Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.48

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.48.1

अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः ।
अभिषेकं कुमारस्य विस्तरेण यथाविधि ॥ ९.४८.१ ॥

婆罗门啊,此事极为奇妙。我已依次第详细、如实地听闻了童子的灌顶。

9.48.2

यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन ।
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम ॥ ९.४८.२ ॥

苦行之宝啊,闻此之后,我觉得自己已被净化;我的毛发竖起,心意也欢喜安宁。

9.48.3

अभिषेकं कुमारस्य दैत्यानां च वधं तथा ।
श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे ॥ ९.४८.३ ॥

闻童子之灌顶与诸达侣之被杀,我心极为欢喜,好奇之心又更增长。

9.48.4

अपाम्पतिः कथं ह्यस्मिन्नभिषिक्तः पुरा सुरैः ।
तन्मे ब्रूहि महाप्रज्ञ कुशलो ह्यसि सत्तम ॥ ९.४८.४ ॥

大智者啊,善中之最啊,往昔诸天在此事中如何为水主灌顶?请告诉我,因为您确实精通此事。

9.48.5

शृणु राजन्निदं चित्रं पूर्वकाले यथाऽभवत् ॥ ९.४८.५ ॥

大王请听,此奇事在往昔是如此发生的。

9.48.6

आदौ कृतयुगे राजन्वर्तमाने यथाविधि ।
वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन् ॥ ९.४८.६ ॥

大王,初时正值克里多时代,诸天依次第聚集于婆楼那前,说了这番话。

9.48.7

यथाऽस्मान्सुरराट् शक्रो भयेभ्यः पाति सर्वदा ।
तथा त्वमपि सर्वासां सरितां वै पतिर्भव ॥ ९.४८.७ ॥

犹如诸神之王释迦常使我们免于恐惧,你也应成为一切河流之主。

9.48.8

वासश्च ते सदा देव सागरे मकरालये ।
समुद्रोऽयं तव वशे भविष्यति नदीपतिः ॥ ९.४८.८ ॥

神啊,你的居所将永远在摩伽罗栖居的大海之中;此海将归你掌控,你将成为河流之主。

9.48.9

सोमेन सार्धं च तव हानिवृद्वी भविष्यतः ।
एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत् ॥ ९.४८.९ ॥

你的盈亏将与苏摩一同发生。“就这样吧。”婆卢那对诸神如此说道。

9.48.10

समागम्य ततः सर्वे वरुणं सागरालयम् ।
अपाम्पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा ॥ ९.४८.१० ॥

于是诸神聚集,依照规定的仪式,使居于海中的婆卢那成为水之主。

9.48.11

अभिषिच्य ततो देवा वरुणं यादसाम्पतिम् ।
जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम् ॥ ९.४८.११ ॥

随后诸神为水族之主婆卢那行灌顶礼,敬拜水之主后,各自回到了自己的住所。

9.48.12

अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः ।
सरितः सागरांश्चैव नदांश्चापि सरांसि च।
पालयामास विधिना यथा देवाञ्शतक्रतुः ॥ ९.४८.१२ ॥

受诸神灌顶的大名婆卢那,此后依规则守护江河、海洋、溪流与湖泊,犹如行百次祭祀的因陀罗守护诸神。

9.48.13

ततस्त्रत्राप्युपस्पृश्य दत्त्वा च विविधं वसु ।
अग्नितीर्थं महाप्राज्ञो जगामाथ प्रलम्बहा।
नष्टो न दृश्यते यत्र शमीगर्भे दुताशनः ॥ ९.४८.१३ ॥

他在那里也漱口净身,布施各种财物,智慧非凡的杀普拉兰巴者(大力罗摩)便前往阿耆尼渡口;那里火神隐没于沙mī树之胎中,已不可见。

9.48.14

लोकालोकविनाशे च प्रादुर्भूते तदाऽनघ ।
उपतस्थुः सुरा यत्र सर्वलोकपितामहम् ॥ ९.४८.१४ ॥

无罪者啊,当世界与非世界的毁灭降临之时,诸神便前往一切世界的祖父(梵天)处。

9.48.15

अग्निः प्रनष्टो भगवान्कारणं च न विद्महे ।
सर्वभूतक्षयो राजन्सम्पादय विभोऽनलम् ॥ ९.४८.१५ ॥

尊贵的阿耆尼已经隐没,我们不知其原因。大王啊,一切众生正在毁灭;威力无边者啊,请使火神再现。

9.48.16

किमर्थं भगवानग्निः प्रनष्टो लोकभावनाः ।
विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः ॥ ९.४८.१६ ॥

