摩诃婆罗多 · 章 9.49
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.49.1
ततस्तीर्थवरं रामो ययौ बदरपाचनाम् ।
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता ॥ ९.४९.१ ॥
随后罗摩前往殊胜圣渡口巴达拉帕恰纳,那里为苦行者与成就者所常至,有一位持守誓戒的少女。
9.49.2
भरद्वाजस्य दुहिता रुपेणाप्रतिमा भुवि ।
श्रुतावती नाम विभो कुमारी ब्रह्मचारिणी ॥ ९.४९.२ ॥
婆罗堕阁之女,世间容貌无双,名为舍卢塔瓦蒂的少女,持守梵行,啊,大能者。
9.49.3
तपश्चचार सात्युग्रं नियमैर्बहुभिर्वृता ।
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी ॥ ९.४९.३ ॥
这位光彩照人的女子持守诸多戒律,修极严苛的苦行,决意道:“愿天神之王做我的丈夫。”
9.49.4
समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह ।
चरन्त्या नियमांस्तांस्तांस्त्रीभिस्तीव्रान्सुदुश्चरान् ॥ ९.४९.४ ॥
啊,库鲁族的栋梁,她持守那些对女子而言极为艰难的严苛戒律,许多年岁逝去了。
9.49.5
तस्यास्तु तेन वृत्तेन तपसा च विशाम्पते ।
भक्त्या च भगवान्प्रीतः परया पाकशासनः ॥ ९.४९.५ ॥
啊,人民之主,她的品行、苦行与至上的虔诚令尊者帝释天——降伏波迦者——欢喜。
9.49.6
आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः ।
आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः ॥ ९.४९.६ ॥
三十三天之主大能者,化作大德婆罗门仙人婆悉吒之形,来到她的净舍。
9.49.7
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम् ।
आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत ॥ ९.४९.७ ॥
她见到苦行严酷、为苦行者中最优者的婆悉吒,依照诸仙所见的礼仪向他致敬,婆罗多啊。
9.49.8
उवाच नियमज्ञा च कल्याणी सा प्रियंवदा ।
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो ॥ ९.४९.८ ॥
通晓誓戒、吉祥而言语和悦的她说道:“尊者,诸仙中的猛虎,主上,您有何吩咐?”
9.49.9
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत ।
शक्त्रभक्त्या च ते पाणिं न दास्यामि कथञ्चन ॥ ९.४९.९ ॥
善持誓戒者啊,今日我会依我的能力把一切都奉给您;但出于对帝释的虔敬,我绝不会把手给您。
9.49.10
व्रतैश्च नियमैश्चैव तपसा च तपोधन ।
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः ॥ ९.४९.१० ॥
苦行之宝啊,我要以誓戒、律仪和苦行来取悦三界之主帝释。
9.49.11
इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम् ।
उवाच नियमं ज्ञात्वा सांत्वयन्निव भारत ॥ ९.४९.११ ॥
如此说完,尊贵的天神仿佛微笑着看着她,知晓她的誓戒,便仿佛安慰般地说道,婆罗多啊。
9.49.12
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते ।
यदर्थमयमारम्भस्तव कल्याणि हृद्गतः ॥ ९.४९.१२ ॥
善持誓戒者啊,我知道你在行苛烈的苦行;吉祥者啊,你此番的发愿,是为了你心中所想的那个目的。
9.49.13
तच्च सर्वं यथाभूतं भविष्यति वरानने ।
तपसा लभ्यते सर्वं यथाभूतं भविष्यति ॥ ९.४९.१३ ॥
美面者啊,那一切都将按其本然而实现。一切皆可由苦行获得;将按其本然而实现。
9.49.14
यथा स्थानानि दिव्यानि विबुधानां शुभानने ।
तपसा तानि प्राप्याणि तपोमूलं महात्सुखम् ॥ ९.४९.१४ ॥
