१ ॥

最优秀的再生者啊,您已讲述了萨拉斯瓦蒂的这份威力。婆罗门啊,您也应当讲述童子的灌顶。

9.45.2

यस्मिन्देशे च काले च यथा च वदतां वर ।
यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः ॥ ९.४५.२ ॥

善言者中最优秀的人啊,请说明尊贵的主是在何地、何时、以何种方式、由何人、依何仪轨受灌顶的。

9.45.3

स्कन्दो यथा च दैत्यानामकरोत्कदनं महत् ।
तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे ॥ ९.४५.३ ॥

请把斯coundha如何大规模杀戮达伊蒂亚的事情全部告诉我,因为我的好奇心非常强烈。

9.45.4

कुरुवंशस्य सदृशं कौतूहलमिदं तव ।
हर्षमुत्पादयत्वेव वचो मे जनमेजय ॥ ९.४५.४ ॥

嗟乎,遮那弥阁耶,你的这份好奇符合俱卢族的身份,愿我的话语令你欢喜。

9.45.5

हन्त ते कथयिष्यामि शृण्वानस्य नराधिप ।
अभिषेकं कुमारस्य प्रभावं च महात्मनः ॥ ९.४५.५ ॥

好吧,人主啊,你且听着,我将为你讲述童子的灌顶以及那位大德者的威力。

9.45.6

तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा ।
तत्सर्वं भगवानग्निर्नाशकद्धर्तुमक्षयम् ॥ ९.४५.६ ॥

往昔,大自在天(湿婆)的光辉滑落,坠入火中;尊贵的火神无法承受住这全部不坏的威光。

9.45.7

तेन सीदति तेजस्वी दीप्तिमान्हव्यवाहनः ।
न चैवं धारयामास ब्रह्मणे उक्तवान्प्रभुः ॥ ९.४५.७ ॥

因那股能量,光辉灿烂的哈维耶瓦哈那(阿耆尼)变得衰弱;无法这样承受它,主便对梵天说道。

9.45.8

स गङ्गामुपसगम्य नियोगाद्ब्रह्मणः प्रभुः ।
गर्भमाहितवान्दिव्यं भास्करोपमतेजसम् ॥ ९.४५.८ ॥

依梵天之命,主走近恒河女神,将那与太阳光辉相当的神圣胎儿置入她的体内。

9.45.9

अथ गङ्गापि तं गर्भमसहन्ती विधारणे ।
उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते ॥ ९.४५.९ ॥

于是恒河女神也无法承载那胎儿,便将它留在喜马拉雅那座为诸神所敬拜的美丽山上。

9.45.10

स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः ।
ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः ॥ ९.४५.१० ॥

火神之子在那里成长,遍覆诸世界;那时昴宿诸女看见了那形如火焰的胎儿。

9.45.11

शरस्तम्बे महात्मानमनलात्मजमीश्वरम् ।
ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचुक्रुशुः ॥ ९.४५.११ ॥

在芦苇丛中,她们看见那位伟大的火神之子、主宰者,都渴望有子,齐声喊道:“这是我的!”

9.45.12

तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः ।
प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा ॥ ९.४५.१२ ॥

主知晓她们的心意,便用六张口吮饮了那些母亲流出的乳汁。

9.45.13

तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः ।
परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः ॥ ९.४५.१३ ॥

诸克利迦(Kṛttikā)女神见到那孩子的威力,身披神圣之体,皆大为惊异。

9.45.14

यत्रोत्सृष्टश्च गर्भः स गङ्गया निरिमूर्धनि ।
स शैलः काञ्चनः सर्वः सम्बभौ मेरुवत्तदा ॥ ९.४५.१४ ॥

恒河将那胎儿放在山巅之处,那整座山便如须弥山一般,金光灿烂。

9.45.15

वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता ।
अतश्च सर्वे संवृत्ता गिरयः काञ्चनात्मकाः ॥ ९.४५.१५ ॥

胎儿渐渐长大,大地因此被染成金色,于是所有山岭都变成了金色。

9.45.16

कुमारः सुमहावीर्यः कार्तिकेय इति स्मृतः ।
गाङ्गेयः पूर्वमभवन्महाकायो बलान्वितः ॥ ९.४५.१६ ॥

那位威猛的少年被称为卡尔提刻耶;此前他名为恒河之子,身躯庞大,力量充沛。

9.45.17

शमेन तपसा चैव वीर्येण च समन्वितः ।
ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः। ॥ ९.४५.१७ ॥

他具足寂静、苦行与威勇,极度成长,王中之王啊,容貌如月般令人喜爱。

9.45.18

स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः ।
स्तयमानः सदा शेते गन्धर्वैर्मुनिभिस्तथा ॥ ९.४५.१८ ॥

