摩诃婆罗多 · 章 9.55
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.55.1
कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा देयांश्च सात्वतः ।
आश्रमं सुमहत्पुण्यमगमज्जनमेजय ॥ ९.५५.१ ॥
朱那摩遮耶啊,巡礼俱卢之野并布施之后,萨特瓦塔(力天)前往一座极大而神圣的修行林。
9.55.2
मधूकाम्रवणोपेतं प्लुक्षन्यग्रोधसङ्कुलम् ।
चिरबिल्वयुतं पुण्यं पनसार्जुनसङ्कुलम् ॥ ९.५५.२ ॥
装饰着玛度迦与芒果林,密布着波罗叉树与榕树,连着古老的毕尔瓦树,神圣,丛生着波罗蜜与阿周那树。
9.55.3
तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम् ।
पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम् ॥ ९.५५.३ ॥
看到那座以圣德为标志的殊胜修行林,耶达瓦中最优者问所有仙人:“这座殊胜的修行林属于谁?”
9.55.4
ते तु सर्वे महात्मानमूचू राजन्हलायुधम् ।
शृणु विस्तरशो राम यस्यायं पूर्वमाश्रमः ॥ ९.५५.४ ॥
他们都对这位大德、持犁者说:“大王啊,罗摩,请详细听:此修行林过去属于谁。”
9.55.5
अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम् ।
अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः ॥ ९.५५.५ ॥
此处从前毗湿奴神行了至上的苦行;他的一切永恒祭祀都依仪轨在此完成。
9.55.6
अत्रैव ब्राह्मणी वृद्वा कौमारब्रह्मचारिणी ।
योगयुक्ता दिवं याता तपोयुक्ता विशाम्पते ॥ ९.५५.६ ॥
此处曾住着一位年迈的婆罗门女,自幼守梵行;她与瑜伽相应、专注苦行,升往天界,人主啊。
9.55.7
बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः ।
सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी ॥ ९.५५.७ ॥
大王啊,大德的檀迪利耶(Śāṇḍilya)有一位光彩照人的女儿,她持守誓愿,贤德,克己,是梵行女。
9.55.8
साऽपि प्राप्य परं योगं गता स्वर्गमनुत्तमम् ।
भुक्त्वाऽश्रमेऽश्वमेधस्य फलं फलवतः शुभम् ॥ ९.५५.८ ॥
她也获得至高的瑜伽,前往无上的天界;在那结满果实的修行处,她享受了马祭的吉祥果报。
9.55.9
गता स्वर्गं महाराज पूजिता च महात्मभिः ।
अभिगम्याश्रमं पुण्यं स दृष्ट्वा यदुनन्दनः ॥ ९.५५.९ ॥
大王啊,她受到大德们的尊敬,升往天界。随后,耶杜之喜(黑天)走近那圣洁的修行处,看见了它。
9.55.10
ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः ।
सन्ध्याकार्याणि सर्वाणि निर्वर्त्यारुरुहेऽचलम् ॥ ९.५५.१० ॥
随后,阿周陀(黑天)向那些仙人致敬,在喜马拉雅山旁完成了所有晚祷,然后登上了山。
9.55.11
नातिदूरं ततो गत्वा नगं तालध्वजो बली ।
पुण्ये तीर्थवरे स्नात्वा विस्मयं परमं गतः ॥ ९.५५.११ ॥
强大的多罗旗(Tāladhvaja,即Balarāma)不远便走到山边,在圣洁殊胜的圣浴处沐浴,心中感到极大的惊奇。
9.55.12
