摩诃婆罗多 · 章 9.52
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.52.1
यत्रेजिवानुडुपती राजसूयेन भारत ।
यस्मिन्वृत्ते महानासीत्सङ्ग्रामस्तारकामयः ॥ ९.५२.१ ॥
婆罗多的后裔啊,月神在那里举行了罗阇苏耶祭,此后发生了一场与陀罗迦有关的大战。
9.52.2
तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान् ।
सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह ॥ ९.५२.२ ॥
在那里,自制的巴拉在漱口净身并布施之后,前往正法之魂的仙人萨罗室伐多的圣渡口。
9.52.3
यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् ।
वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥ ९.५२.३ ॥
往昔十二年旱灾期间,萨罗室伐多仙人曾令最优秀的婆罗门学习吠陀。
9.52.4
कथं द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् ।
वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥ ९.५२.४ ॥
很久以前十二年旱灾期间,萨罗室伐多仙人是如何让最优秀的婆罗门学习吠陀的?
9.52.5
आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः ।
दधीचिरिति विख्यातो ब्रह्मचारी जितेन्द्रियः ॥ ९.५२.५ ॥
大王啊,往昔有一位名为达提质的智慧大仙,苦行极深,名声远扬,是持梵行、调伏诸根的人。
9.52.6
तस्यातितपसः शक्रो बिभेति सततं विभो ।
न स लोभयितुं शक्यः फलैर्बहुविधैरपि ॥ ९.५२.६ ॥
主啊,帝释天时常畏惧那位苦行极深的人;即便以各种果实引诱,也无法使他动心。
9.52.7
प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः ।
दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम् ॥ ९.५२.७ ॥
为了诱惑他,帕迦之敌因陀罗便派遣了天界、纯洁且极其美丽的天女阿兰布沙。
9.52.8
तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः ।
समीपतो महाराज सोपातिष्ठत भामिनी ॥ ९.५२.८ ॥
大王啊,当那位大德在萨拉斯瓦蒂河畔向众神献祭水供时,那位美丽的女子走到他身边站立。
9.52.9
तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः ।
रेतः स्कन्नं सरस्वत्यां तस्मा जग्राह निम्नगा ॥ ९.५२.९ ॥
那位自制的仙人见到这位神圣形貌的女子,精液便泄入萨拉斯瓦蒂河中,河水便接住了它。
9.52.10
कुक्षौ चाप्यदधद्वृष्टा तद्रेतः पुरुषर्षभ ।
सा दधार च तं गर्भं पुत्रहेतोर्महात्मनः॥थ ॥ ९.५२.१० ॥
人中之牛啊,她将那精液置于腹中,并为了那大德之子而怀孕。
9.52.11
सुषुवे चापि समये पुत्रं सारस्वतं वरम् ।
जगाम पुत्रमादाय तमृषिं प्रति च प्रभो ॥ ९.५२.११ ॥
到了时候,她生下一个名叫萨罗斯瓦塔的优秀儿子;啊,主啊,她带着儿子去见那位仙人。
9.52.12
ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम् ।
ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम्।
ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया ॥ ९.५२.१२ ॥
在众仙人的集会中见到那位最优秀的仙人,河水便交出了儿子,并说道:啊,诸王之王,"大婆罗门仙人啊,这是你的儿子;出于对你的虔敬,我护持了他。"
9.52.13
दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम् ।
तत्कुक्षिणाऽहं ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम् ॥ ९.५२.१३ ॥
婆罗门仙人啊,你先前见到天女阿兰布沙,遂遗精;我出于对你的虔诚,将其怀于腹中。
9.52.14
न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात् ।
प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम् ॥ ९.५२.१४ ॥
坚信你的精气不应消亡,我才将其保存。请你将我所赠的这位无瑕之子视为己子而接纳。
9.52.15
इत्युक्तः प्रतिजग्राह प्रीतिं चावाप पुष्कलाम् ।
पितृवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः ॥ ९.५२.१५ ॥
听了这话,这位最优秀的再生者接纳了他,获得了无限喜悦;他如父亲一般,怀着爱意嗅吻了他的头顶。
9.52.16
परिष्वज्य चिरं कालं तदा भरतसत्तम ।
सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः ॥ ९.५२.१६ ॥
婆罗多族中最优秀的人啊,他便长久地拥抱了他;那位大仙心中欢喜,便赐予萨罗室伐蒂一个恩赐。
9.52.17
विश्वेदेवाः सपितरो गन्धर्वाप्सरसां गणाः ।
तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा ॥ ९.५२.१७ ॥