他在那金色的神圣芦苇丛中安卧,周围环绕着光辉,常受乾达婆与仙人们的赞颂。

9.45.19

तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः ।
दिव्यवादित्रनृत्यज्ञाः स्तुवन्त्यश्चारुदर्शनाः ॥ ९.४५.१९ ॥

如此,成千上万的天女围绕着他起舞,精通天界乐器与舞蹈,美丽动人,赞颂着他。

9.45.20

अन्वयुश्चाग्नयः सर्वे गङ्गा च सरितां वरा ।
दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम्। ॥ ९.४५.२० ॥

一切圣火都跟随他,河流中最殊胜的恒河也跟随。大地以至上之形相承载了他。

9.45.21

जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः ।
वेदश्चैनं चतुर्मूर्तिरपतस्थे कृताञ्जलिः ॥ ९.४५.२१ ॥

木星之师为他举行诞生礼等仪式;四形之吠陀合掌来到他面前侍立。

9.45.22

धनुर्वेदश्चतुष्पादः सास्त्रग्रामः ससङ्ग्रहः ।
तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला ॥ ९.४५.२२ ॥

四支之弓术连同其众多兵器与总集来到他面前;而言语女神亦亲自独自前来。

9.45.23

स ददर्श महात्मानं देवदेवमुमापतिः ।
शैलपुत्र्या समागम्यभूतसङ्घशतैर्वृतः ॥ ९.४५.२३ ॥

众神之神乌摩帕提看见了那位大灵,他与山女相会,被数百群众生环绕。

9.45.24

निकाया भूतसङ्घानां परमाद्भुतदर्शनाः ।
विकृता विकृताकारा विकृताभरणध्वजाः ॥ ९.४५.२४ ॥

众多群聚之众生,相貌极其奇异,形貌扭曲,饰物与旗幡亦皆怪异。

9.45.25

व्याघ्रसिंहर्क्षवदना बिडालमकराननाः ।
वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा ॥ ९.४५.२५ ॥

有的面貌如虎、狮、熊,有的如猫、鳄,另有的如牛、虻;同样也有面貌如象、如骆驼的。

9.45.26

उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः ।
क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि ॥ ९.४५.२६ ॥

有的面貌如鸮,有的如秃鹫与豺狼;有的面貌似鹤与鸽,也有面貌如鸟名ṅkava的。

9.45.27

श्वाविच्छल्यकगोधानामजैडकगवां तथा ।
सदृशानि वपूंष्यन्ये तत्रतत्र व्यधारयन् ॥ ९.४५.२७ ॥

有的身形如狗、蜥蜴、豪猪与守宫,有的如山羊、绵羊与牛;其他的也在各处现出这样的身形。

9.45.28

केचिच्छेलाम्बुदप्रख्याश्चक्रालातगदायुधाः ।
केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः ॥ ९.४५.२८ ॥

有的如山岳与云,手持法轮、火把与铁杵;有的如堆积的黑色眼膏,有的光辉如白色的雪山。

9.45.29

सप्तमातृगणाश्चैव समाजग्मुर्विशाम्पते ।
साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा ॥ ९.४५.२९ ॥

人主啊,七母神之群也聚集而来;萨提亚神、毗湿婆神,随后是摩录多神、婆苏神与祖先,也都如此。

9.45.30

रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः ।
ब्रह्मा स्वयम्भूर्भगवान्सपुत्रः सहविष्णुना ॥ ९.४५.३० ॥

楼陀罗与阿提亚神同样到来,还有悉陀、龙蛇、檀那婆与飞鸟;以及自生的世尊梵天偕其子,与毗湿奴同来。

9.45.31

शक्रस्तथाऽभ्ययाद्द्रष्टुं कुमारममितप्रभम् ।
नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः ॥ ९.४५.३१ ॥

帝释天也来看望那位光辉无量的少年,以及以那罗陀为首的天神与乾闼婆中的最优者。

9.45.32

देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः ।
पितरो जगतः श्रेष्ठा देवानामपि देवताः।
तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः ॥ ९.४५.३२ ॥

神圣的仙人与以歌普提为首的悉陀,世界上最杰出的祖先,乃至诸神之神,都聚集于此;夜摩与达摩从各方赶来。

9.45.33

स तु बालोऽपि बलवान्महायोगबलान्वितः ।
अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम् ॥ ९.४५.३३ ॥

他虽是孩童,却力量强大,具备大瑜伽之力;他走近手持三叉戟的诸神之主、弓持者湿婆。

9.45.34

तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम् ।
युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च ॥ ९.४५.३४ ॥

见他走近,湿婆心中生起一念;同时,山女、恒河与火神心中也生起同样的念头。

9.45.35

कं नु पूर्वमयं बालो गौरवादभ्युपैष्यति ।
अपि मामिति सर्वेषां तेषामासीन्मनोगतम् ॥ ९.४५.३५ ॥

