Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 9.51

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

9.51.1

तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः ।
गार्हस्थ्यं धर्ममास्थाय असितो देवलः पुरा ॥ ९.५१.१ ॥

その同じ場所に、かつて法を重んじ苦行を富とする阿私多と提婆羅が、家住期の義務を取って住んでいた。

9.51.2

धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः ।
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु ॥ ९.५१.२ ॥

常に法に安住し、清らかで自制し、杖を捨てた大苦行者であり、行い・思い・言葉において一切の生きものに平等であった。

9.51.3

अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियः ।
काञ्चने लोष्टके चैव समदर्शी महातपाः ॥ ९.५१.३ ॥

大王よ、彼は怒りなく、非難と称賛、好と不好に等しく、黄金と土くれを同じものと見る大苦行者であった。

9.51.4

देवताः पूजयन्नित्यमतिथींश्च द्विजैः सह ।
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः ॥ ९.५१.४ ॥

彼は常に神々を供養し、再生族とともに客人をもてなした。常に梵行を喜び、いつも法に専念していた。

9.51.5

ततोऽभ्येत्य महाराज योगमास्थाय भिक्षुकः ।
जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः ॥ ९.५१.५ ॥

大王よ、その後、賢者ジャイギーシャヴィヤはヨーガを取り、托鉢僧としてその聖地に来て、心を集中して留まった。

9.51.6

देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः ।
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः ॥ ९.५१.६ ॥

王よ、その大光輝の人はデーヴァラの庵に住んだ。大王よ、常にヨーガに専念した大苦行者は成就を得た。

9.51.7

तं तत्र वसमानं तु जैगीषव्यं महामुनिम् ।
देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः ॥ ९.५१.७ ॥

そこに住む大聖者ジャイギーシャヴィヤを、デーヴァラは示すかのようにしながらも、ダルマに従って合一しなかった。

9.51.8

एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत् ।
जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः ॥ ९.५१.८ ॥

大王よ、こうして二人には長い時間が過ぎたが、デーヴァラは聖者ジャイギーシャヴィヤを見なかった。

9.51.9

आहारकाले मतिमान्परिव्राड्जनमेजय ।
उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् ॥ ९.५१.९ ॥

ジャナメージャヤよ、食事の時、賢明な遊行者、ダルマを知る者が托鉢の時にデーヴァラのもとへ近づいた。

9.51.10

स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम् ।
गौरवं परमं चक्रे प्रीतिं च विपुलां तथा ॥ ९.५१.१० ॥

托鉢者の姿でそこに来た大聖者を見て、彼は最高の敬意と豊かな愛情を示した。

9.51.11

देवलस्तु यथाशक्ति पूजयामास भारत ।
ऋषिदृष्टेन विधिना समा बह्व्यः समाहितः ॥ ९.५१.११ ॥

バーラタよ、デーヴァラは自分の力に応じ、聖仙たちが見た儀軌によって、心を集中させ、長年にわたって彼を供養した。

9.51.12

कदाचित्तस्य नृपते देवलस्य महात्मनः ।
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् ॥ ९.५१.१२ ॥

王よ、ある時、その大いなる魂のデーヴァラの心に、輝かしい聖者を見て大きな憂いが生じた。

9.51.13

समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम ।
न चायमलसो भिक्षुरभ्यभाषत किञ्चन ॥ ९.५१.१३ ॥

私が彼を供養してから多くの年月が過ぎたが、怠けることのないこの托鉢僧は何も語らなかった。

9.51.14

एवं विगणयन्नेव स जगाम महोदधिम् ।
अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलः ॥ ९.५१.१४ ॥

このように数えながら彼は大海へ向かった。空中を行く栄えある デーヴァラは水瓶を手に取って行った。

9.51.15

गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम् ।
जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत ॥ ९.५१.१५ ॥

歩みながら、その義に満ちた人は、先に既に行っていたジャイギーシャヴィヤを、河の主たる海で見た。バーラタよ。

9.51.16

ततः सविस्मयश्चिन्तां जगामाथासितः प्रभुः ।
कथं भिक्षुरयं प्राप्तः समुद्रे स्नात एव च ॥ ९.५१.१६ ॥

そこで驚嘆した主アシタは思い悩んだ。「この托鉢僧はどうして海に着き、しかもそこで沐浴まで済ませたのか。」

9.51.17

इत्येवं चिन्तयामास महर्षिरसितस्तदा ।
स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप ह ॥ ९.५१.१७ ॥