प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः ।
सम्प्राप्तः कारपचनं तीर्थप्रवरमुत्तमम् ॥ ९.५५.१२ ॥
巴罗摩(Balarāma)到达萨拉斯瓦蒂河的源头、榕树泉,随后来到至高的圣地迦罗波遮那(Kārapacana)。
9.55.13
हलायुधस्तु तत्रापि दत्त्वा दानं महाबलः ।
आप्लुतः सलिले पुण्ये सुशीते विमले शुचौ।
सन्तर्पयामास पितॄन्देवांश्च रणदुर्मदः ॥ ९.५५.१३ ॥
那里,大力的犁杵者(Balarāma)也布施财物,在神圣、极其清凉、清澈纯净的水中沐浴,并因战斗的傲气而陶醉,使祖先与诸神得到满足。
9.55.14
तत्रोष्यैकां तु रजनीं यतिभिर्ब्राह्मणैः सह ।
मित्रावरुणयोः पुण्यं जगामाश्रममच्युतः ॥ ९.५५.१४ ॥
在那里与苦行者和婆罗门一同度过一夜后,这位不朽者前往弥triš与伐楼那的圣洁精舍。
9.55.15
इन्द्रोऽग्निरर्यमा चैव यत्र प्राक् प्रीतिमाप्नुवम् ।
तं देशं कारपचनात्स तस्मादाजगामह ॥ ९.५५.१५ ॥
他从卡拉帕恰纳来到那个地方,那里从前因因陀罗、阿耆尼与阿利耶曼而使我感到欢喜。
9.55.16
स्नात्वा तत्र च धर्मात्मा परां प्रीतिमवाप्य च ।
ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः।
उपविष्टः कथाः शुभ्राः शुश्राव यदुपुङ्गवः ॥ ९.५५.१६ ॥
他在那里沐浴,得到至高的喜悦,与诸仙人及成就者一同坐下,聆听吉祥的故事。那位正法之人、大力的雅度族最优者。
9.55.17
तथा तु तिष्ठतां तेषां नारदो भगवानृषिः ।
आजगामाथ तं देशं यत्र रामो व्यवस्थितः ॥ ९.५५.१७ ॥
他们正如此停留时,尊贵的仙人那罗陀来到罗摩所在的那个地方。
9.55.18
जटामण्डलसंवीतः कुशचीरी महातपाः ।
हेमदण्डधरो राजन्कमण्डलुधरस्तथा ॥ ९.५५.१८ ॥
头发盘成一圈,身穿吉祥草衣,大苦行者,大王啊,手持金杖,也持着净水瓶。
9.55.19
महतीं सुखशब्दां तां गृह्य वीणां मनोरमाम् ।
नृत्ये गीते च कुशलो देवब्राह्मणपूजितः ॥ ९.५५.१९ ॥
他拿起那把声音甜美、令人愉悦的大型维纳琴,精通舞蹈与歌唱,受到天神与婆罗门的尊崇……
9.55.20
प्रभवः कलहानं च नित्यं च कलहप्रियः ।
तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः ॥ ९.५५.२० ॥
这位挑起争端、总是喜好争斗的人,前往那个罗摩所在的地方。
9.55.21
प्रत्युत्थाय च तं रामः पूजयित्वा यतव्रतम् ।
देवर्षिं पर्यपृच्छत्स यथावृत्तं कुरून्प्रति ॥ ९.५५.२१ ॥
罗摩起身迎接,敬拜这位持守誓愿者,并向这位天仙询问关于俱卢族的事情,按其所发生的经过。
9.55.22
तदाऽस्याकथयद्राजन्नारदः सर्ववेदवित् ।
सर्वमेतद्यथावृत्तमतीतं कुरुसंक्षयम् ॥ ९.५५.२२ ॥
于是,大王,精通一切吠陀的那罗陀把俱卢族灭亡的全部过去情形都讲给了他听。
9.55.23
ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा ।
किमवस्थं तु तत्क्षत्रं ये तु तत्राभवन्नृपाः ॥ ९.५५.२३ ॥
于是罗希尼耶(大力罗摩)以悲伤的语气对那罗陀说:“那个刹帝利族处于何种境况?那里的国王们又怎样了?”