“这孩子出于敬重,会先走向谁呢?或许是我吧?”——这便是他们每个人心中的念头。

9.45.36

तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः ।
युगपद्योगमास्थाय ससर्ज विविधास्तनूः ॥ ९.४५.३६ ॥

他察觉了四者的这番心意,立即运用瑜伽,化出了种种形体。

9.45.37

ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः ।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः ॥ ९.४५.३७ ॥

于是这位薄伽梵主刹那间化为四形;其后有舍迦、毗舍迦与奈伽梅耶。

9.45.38

एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः ।
यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः ॥ ९.४५.३८ ॥

如是自分为四,那位薄伽梵主——罗陀由其而生——斯堪达以奇妙的形象离去。

9.45.39

विशाखस्तु ययौ देवीं ततो गिरिवरात्मजाम् ।
शाखो ययौ स भगवान्दिव्यमूर्तिर्विभावसुम् ॥ ९.४५.३९ ॥

毗舍迦前往女神、雪山之女那里;神形的薄伽梵舍迦前往毗婆娑(火神)那里。

9.45.40

नैगमेयोऽगमद्गङ्गां कुमारः पावकप्रभः ॥ ९.४५.४० ॥

奈伽梅耶前往恒河;这位如火光般的童子,

9.45.41

सर्वे भासुरदेहास्ते चत्वारः समरूपिणः ।
तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत् ॥ ९.४५.४१ ॥

四者皆身光灿烂,形貌相同;他们不慌不乱地走近,此事竟如奇迹一般。

9.45.42

हाहाकारो महानासीद्देवदानवरक्षसाम् ।
तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम् ॥ ९.४५.४२ ॥

诸天、檀那婆与罗刹之间起了一片巨大的惊呼;见到这桩伟大的奇事,奇妙而令人毛骨悚然,(众人皆惊)。

9.45.43

ततो रुद्रश्च देवी च पावकश्च पितामहम् ।
गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम् ॥ ९.४५.४३ ॥

于是楼陀罗、天女、火神与恒河一同向世界之主祖父礼拜。

9.45.44

प्रणिपत्य ततस्ते तु विधिवद्राजपुङ्गव ।
इदमूचुर्वचो राजन्कार्तिकेयप्रियेप्सया ॥ ९.४५.४४ ॥

王中之上,他们依礼拜后,为了令室建多欢喜,说出了这些话。

9.45.45

अस्य बालस्य भगवन्नाधिपत्य यथेप्सितम् ।
अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि ॥ ९.४५.४५ ॥

尊贵的天神之主啊,为了让我们欢喜,您应当按他所愿,赐予这孩子相称的主权。

9.45.46

ततः स भगवान्धीमान्सर्वलोकपितामहः ।
मनसा चिन्तयामास किमयं लभतामिति ॥ ९.४५.४६ ॥

于是那位智慧而尊贵的众世界之祖父在心中思量,此子应当得到什么。

9.45.47

ऐश्वर्याणि च सर्वाणि देवगन्धर्वरक्षसाम् ।
भूतयक्षविहङ्गानां पन्नगानां च सर्वशः ॥ ९.४५.४७ ॥

以及诸天、乾闼婆、罗刹、鬼神、夜叉、飞禽与诸蛇的一切权势。

9.45.48

सर्वमेवादिदेशासौ कौरवेय महात्मनः ।
समर्थं च तमैश्वर्ये महामतिरमन्यत ॥ ९.४५.४८ ॥

俱卢子孙啊,那位大智者将一切都交付于那位大德,认为他足以担当权势。

9.45.49

ततो मुहूर्तं स ध्यात्वा देवानां स्रेयसि स्थितः ।
सैनापत्यं ददौ तस्मै सर्व भूतेषु भारत ॥ ९.४५.४९ ॥

于是,他冥想片刻,安住于诸天的福祉之中,将统领一切众生之军的职位授予了他,婆罗多啊。

9.45.50

सर्वदेवनिकायानां ये राजानः परिश्रुताः ।
तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः ॥ ९.४५.५० ॥

诸天各部中所有著名的国王,万物之祖把他们全都交给了他。

9.45.51

ततः कुमारमादाय देवा ब्रह्मपुरोगमाः ।
अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः ॥ ९.४५.५१ ॥

于是,боги во главе с Брахмой带着少年,一同前来向山王行灌顶礼。

9.45.52

पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम् ।
समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता ॥ ९.४५.५२ ॥

喜马拉雅所生的圣洁女神,河流中最殊胜的萨罗室伐蒂,她在三界中闻名,位于三十五战场。

9.45.53

तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते ।
निषेदुर्देवगन्धर्वाः सर्वे सम्पूर्णमानसाः ॥ ९.४५.५३ ॥

在萨罗室伐蒂那圣洁、具备一切功德的河岸上,所有天神与乾闼婆心满意足地坐了下来。