善面者啊,诸神的天界居所,可由苦行而得;苦行的根本之中有大乐。
9.49.15
इति कृत्वा तपो घोरं देहं सन्न्यस्य मानवाः ।
देवत्वं यान्ति कल्याणि शृणुष्वैकं वचो मम ॥ ९.४९.१५ ॥
如此行那严酷的苦行,舍弃身体之后,人们便得到神性。吉祥者啊,请听我的一句话。
9.49.16
प़ञ्च चैतानि सुभगे बदराणि शुभव्रते ।
पचेत्युक्त्वा तु भगवाञ्जगाम बलसूदनः ॥ ९.४९.१६ ॥
他说:「善福者啊,善誓者啊,把这五枚枣子煮了吧。」说完,那位应受敬拜的杀伐者(因陀罗)便离去了。
9.49.17
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः ।
अविदूरे ततस्तस्मादाश्रमात्तीर्थमुत्तमम् ॥ ९.४९.१७ ॥
他招呼那位吉祥女子后,便念诵咒语。离那净修林不远处,有一处至上的圣地渡口。
9.49.18
तच्च तीर्थं महाराज यत्र जप्यं जजाप सः ।
इन्द्रतीर्थेतिविख्यातं त्रिषु लोकेषु मानद ॥ ९.४९.१८ ॥
大王啊,那处圣地渡口正是他念诵咒语之处;它在三界之中以因陀罗圣地而闻名,施敬者啊。
9.49.19
तस्य जिज्ञासनार्थं स भगवान्पाकशासनः ।
बदराणामपचनं चकार विबुधाधिपः ॥ ९.४९.१९ ॥
为了考验他,尊贵的因陀罗(帕迦的惩罚者、诸天之主)煮起了枣子。
9.49.20
ततः प्रतप्ता सा राजन्वाग्यता विगतक्लमा ।
तत्परा शुचिसंवीता पावके समधिश्रयत्।
अपचद्राजशार्दूल बदराणि महाव्रता ॥ ९.४९.२० ॥
于是,大王啊,她身体发热,缄默不语,不感疲倦,专心致志,身着洁净衣服,将枣子放在火上煮熟,王中之虎啊,持大誓者。
9.49.21
तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ ।
न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात् ॥ ९.४९.२१ ॥
她煮的时候,很长时间过去了,人中之牛啊。那些枣子没有煮熟,白天也过去了。
9.49.22
हुताशनेन दग्धश्च यस्तस्याः काष्ठसञ्चयः ।
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत् ॥ ९.४९.२२ ॥
她的柴堆被火烧尽了,她看到没有柴的火,便焚烧了自己的身体。
9.49.23
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना ।
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघ ॥ ९.४९.२३ ॥
她先将双脚投入火中,美貌的她,无罪者啊,将烧焦的双脚一次又一次地翻转。
9.49.24
चरणे दह्यमाने च नाचिन्तयदनिन्दिता ।
दुःखं कमलपत्राक्षी महर्षिप्रियकाम्यया ॥ ९.४९.२४ ॥
她的双脚燃烧着,这位无可指责、眼如莲瓣的女子却不去想痛苦,只为讨大仙人的欢心。
9.49.25
न वैमनस्यं तस्यास्तु मुखभेदोऽथवाऽभवत् ।
शरीरमग्निना दीप्य जलमध्ये यथा स्थिता ॥ ९.४९.२५ ॥
她心中并无沮丧,面色也未改变;尽管身体被火焚烧,她却仿佛站在水中一般。
9.49.26
तच्चास्याः पचने यत्नं न न्यवर्तत भारत ।
सर्वथा बदराण्येव पक्तव्यानीति कन्यका ॥ ९.४९.२६ ॥
婆罗多啊,她煮食的努力并未停止;那少女心想:“无论如何,只须煮枣子。”
9.49.27
सा तन्मनसि कृत्वैव महर्षेर्वचनं शुभा ।
अपचद्बदराण्येव न चापच्यन्त भारत ॥ ९.४९.२७ ॥
那位贤淑的少女将大仙人的话铭记于心,只煮了枣子;婆罗多啊,其他什么也没有煮。
9.49.28
तस्यास्तु चरणौ वह्निर्ददाह भगवान्स्वयम् ।
न च तस्या मनोदुःखं स्वल्पमप्यभवत्तदा ॥ ९.४९.२८ ॥
火神亲自烧伤了她的双足,然而那时她心中连一丝一毫的悲伤也未生起。
9.49.29
अथ तत्कर्म दृष्ट्वाऽस्याः प्रीतस्त्रिभुवनेश्वरः ।