大仙アシタはそのように思い巡らした。それから規定どおり海で沐浴し、清浄になって、ジャパを唱えた。

9.51.18

कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह ।
कलशं जलपूर्णं वै गृहीत्वा जनमेजय ॥ ९.५१.१८ ॥

ジャパと日々の儀礼を終えた栄えあるアシタは、水で満たした水瓶を手に、庵へ向かった。ジャナメージャヤよ。

9.51.19

ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः ।
आसीनमाश्रमे तत्र जैगीषव्यमपश्यत ॥ ९.५१.१९ ॥

その聖者が自分の庵の敷地に入るとすぐに、庵の中に座っているジャイギーシャヴィヤを見た。

9.51.20

न व्याहरति चैवैनं जैगीषव्यः कथञ्चन ।
काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः ॥ ९.५१.२० ॥

ジャイギーシャヴィヤは彼に決して口を利かなかった。その大苦行者は庵の中で、薪のように動かずに暮らしていた。

9.51.21

तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम् ।
प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः ॥ ९.५१.२१ ॥

海の水に沈んでいる、海そのもののような彼を見て、そして既に先に庵に入っていた彼をも、その人は見た。

9.51.22

असितो देवलो राजंश्चिन्तयामास बुद्धिमान् ।
दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम् ॥ ९.५१.२२ ॥

王よ、賢者アシタ・デーヴァラは思い巡らし始めた。ジャイギーシャヴィヤのヨーガから生じた苦行の力を見たからである。

9.51.23

चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः ।
मया दृष्टः समुद्रे च आश्रमे च कथं त्वयम् ॥ ९.५१.२३ ॥

王中の王よ、そのとき最も優れた聖者は思った。私は彼を海の中でも見たし、庵の中でも見た。どうしてこのようなことがあり得るのか、と。

9.51.24

एवं विगणयन्नेव स मुनिर्मन्त्रपारगः ।
उत्पपाताश्रमात्तस्मादन्तरिक्षं विशां पते ॥ ९.५१.२४ ॥

このように思いをめぐらしていたとき、真言に通じたその聖者は、人の主よ、庵から空へと舞い上がった。

9.51.25

सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान् ।
जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत ॥ ९.५१.२५ ॥

彼は空中を行き、心を集中した成就者たちを見た。そして、その成就者たちに崇められているジャイギーシャヴィヤをも見た。

9.51.26

ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः ।
अपश्यद्वै दिवं यान्तं जैगीषव्यं स देवलः ॥ ९.५१.२६ ॥

そのとき、激しく興奮し、決意堅固で誓いの固い提婆羅は、ジャイギーシャヴィヤが天へ向かうのを見た。

9.51.27

तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत ।
पितृलोकाच्च तं यान्तं याम्यं लोकमपश्यत ॥ ९.५१.२७ ॥

そこから彼が祖霊界へ行くのを見た。そして祖霊界から彼がヤマの世界へ行くのを見た。

9.51.28

तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम् ।
व्रजन्तमन्वपश्यत्स जैगीषव्यं महामुनिम् ॥ ९.५१.२८ ॥

そこからも舞い上がり、彼は称えられる月の世界へ向かう大聖者ジャイギーシャヴィヤを見た。

9.51.29

लोकान्समुत्पतन्तं च शुभानेकान्तयाजिनाम् ।
ततोऽग्निहोत्रिणां लोकांस्तेभ्यश्चाप्युत्पपात ह ॥ ९.५१.२९ ॥

彼は、一心に祭祀する者たちの吉祥な世界へ昇っていくのを見た。それから火祭者たちの世界へ、そしてそれらをも越えて昇った。

9.51.30

दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः ।
तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम् ॥ ९.५१.३० ॥

新月祭と満月祭を行う苦行を富とする者たちの世界から、また獣を供犠する者たちの世界から、その賢者は見られた。

9.51.31

चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः ।
तेषां स्थानं तथा यान्तं तथाग्निष्टोमयाजिनाम् ॥ ९.५१.३१ ॥

苦行を富とする修行者たちが行う種々の四月祭、そしてアグニシュトーマ祭を行う者たちの住処をも、彼は見た。

9.51.32

अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः ।
तत्स्थानमनुसम्प्राप्तमन्वपश्यत देवलः ॥ ९.५१.३२ ॥

苦行を富とする者たちはアグニシュトゥタ祭によっても同様に祭祀を行う。その場所に到達したデーヴァラはそれを見た。

9.51.33

वाजपेयं क्रतुवरं तथा बहुसुवर्णकम् ।
आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत ॥ ९.५१.३३ ॥