吉祥的女神啊,诸毗湿婆神与祖灵,以及乾闼婆与天女之众,受你之水的供养,都将得到满足。
9.52.18
इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम् ।
प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव ॥ ९.५२.१८ ॥
说完这话,他便以言辞赞颂那条大河。国王啊,请仔细听他是如何赞颂的,他心中欢喜,极为喜悦。
9.52.19
प्रस्रुताऽसि महाभागे सरसो ब्रह्मणः पुरा ।
जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः ॥ ९.५२.१९ ॥
大福之女啊,你古时从梵天之湖流出。河中之最,持守严格誓愿的仙人都知道你。
9.52.20
मम प्रियकरी चापि सततं प्रियदर्शने ।
तस्मात्सारस्वतं पुत्रमदधा वरवर्णिनि ॥ ९.५२.२० ॥
你常常为我做我所喜爱的事,可爱的女子,美丽的容颜,因此你生下了名为萨罗私伐多的儿子。
9.52.21
तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः ।
सारस्वत इति ख्यातो भविष्यति महातपाः ॥ ९.५२.२१ ॥
你的儿子,以你之名而闻名,养育世界的人,将被称为萨罗私伐多,成为大苦行者。
9.52.22
एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान् ।
सारस्वतो महाभागे वेदानध्यापयिष्यति ॥ ९.५२.२२ ॥
大福之女啊,在十二年的旱灾中,这位萨罗私伐多将为再生者中的最优秀者教授吠陀。
9.52.23
पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे ।
भविष्यसि महाभागे मत्प्रसादात्सरस्वति ॥ ९.५२.२३ ॥
吉祥的女子,大福的萨罗私伐底啊,凭我的恩典,你将永远是神圣河流中最神圣的一条。
9.52.24
एवं स्त संस्तुता तेन वरं लब्ध्वा महानदी ।
पुत्रमादाय मुदिता जगाम भरतर्षभ ॥ ९.५२.२४ ॥
大河被他如此赞颂,并获得了恩赐,欢喜地带着儿子离去,婆罗多族中的雄牛啊。
9.52.25
एतस्मिन्नेव काले तु विरोधे देवदानवैः ।
शक्रः प्रहरणान्विषी लोकांस्त्रीन्विचचार ह ॥ ९.५२.२५ ॥
就在那时,在诸神与阿修罗的争斗中,因陀罗在三界中寻找武器。
9.52.26
न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा ।
यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम् ॥ ९.५२.२६ ॥
那时,尊贵的因陀罗找不到适合杀死诸神之敌的武器。
9.52.27
ततोऽब्रवीत्सुराञ्शक्रो न मे शक्याः सुरारयः ।
ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः ॥ ९.५२.२७ ॥
于是因陀罗对诸神说:“没有达提者(Dadhīci)的骨头,我无法杀死诸神之敌。”
9.52.28
तस्माद्यत्नादृषिश्रेष्ठो याच्यतां कार्यसिद्धये ।
दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून् ॥ ९.५२.२८ ॥
因此,为成就此事,应恳切地向最优秀的仙人请求:“达提者,请给予你的骨头”,我们将以之击杀敌人。
9.52.29
स च तैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा ।
साहाय्यं नः कुरुष्वेति चकारैवाविचारयन् ॥ ९.५२.२९ ॥
于是,那位最优秀的仙人被诸神恳求,毫不迟疑、尽力地献出了他的骨头,说:“请帮助我们。”
9.52.30
स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा ।
तस्यास्थिभिरथो शक्रः सम्प्रहृष्टमनास्तदा ॥ ९.५२.३० ॥
这位使诸神喜悦的仙人获得了不朽的世界;那时,因陀罗心中大喜,取得了他的骨头。
9.52.31
कारयामास दिव्यानि नानाप्रहरणान्युत ।
गदा वज्राणि चक्राणि गुरून्दण्डांश्च पुष्कलान् ॥ ९.५२.३१ ॥
他令人制造了神圣的各种兵器:棍棒、金刚杵、轮盘,以及大量沉重的杖。
9.52.32
स हि तीव्रेण तपसा सम्भृतः परमर्षिणा ।
प्रजापतिसुतेनाथ भृगुणा लोकभावनः ॥ ९.५२.३२ ॥
他由梵天之子、大仙婆利古以苦行所生,是维系诸世界者。
9.52.33
अतिकायः स तेजस्वी लोकसारो विनिर्मितः ।
जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः ॥ ९.५२.३३ ॥
他被塑造为诸世界的精华,身躯巨大,光辉灿烂,重如山岳,高大无比;这位以其威德闻名的大神降生了。
9.52.34
नित्यमुद्विजते चास्य तेजसः पाकशासनः ॥ ९.५२.३४ ॥
帝释天(破邪者)因他的光辉而时常惶恐不安。
9.52.35
तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत ।
भृशं क्रोधविसृष्टेन ब्रह्मतेजोद्भवेन च।
दैत्यदानववीराणां जघान नवतीर्नव ॥ ९.५२.३५ ॥
婆罗多啊!那金刚杵由咒语加持,怀着大怒投掷,生于梵天之光,尊贵的因陀罗以它击杀了达伊提亚与檀那婆中的九十九位英雄。
9.52.36