ततः सन्दर्शयामास कन्यायै रूपमात्मनः ॥ ९.४९.२९ ॥
三界之主见她此举,心中欢喜,便向那少女显示了自己的身形。
9.49.30
उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम् ।
प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च ॥ ९.४९.३० ॥
诸神中最殊胜者对那位坚守誓愿的少女说:“吉祥的人啊,我因你的虔诚、苦行与戒律而心生欢喜。”
9.49.31
तस्माद्योऽभिमतः कामः स ते सम्पत्स्यते शुभे ।
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि ॥ ९.४९.३१ ॥
因此,吉祥者啊,你所愿的心愿将得以实现。大福者啊,舍弃身体后,你将与我同住于天界。
9.49.32
इदं च ते तीर्थवरं स्थिरं लोके भविष्यति ।
सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम्।
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम् ॥ ९.४९.३२ ॥
这最殊胜的圣渡口将以你的名字永存于世。美眉者啊,它能消除一切罪恶,将在三界以“Badarapācana”之名闻名,梵仙们都会在此沐浴。
9.49.33
अस्मिन्खलु महाभागे शुभे तीर्थवरेऽनघे ।
त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम् ॥ ९.४९.३३ ॥
确实,大福者、吉祥者、无垢者啊,正是在这最殊胜的圣渡口,七仙离开了你,与阿鲁昌蒂一同前往雪山。
9.49.34
ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः ।
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल ॥ ९.४९.३४ ॥
于是那些大福者、极其自律的仙人前往那里,为了谋生而去采集果实与根茎。
9.49.35
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने ।
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी ॥ ९.४९.३५ ॥
当他们在雪山林中居住、谋求生计之时,便遭遇了长达十二年的旱灾。
9.49.36
ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः ।
अरुन्धत्यपि कल्याणी तपोनित्याऽभवत्तदा ॥ ९.४९.३६ ॥
他们在那里建立了修行处而居住;吉祥的阿鲁昌蒂从此也恒常修行苦行。
9.49.37
अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम् ।
अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा ॥ ९.४९.३७ ॥
见阿伦陀蒂坚持严苛的誓戒,三目者、极为欢喜的赐恩者便来到了那里。
9.49.38
ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः ।
तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे ॥ ९.४९.३८ ॥
于是名声显赫的大天化作婆罗门,走近她说道:“吉祥的女子啊,我想要乞食。”
9.49.39
प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना ।
क्षीणोऽन्नसञ्चयो विप्र बदराणीह भक्षय ॥ ९.४९.३९ ॥
那位容貌美丽的女子回答那婆罗门说:“婆罗门啊,我的粮食储备已经耗尽;请在这里吃枣子吧。”
9.49.40
ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते ।
इत्युक्ता साऽपचत्तानि ब्राह्मणप्रियकाम्यया।
अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी ॥ ९.४९.४० ॥
于是大天说:“持善誓的女子啊,把这些煮了吧。”被这样吩咐后,那位名声显赫的女子为了取悦婆罗门,把它们放在燃烧的火上煮熟了枣子。
9.49.41
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा ।
अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी ॥ ९.४९.४१ ॥
那时,她听到了神圣、优美、清净的故事。那持续十二年的可怕旱灾也过去了。
9.49.42
अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः ।
दिनोपमः स तस्याथ कालोऽतीतः सुदारुणः ॥ ९.४९.४२ ॥
她不进食,一边烹煮,一边聆听吉祥的故事,那极其可怕的时光对她而言便如一日般过去了。
9.49.43
ततस्तु मुनयः प्राप्ताः फलान्यादाय पर्वतात् ।
ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं ततः ॥ ९.४९.४३ ॥
于是诸仙人从山上取来果实归来。然后,世尊欢喜,对阿仑达蒂说道。
9.49.44
उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन् ।
प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च ॥ ९.४९.४४ ॥
如从前一样走近这些仙人吧,精通法的女子。精通法的女子,我因你的苦行与戒律而欢喜。
9.49.45
ततः सन्दर्शयामास स्वरूपं भगवान्हरः ।
ततोऽब्रवीत्तदा तेभ्यस्तस्याश्च चरितं महत् ॥ ९.४९.४५ ॥
于是世尊哈拉显示了自己的形象。然后他向他们讲述了她伟大的行为。
9.49.46
भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम् ।
अस्यास्च यत्तपो विप्रा न समं तन्मतं मम ॥ ९.४९.४६ ॥
你们在喜马拉雅山脊上所积累的苦行,以及她的苦行,诸位婆罗门啊,在我看来并不相等。
9.49.47
अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम् ।
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः ॥ ९.४९.४७ ॥
这位苦行女完成了极其艰难的苦行;不食,而只是烹煮,十二年便圆满了。
9.49.48
ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः ।
वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि ॥ ९.४९.४८ ॥
于是世尊又对那位阿仑达蒂说:吉祥的女子啊,请选择你心中所愿的恩赐。
9.49.49
साऽब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि ।
भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमद्भुतम् ॥ ९.४९.४९ ॥
那位眼睛宽大泛红的女子在七仙的集会上对神说:"尊贵的主啊,若您对我感到满意,愿此地出现这处奇妙的圣渡(tīrtha)。"
9.49.50
सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम् ।
तथाऽस्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः ॥ ९.४९.५० ॥
受成就者、天神与仙人所喜爱,名为"巴达拉煮"(Badara-pācana)。神中之神啊,凡在此清净住三夜者……
9.49.51
प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम् ।
एवमस्त्विति तां देवः प्रत्युवाच तपस्विनीम् ॥ ९.४९.५१ ॥
借由斋戒,当得十二年之果报。」天神回答那位苦行女:「就如此吧。」
9.49.52
सप्तर्षिभिः स्तुतो देवस्ततो लोकं ययौ तदा ।
ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम्।
अश्रान्तां चाविवर्णां च क्षुत्पिपासाऽसमायुताम् ॥ ९.४९.५२ ॥
七仙赞颂之后,天神便回到自己的世界。诸仙惊讶不已;见到阿伦达蒂——不知疲倦,面色不变,不受饥渴所扰——他们更加惊异。
9.49.53
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया ।
यथा त्वया महाभागे मदर्थे संशितव्रते ॥ ९.४९.५३ ॥
如此,纯净的阿伦达蒂获得了至高的成就,正如你为了我而做到的那样,啊大福德者,啊持守坚定誓愿者。