大いなる智者たちは最勝の祭祀ヴァージャペーヤと、多くの黄金を伴う祭祀を執り行う。彼らの諸世界に、彼はそれを見た。

9.51.34

यजन्ते पुण्डरीकेण राजसूयेन चैव ये ।
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥ ९.५१.३४ ॥

プンダリーカ祭とラージャスーヤ祭によって祭祀を行う者たち。その諸世界でデーヴァラはジャイギーシャヴィヤをも見た。

9.51.35

अश्वमेधं क्रतुवरं नरमेधं तथैव च ।
आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत ॥ ९.५१.३५ ॥

人中の最勝者たちは最勝の祭祀アシュヴァメーダ、またナラメーダを執り行う。彼らの諸世界に、彼はそれを見た。

9.51.36

सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये ।
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥ ९.५१.३६ ॥

得がたいサルヴァメーダ祭とサウトラーマニー祭を行う者たち。その諸世界でデーヴァラはジャイギーシャヴィヤをも見た。

9.51.37

द्वादशाहैश्च सत्रैर्ये यजन्ते विविधैर्नृप ।
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥ ९.५१.३७ ॥

王よ、十二日祭や様々なサットラ祭で供犠を行う者たちの世界で、デーヴァラはジャイギーシャヴィヤを見た。

9.51.38

मित्रावरुणयोर्लोकानादित्यानां तथैव च ।
सलोकतामनुप्राप्तमपश्यत ततोऽसितः ॥ ९.५१.३८ ॥

そしてアシタは、ミトラとヴァルナの世界、同様にアーディティヤたちの世界を見、また同じ世界に至った者たちを見た。

9.51.39

रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः ।
तानि सर्वाण्यतीतं च समपश्यत्ततोऽसितः ॥ ९.५१.३९ ॥

それらすべて、ルドラたちとヴァスたちの住処、そしてブリハスパティの住処を越えて、アシタはそのとき全てを完全に見た。

9.51.40

आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम् ।
लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः ॥ ९.५१.४० ॥

牛の世界に登り、アシタはブラフマ・サットラを行う者たちの世界へ向かうジャイギーシャヴィヤを見た。

9.51.41

त्रीँल्लोकानपरान्विप्रमुत्पतन्तं स्वतेजसा ।
पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत ॥ ९.५१.४१ ॥

彼は自らの光輝によって三つの世界およびその他の世界へ舞い上がり、夫に貞淑な妻たちの世界へ向かうその賢者を見た。

9.51.42

ततो मुनिवरं भूयो जैगीषव्यमथासितः ।
नान्वपश्यत योगस्थमन्तर्हितमरिंदम ॥ ९.५१.४२ ॥

そのとき、アシタは最高の聖者ジャイギーシャヴィヤを再び見ることができなかった。彼はヨーガに安住して姿を消していたのだ。敵を制する者よ!

9.51.43

सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः ।
प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् ॥ ९.५१.४३ ॥

大いなる福徳を持つデーヴァラは、ジャイギーシャヴィヤの威力、その堅固な誓い、そしてヨーガの比類なき成就を思った。

9.51.44

असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान् ।
प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मसत्रिणः ॥ ९.५१.४४ ॥

そのとき、アシタは敬虔に合掌し、心を堅くして、ブラフマ祭を行う世界の最上の成就者たちに尋ねた。

9.51.45

जैगीषव्यं न पश्यामि तं शंसत महौजसम् ।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥ ९.५१.४५ ॥

私はジャイギーシャヴィヤが見えません。あの大いなる力の人について語ってください。私はこれを聞きたい、大きな好奇心があるのです。

9.51.46

शृणु देवल भूतार्थं शंसतां नो दृढव्रत ।
जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोऽव्ययम् ॥ ९.५१.४६ ॥

堅く誓いを守るデーヴァラよ、われらの語る真実を聞け。ジャイギーシャヴィヤはブラフマンの永遠で不滅の世界へ行ってしまった。

9.51.47

स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम् ।
असितो देवलस्तूर्णमुत्पपात पपात च ॥ ९.५१.४७ ॥

ブラフマ祭を行うそれら成就者たちの言葉を聞くと、アシタ=デーヴァラはすぐに立ち上がり、そしてまた倒れた。

9.51.48

ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह ।
न देवल गतिस्तत्र तव गन्तुं तपोधन ॥ ९.५१.४८ ॥

そこで、かの成就者たちは再びデーヴァラに言った。デーヴァラよ、苦行の宝よ、そこへ行くことはあなたの道ではない。

9.51.49

तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः ।
आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह ॥ ९.५१.४९ ॥

