Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.53

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.53.1

कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा ।
किमर्थं च तपस्तेपे को वाऽस्या नियमोऽभवत् ॥ ९.५३.१ ॥

尊者啊,那位少女往昔是如何专心苦行的?她为何目的修行苦行,她的誓愿又是什么?

9.53.2

सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम् ।
आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता ॥ ९.५३.२ ॥

婆罗门啊,我从您那里听到这件极为艰难而至上的事。请把她如何在苦行中坚定不移的全部真相告诉我。

9.53.3

ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः ।
स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः।
तपसाऽथ सुतां सुभ्रूं समुत्पादितवान्विभुः ॥ ९.५३.३ ॥

曾有一位仙人名叫具尼·伽尔伽耶,威力强大,名声显赫。大王啊,苦行者中的最优者,他行了广大的苦行,以苦行之力使一位眉目秀美的女儿诞生。

9.53.4

तां च दृष्ट्वा मुनिः प्रीतः कुणिर्गार्ग्यो महायशाः ।
जगाम त्रिदिवं राजन्संत्यज्येह कलेवरम् ॥ ९.५३.४ ॥

见到她后,名声显赫的仙人伽尔伽耶心生欢喜。大王啊,他在此舍弃身体,升往天界。

9.53.5

सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा ।
महता तपसोग्रेण कृत्वाश्रममनिन्दिता ॥ ९.५३.५ ॥

这位眉目秀美、吉祥、眼如莲花、无可指摘的少女,以广大而猛烈的苦行,建成了一座修行的静室。

9.53.6

उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा ।
तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप ॥ ९.५३.६ ॥

她往昔以禁食礼敬祖先与诸神。大王啊,她在猛烈的苦行中,漫长的岁月流逝了。

9.53.7

सा पित्रा दीयमानापि पतिं नैच्छदनिन्दिता ।
आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत ॥ ९.५३.७ ॥

父亲将她许配,这位无可指责的少女却不愿嫁人,她也找不到与自己相配的夫婿。

9.53.8

ततः सा तपसोग्रेण पीडयित्वाऽऽत्मनस्तनुम् ।
पितृदेवार्चनरता बभूव विजने वने ॥ ९.५३.८ ॥

于是她以严酷的苦行折磨自己的身体,专心祭拜祖先与诸神,居住在荒僻的森林中。

9.53.9

साऽऽत्मानं मन्यमाना तु कृतकृत्यं श्रमान्विता ।
जगाम वृद्धभावं तु कौमारब्रह्मचारिणी ॥ ९.५३.९ ॥

她自认已完成心愿,疲惫不堪,这位自童年起便守持梵行的女子,终于步入了老年。

9.53.10

वार्धकेन च राजेन्द्र तपसा चैव कर्शिता ।
सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम् ॥ ९.५३.१० ॥

啊,诸王之主!她因衰老与苦行而憔悴,竟连自己一步接着一步地走也做不到。

9.53.11

चकार गमने बुद्धिं परलोकाय वै तदा ।
मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत् ॥ ९.५३.११ ॥

于是她决意前往彼岸世界。那纳罗陀见她想要舍弃身体,便开口说道。

9.53.12

असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे ।
एवं तु श्रुतमस्माभिर्देवलोके महाव्रते ॥ ९.५३.१२ ॥

啊,无过之人!你这未经成婚礼的少女,哪里会有你的去处?啊,持大愿者!我们在天界确是这样听说的。

9.53.13

तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः ।
तन्नारदवचः श्रुत्वा साऽब्रवीदृषिसंसदि ॥ ९.५३.१३ ॥

你已获得至高的苦行,却未征服诸界。她听了那罗陀的话,便在仙人的集会中说道。

9.53.14

तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः ।
इत्युक्तेऽस्यास्तु जग्राह पाणिं गालवसम्भवः ॥ ९.५३.१४ ॥

诸位善人啊,我愿将我苦行的一半给予执我之手的人。她这样说后,出身于伽罗婆家族的人便握住了她的手。

9.53.15

ऋषिः प्राक् शृङ्गवान्नाम समयं चेममब्रवीत् ।
समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने ॥ ९.५३.१५ ॥