9.49.54
विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः ।
तथा चेदं ददाम्यद्य नियमेन सुतोषितः।
विशेषं तव कल्याणि प्रयच्छामि वरं वरे ॥ ९.४९.५४ ॥
啊吉祥者,你在此誓愿中表现出特别的奉献。因此我极为满意,今日依规则赐予你此福。啊吉祥者,我赐你一项特殊的恩赐;请择取你的恩赐。
9.49.55
अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना ।
तस्य चाहं प्रभावेन तव कल्याणि तेजसा।
प्रवक्ष्यामि परं भूयो वरमत्र यथाविधि ॥ ९.४९.५५ ॥
凭着那位大德赐予阿伦陀蒂的恩惠之力,以及你的光辉,吉祥的女子啊,我将依礼在此再宣说一项殊胜的恩惠。
9.49.56
यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः ।
सस्नात्वा प्राप्स्यते लोकान्देहन्यासात्सुदुर्लभान् ॥ ९.४९.५६ ॥
若有人以专注之心在圣渡口住一夜并在那里沐浴,他舍弃身体后将获得极难得到的诸界。
9.49.57
इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान् ।
श्रुतावतीं ततः पुण्यां जगाम त्रिदिवं पुनः ॥ ९.४९.५७ ॥
说完这些,威力强大的千眼神便离开了圣洁的悉律陀伐提,重返天界。
9.49.58
गते वज्रधरे राजंस्तत्र वर्षं पपात ह ।
पुष्पाणां भरतश्रेष्ठ दिव्यानां पुण्यगन्धिनाम् ॥ ९.४९.५८ ॥
持金刚者离去之后,大王啊,那里降下一场带有圣洁芬芳的天界花雨,婆罗多之最啊。
9.49.59
दवदुन्दुभयश्चापि नेदुस्तत्र महास्वनाः ।
मारुतश्च ववौ पुण्यः पुण्यगन्धो विशाम्पते ॥ ९.४९.५९ ॥
那里神鼓也大声轰鸣,主人啊,一阵带着圣洁芬芳的风吹起。
9.49.60
उत्सृज्य तु शुभा देहं जगामास्य च भार्यताम् ।
तपसोग्रेण तं लब्ध्वा तेन रेमे सहाच्युत ॥ ९.४९.६० ॥
吉祥的女子舍弃身体,成为他的妻子;她以严酷苦行得到他,与他共享欢乐,无失者啊。
9.49.61
का तस्या भगवन्माता क्व संवृद्धा च शोभना ।
श्रोतुमिच्छाम्यहं विप्र परं कौतूहलं हि मे ॥ ९.४९.६१ ॥
她的母亲是谁?那位光彩照人的少女在何处长大?尊者啊,婆罗门啊,我很想听,我的好奇心非常强烈。
9.49.62
भरद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः ।
दृष्ट्वाऽप्सरसमायान्तीं घृताचीं पृथलोचनाम् ॥ ९.४९.६२ ॥
当伟大的婆罗门仙人跋罗堕遮看见大眼的天女घृताची走来时,他的精液泄出了。
9.49.63
स तु जग्राह तद्रेतः करेण जपतां वरः ।
तदाऽपतत्पर्णपुटे तत्र सा सम्भवत्सुता ॥ ९.४९.६३ ॥
那位最优秀的诵经者用手接住了那精液;它随即落入一个叶杯中,女儿便在那里诞生了。
9.49.64
तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः ।
नाम चास्याः स कृतवान्भरद्वाजो महामुनिः ॥ ९.४९.६४ ॥
这位以苦行为财富的大仙人跋罗堕遮为她完成了诞生礼等一切仪式,并为她取了名字。
9.49.65
श्रुतावतीति धर्मात्मा देवर्षिगणसंसदि ।
स्वे च तामाश्रमे न्यस्य जगाम हिमवद्वनम् ॥ ९.४९.६५ ॥
这位正直者在诸神与仙人的集会上将她命名为“闻名”(Śrutāvatī),把她安置在自己的修行处,然后前往喜马拉雅森林。
9.49.66
तत्राप्युपस्पृश्य महानुभावो ।
वसूनि दत्त्वा च महाद्विजेभ्यः।
जगाम तीर्थं सुसमाहितात्मा ।
शक्रस्य वृष्णिप्रवरस्तदानीम् ॥ ९.४९.६६ ॥
那位大能之人在那里净身漱口,把财富布施给伟大的婆罗门,然后心神安定地前往因陀罗的圣渡口——那时,他是毗湿尼族中最卓越的人。