成就者たちの言葉を聞いて、デーヴァラは再び順にそれらすべての世界へ降りていった。

9.51.50

स्वमाश्रमपदं पुण्यमाजगाम पतङ्गवत् ।
प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः ॥ ९.५१.५० ॥

デーヴァラは鳥のように自分の聖なる庵に来て、入るやいなやジャイギーシャヴィヤを見た。

9.51.51

ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया ।
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम् ॥ ९.५१.५१ ॥

そこでデーヴァラは法に適った知性で考え、ジャイギーシャヴィヤのヨーガから生じた苦行の力を見た。

9.51.52

ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलः ।
विनयावनतो राजन्नुपसर्प्य महामुनिम् ॥ ९.५१.५२ ॥

そこで謙虚に身をかがめたデーヴァラは、王よ、大聖者に近づき、偉大なるジャイギーシャヴィヤに語った。

9.51.53

तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः ।
विधिं च योगस्य परं कार्याकार्यं च शास्त्रतः ॥ ९.५१.५३ ॥

彼の言葉を聞いて、彼は教えを授けた。ヨーガの最高の方法と、聖典に従って為すべきことと為すべからざることを。

9.51.54

संन्यासकृतबुद्धिं तं ततो दृष्ट्वा महातपाः ।
सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा ॥ ९.५१.५४ ॥

出家に心を定めた彼を見て、その大苦行者は定められた規則に従って、彼のすべての儀式を執り行った。

9.51.55

संन्यासकृतबुद्धिं तं भूतानि पितृभिः सह ।
ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति ॥ ९.५१.५५ ॥

出家の心を定めた彼を見て、祖霊たちとともに生き物たちは声をあげて泣いた。「now 誰が我々を分けてくれるのか」と。

9.51.56

देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा ।
दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे ॥ ९.५१.५६ ॥

デーヴァラは十方で叫ぶ生き物たちの哀れな言葉を聞き、解脱を捨てる心を定めた。

9.51.57

ततस्तु फलमूलानि पवित्राणि च भारत ।
पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः ॥ ९.५१.५७ ॥

そのとき、バーラタよ、果実や根、清らかな花や薬草までも、幾千となく泣いた。

9.51.58

पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः ।
अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते ॥ ९.५१.५८ ॥

またしても、この卑しく邪な心のデーヴァラは、きっと我らを断ち切るだろう。すべての生き物に無畏を与えながら、それに気づかぬ者だ。

9.51.59

ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः ।
मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत् ॥ ९.५१.५९ ॥

そこでその最上の聖仙は再び自らの智慧で考えた。解脱と家住期の法と、どちらがより益となるだろうかと。

9.51.60

इति निश्चित्य मनसा देवलो राजसत्तम ।
त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत् ॥ ९.५१.६० ॥

王の中の最上の者よ、心にこのように決めて、デーヴァラは家住期の法を捨て、解脱の法を好んだ。

9.51.61

एवमादीनि सञ्चिन्त्य देवलो निश्चयात्ततः ।
प्राप्तवान्परमां सिद्धिं परं योगं च भारत ॥ ९.५१.६१ ॥

このように思いめぐらして、デーヴァラは固い決意によって最高の成就と最高のヨーガを得た、バーラタよ。

9.51.62

ततो देवाः समागम्य बृहस्पतिपुरोगमाः ।
जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः ॥ ९.५१.६२ ॥

それからブリハスパティを先頭に神々が集まり、ジャイギーシャヴィヤの苦行を称賛した。苦行者たちもそうした。

9.51.63

अथाब्रवीदृषिवरो देवान्वै नारदस्तदा ।
जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम् ॥ ९.५१.६३ ॥

そのとき、聖仙の中で最も優れたナーラダは神々に言った、「ジャイギーシャヴィヤには苦行がない。彼はアシタさえ驚かせるのだ」と。

9.51.64

तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः ।
मैवमित्येव शंसन्तो जैगीषव्यं महामुनिम् ॥ ९.५१.६४ ॥

このように語るナーラダ(堅固な者)に神々は答えた、「そうではない」と。そして大聖者ジャイギーシャヴィヤを称賛し続けた。

9.51.65

तत्राप्युपस्पृश्य ततो महात्मा दत्त्वा च वित्तं हलभृद्द्विजेभ्यः ।
अवाप्य धर्मं परमार्यकर्मा जगाम सोमस्य महत्स तीर्थम् ॥ ९.५१.६५ ॥

そこでも口をすすぎ清めた後、その大いなる魂の持犁者(バラフラーマ)はバラモンたちに富を施し、最高に高貴な行いによってダルマを得て、ソーマの大聖地へ向かった。