往昔名为舍林伽梵的仙人曾立下此约:“美丽的女子啊,依此约定,今日我将触碰你的手。”

9.53.16

यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह ।
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा ॥ ९.५३.१६ ॥

“若你必须与我同度一夜。”他如此说。她答应道:“就这样吧。”便将手交给了他。

9.53.17

यथादृष्टेन विधिना हुत्वा चाग्निं विधानतः ।
चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः ॥ ९.५३.१७ ॥

依所见之仪轨,如法向火中供奉祭品,伽罗婆完成了执手与婚礼。

9.53.18

सा रात्रावभवद्राजंस्तरुणी वरवर्णिनी ।
दिव्याभरणवस्त्रा च दिव्यगन्धानुलेपना ॥ ९.५३.१८ ॥

国王啊,夜里她变成了一位容貌绝美的少女,身着天界的装饰与衣裳,涂抹着天界的香膏。

9.53.19

तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिव श्रिया ।
उवास च क्षपामेकां प्रभाते साऽब्रवीच्च तम् ॥ ९.५३.१९ ॥

迦婆婆见她,心中欢喜;她仿佛以美貌照亮四方。他在那里住了一夜,黎明时她对他说话。

9.53.20

यस्त्वया समयो विप्र कृतो मे तपतां वर ।
तेनोषिताऽस्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम् ॥ ९.५३.२० ॥

婆罗门啊,苦行者中最优秀的人,依照你与我所立的约定,我才留在此地。愿你吉祥安康;现在我要走了。

9.53.21

सा तु ध्यात्वाऽब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः ।
वसते रजनीमेकां तर्पयित्वा दिवौकसः ॥ ९.५३.२१ ॥

于是她思考后又说:凡在这圣地心志专一、供养诸天、住宿一夜的人……

9.53.22

चत्वारिंशतमष्टौ च द्वौ चाष्टौ सम्यगाचरेत् ।
यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः ॥ ९.५३.२२ ॥

若能在四十八年、二年、八年中如法修持梵行,便能获得其果报。

9.53.23

एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता ।
ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन् ॥ ९.५३.२३ ॥

如此说完,这位贤德女子舍弃身体升天而去。仙人也因思念她的美貌而变得黯然失落。

9.53.24

समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान् ।
साधयित्वा तदाऽऽत्मानं तस्याः स गतिमाप्तवान्।
दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः ॥ ९.५३.२४ ॥

依照约定,他勉强接受了苦行的一半。随后他完成了自我修持,得到了她的归宿。婆罗多之最啊,他因她美貌的力量而悲伤,为之所制。

9.53.25

एतत्ते वृद्वकन्याया व्याख्यातं चरितं महत् ।
तथैव ब्रह्मचर्यं च स्वर्गस्य च गतिः शुभा ॥ ९.५३.२५ ॥

如此,已为你讲述了老处女的伟大故事,以及梵行与通往天界的吉祥之路。

9.53.26

तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः ॥ ९.५३.२६ ॥

住在那里的犁杵者也听闻沙利耶已被杀死。

9.53.27

तत्रापि दत्त्वा दानानि द्विजातिभ्यः परन्तपः ।
शुशोच शल्यं सङ्ग्रामे निहतं पाण्डवैस्तदा ॥ ९.५३.२७ ॥

在那里,他也向再生者布施,那位焚烧敌人者为在战场上被般遮瓦们杀死的沙利耶悲叹。

9.53.28

समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः ।
पप्रच्छर्षिगणारामः कुरुक्षेत्रस्य यत्फलम् ॥ ९.५३.२८ ॥

马达婆从三门加湿地的门中走出,喜爱仙人集会的他问道:库卢田的果报是什么。

9.53.29

ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो ।
समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम् ॥ ९.५३.२९ ॥

啊,强大者!被夜都之狮询问后,那些大德将库卢田的全部果报,如实地向他一一讲述。