अथ काले व्यतिक्रान्ते महत्यतिभयङ्करी ।
अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी ॥ ९.५२.३६ ॥
此后时光流逝,大王啊,降下了极为可怖的旱灾,持续了十二年。
9.52.37
तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः ।
वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम् ॥ ९.५२.३७ ॥
在那十二年的干旱中,国王啊,饥饿所苦的大仙人们为了谋生,向四面八方奔逃。
9.52.38
दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा ।
गमनाय मतिं चक्रे तं प्रोवाच सरस्वती ॥ ९.५२.३८ ॥
萨罗斯瓦塔仙人看到他们四散奔逃,便决定离去;此时萨罗室伐底对他说道。
9.52.39
न गन्तव्यमितः पुत्र तवाहारमहं सदा ।
दास्यामि मत्स्यप्रवरानुष्यतामिह भारत ॥ ९.५२.३९ ॥
孩子,不要离开这里;我将永远供给你食物。婆罗多之子啊,留在这里吧,我会给你最好的鱼。
9.52.40
इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा ।
आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन् ॥ ९.५२.४० ॥
听了这话,他满足了祖先和诸神,并日复一日地准备食物,以维持生命之气与吠陀。
9.52.41
अथ तस्यामनावृष्ट्यामतीतायां महर्षयः ।
अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात् ॥ ९.५२.४१ ॥
那场干旱过去之后,大仙人们为了诵习经典,又开始彼此相互询问。
9.52.42
तेषां क्षुधापरीतानां नष्टा देवा विधावताम् ।
सर्वेषामेव राजेन्द्र न किचित्प्रतिभाति ह ॥ ९.५२.४२ ॥
王中之王啊,对于他们所有人来说,在饥饿中奔逃的人们,诸神似乎都已消失;他们心中没有任何清晰的念头。
9.52.43
अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान् ।
कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम् ॥ ९.५२.४३ ॥
于是他们中有一位仙人前往萨拉斯瓦塔处。萨拉斯瓦塔是最优秀的仙人,意志坚定,专心诵习吠陀。
9.52.44
स गत्वाऽचष्ट तेभ्यश्च सारस्वतमृषिं प्रभुम् ।
स्वाध्यायममरप्रख्यं कुर्वाणं विजने वने ॥ ९.५२.४४ ॥
他前去告诉众人萨拉斯瓦塔的事。萨拉斯瓦塔如神明般光辉,正在空寂的森林中诵习吠陀。
9.52.45
ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः ।
सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः ॥ ९.५२.४५ ॥
于是,大王,所有大仙聚集到那里,对最优秀的仙人萨拉斯瓦塔说了这番话。
9.52.46
अस्मानध्यापयस्वेति तानुवाच ततो मुनिः ।
शिष्यत्वमुपागच्छध्वं विधिना च ममेत्युत ॥ ९.५२.४६ ॥
“请教导我们。”他们说。那位仙人便对他们说:“依法成为我的弟子吧。”
9.52.47
तत्राब्रुवन्मुनिगणा बालस्त्वमसि पुत्रक ।
स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन् ॥ ९.५२.४७ ॥
众仙人说:“你还是个孩子,孩子。”他回答他们:“我的法不会灭亡。”他又对众仙人这样说。
9.52.48
यो ह्यधर्मेण वै ब्रूयाद्गृह्णीयाद्योऽप्यधर्मतः ।
म्रियेतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ ॥ ९.५२.४८ ॥
若有人以不义说,又有人以不义受,那二人都会很快死去,或者二人都成为仇敌。
9.52.49
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ ९.५२.४९ ॥
并非因年岁,非因白发,非因财富,非因亲族,诸仙人确立了法;通晓吠陀者在我们之中最为伟大。
9.52.50
एतच्छ्रुत्वा वचस्तस्य मनुयस्ते विधानतः ।
तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे ॥ ९.५२.५० ॥
闻其此言,摩奴之后裔依法获得吠陀,于是重新确立了法。
9.52.51
षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे ।
सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात् ॥ ९.५२.५१ ॥
六万名牟尼为研习吠陀,拜婆罗门仙人萨罗私伐多为师。
9.52.52
मुष्टिं मुष्टिं ततः सर्वे दर्भाणां ते ह्युपाहरन् ।
तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः ॥ ९.५२.५२ ॥
于是众人一把一把地取来吉祥草,为那位婆罗门仙人铺设座位;他虽是孩童,他们仍服从于他。
9.52.53
तत्रापि दत्त्वा वसु रौहिणेयो ।
महाबलः केशवपूर्वजोऽथ
जगाम तीर्थं मुदितः क्रमेण ।
तं वृद्धकन्याश्रममे व वीरः ॥ ९.५२.५३ ॥
他在那里也施舍了财物,罗希尼之子、大力者、克舍婆的兄长,那位英雄欢喜地依次前往圣渡口;来到那位老处女的修行林中。