世界的养育者尊贵的阿耆尼,因何缘故隐没?诸神又是如何得知的?请如实地告诉我。

9.48.17

भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान् ।
शमीगर्भमथासाद्य ननाश भगवांस्ततः ॥ ९.४८.१७ ॥

大力的耆多婆陀(阿耆尼)因婆利古的诅咒而极度恐惧,遂进入沙mī树之胎中,尊贵的他便隐没于彼处。

9.48.18

प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः ।
अन्वैषन्त तदा नष्टं ज्वलनं भृशदुःखिताः ॥ ९.४८.१८ ॥

火神既已隐没,诸神与因陀罗一同深感悲痛,便去寻找那已失落的熊熊火焰。

9.48.19

ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि ।
ददृशुर्ज्वलनं तत्र वसमानं यथाविधि ॥ ९.४८.१९ ॥

随后,他们来到火渡口,看见火按规矩居住在沙弥树的树心之中。

9.48.20

देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः ।
ज्वलनं तं समासाद्य प्रीताऽभूवन्सवासवाः ॥ ९.४८.२० ॥

人中虎啊,以木星为首的诸天神与因陀罗一同来到那火边,心中欢喜。

9.48.21

पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत् ।
भृगोः शापान्महाभाग यदुक्तं ब्रह्मवादिना ॥ ९.४८.२१ ॥

他们沿原路返回,而他因婆利古的诅咒成为一切的吞食者,啊大福者,正如那位梵言者所说。

9.48.22

तत्राप्याप्लुत्य मतिमान्ब्रह्मशापान्मुमोच ह ॥ ९.४८.२२ ॥

他在那里也沐浴之后,这位智者从梵天的诅咒中解脱了。

9.48.23

तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा ।
ससर्ज चान्नानि तथा देवतानां यथाविधि ॥ ९.४८.२३ ॥

在那里沐浴之后,主梵天与众神一同,于往昔依法创造了食物与诸神的供品。

9.48.24

तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च ।
कौबेरं प्रययौ तीर्थं यत्र तप्त्वा महत्तपः ॥ ९.४८.२४ ॥

他在那里沐浴并布施各种财物之后,前往俱毗罗渡口,那里是他曾修大苦行之处。

9.48.25

धनाधिपत्यं सम्प्राप्तो राजन्नैलबिलः प्रभुः ॥ ९.४८.२५ ॥

君王啊,主宰者奈拉比罗获得了财富之主的权位。

9.48.26

तत्रस्थमेव तं राजन्धनानि निधयस्तथा ।
उपतद्धतुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली बलः ॥ ९.४८.२६ ॥

人中之最,君王啊,他停留在那里时,财富与宝藏都来侍奉;持犁的力王(巴拉罗摩)前往那圣渡口。

9.48.27

गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ ।
ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे ॥ ९.४८.२७ ॥

到达那里后依仪轨沐浴,他把财物施给婆罗门;在那殊胜的林中,他看见了俱毗罗的那处圣地。

9.48.28

पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना ।
यक्षराज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः ॥ ९.४८.२८ ॥

往昔,那位大德的夜叉王俱毗罗曾在此行大苦行,并在此获得了许多恩赐。

9.48.29

धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा ।
सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम् ॥ ९.४८.२९ ॥

财富之主的权位、与无量光明的楼陀罗的友谊、天性、护世之职,以及儿子纳拉俱婆罗。

9.48.30

यत्र लेभे महाबाहो धनाधिपतिरञ्जसा ।
अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः ॥ ९.४८.३० ॥

大臂者啊,财富之主在那里轻易地获得了这一地位,也在那里与风神众会合,并受到了灌顶。

9.48.31

वाहनं चास्य तद्दत्तं हंसयुक्तं मनोजवम् ।
विमानं पुष्पकं दिव्यं नैर्ऋतैश्वर्यमेव च ॥ ९.४८.३१ ॥

他又获赐那辆以天鹅驾驭、快如意念的车辆,神圣的普什帕卡飞车,以及对涅哩底诸罗刹的统治权。

9.48.32

तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान् ।
जगाम त्वरितो रामस्तीर्थं स्वेतानुलेपनः ॥ ९.४८.३२ ॥

大王啊,巴拉罗摩在那里沐浴,施予了大量布施;涂抹白色香膏的罗摩便急忙前往圣渡口。

9.48.33

निषेवितं सर्वसत्वैर्नाम्ना बदरपाचनम् ।
नानर्तुकवनोपेतं सदा पुष्पफलं शुभम् ॥ ९.४८.३३ ॥

这处名为巴达拉帕恰纳的圣渡口为一切众生所常至;其中有四季之林,常以花果而吉祥。