9.55.24
श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन ।
विस्तरश्रवणे जातं कौतूहलमतीव मे ॥ ९.५५.२४ ॥
“苦行的宝藏啊,这一切我以前都听过;但我极想详细地听闻其中的一切。”
9.55.25
पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा ।
हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः ॥ ९.५५.२५ ॥
此前毗湿摩被杀,德罗纳与信度王也同样被杀。毗迦尔滕之子迦尔纳被杀,他的大车战士之子们也被杀。
9.55.26
भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान् ।
एते चान्ये च बहवो हतास्तत्र महाबलाः ॥ ९.५५.२६ ॥
啊,罗希尼之子!薄利室罗婆、勇猛的摩德罗王沙利耶,以及这些和其他许多大力者都在那里被杀。
9.55.27
प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै ।
राजानो राजपुत्राश्च समरेष्वनिवर्तिनः ॥ ९.५५.२७ ॥
为了俱卢(难敌)所爱之人,舍弃了心爱的生命、在战斗中从不退缩的诸王与王子。
9.55.28
अहतांस्तु महाबाहो शृणु मे तत्र माधव ॥ ९.५५.२८ ॥
但是,大臂的摩陀婆啊,请听我说那些在那里未被杀死的人。
9.55.29
धार्तराष्ट्रबले शेषास्त्रयः समितिमर्दनाः ।
कृपश्च कृतवर्मा च द्रोणपुत्रश्च वीर्यवान्।
तेऽपि वै विद्रुता राम दिशो दश भयात्तदा ॥ ९.५५.२९ ॥
在持国之子的军队中,剩下的三位摧敌军者——慈悲(Kṛpa)、Kṛtavarman,以及勇猛的德罗纳之子,啊罗摩,他们也因恐惧而逃向十方。
9.55.30
दुर्योधनो हते सैन्ये विद्रुतेषु पदातिषु ।
हदं द्वैपायनं नाम विवेश भृशदुःखितः ॥ ९.५५.३० ॥
军队被杀、步兵逃散之后,极度悲痛的难敌走进了名为二岛(Dvaipāyana)的湖中。
9.55.31
शयानं धार्तराष्ट्रं तु सलिले स्तम्भिते तदा ।
पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन् ॥ ९.५५.३१ ॥
那时,般度之子与克里希那一同,以严厉的言辞折磨躺卧在水中被阻住的持国之子。
9.55.32
स तुद्यमानो बलवान्वाग्भी राम समन्ततः ।
उत्थितः स हदाद्वीरः प्रगृह्य महतीं गदाम् ॥ ९.५५.३२ ॥
罗摩啊,他被四面八方的言辞所折磨,那位强大的英雄从湖中站起,拿起了一根大棍棒。
9.55.33
स चाप्युपागतो योद्धुं भीमेन सह साम्प्रतम् ।
भविष्यति तयोरद्य युद्धं राम सुदारुणम् ॥ ९.५५.३३ ॥
他现在已来与毗摩交战。罗摩啊,今天两人之间将有一场极其惨烈的战斗。
9.55.34
यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम् ।
पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे ॥ ९.५५.३४ ॥
马达婆啊,如果你有好奇之心,就不要迟延;如果你认为合适,就去看这两位弟子之间极其可怕的战斗。
9.55.35
नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान् ।
सर्वान्विसर्जयामास ये तेनाभ्यागताः सह।
गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः ॥ ९.५५.३५ ॥
听了那罗陀的话,他礼敬了所有那些最优秀的婆罗门,并遣散了与他同来的一切人,吩咐随从道:“回德瓦拉卡去吧。”
9.55.36
सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात् ।
ततः प्रीतमनाः रामः श्रुता तीर्थफलं महत्।
विप्राणां सन्निधौ श्लोकमगायदिममच्युतः ॥ ९.५५.३६ ॥
他从那最好的山上,从普拉克沙的吉祥泉水处走下。然后,他心中欢喜,听闻圣地的大果报,在婆罗门面前唱出了这首诗。
9.55.37
सरस्वतीवाससमा कुतो रतिः ।
सरस्वतीवाससमाः कुतो गुणाः।
सरस्वतीं प्राप्य दिवं गता जनाः ।
सदा स्मरिष्यन्ति नदीं सरस्वतीम् ॥ ९.५५.३७ ॥
哪里有与居住在萨拉斯瓦蒂河畔相等的欢乐?哪里有与居住在萨拉斯瓦蒂河畔相等的德行?人们得到萨拉斯瓦蒂之后升入天界;他们将永远怀念萨拉斯瓦蒂河。
9.55.38
सरस्वती सर्वनदीषु पुण्या ।
सरस्वती लोकशुभावहा सदा।
सरस्वतीं प्राप्य जनाः सुदुष्कृतं ।
सदा न शोचन्ति परत्र चेह च ॥ ९.५५.३८ ॥
萨拉斯瓦蒂在所有河流中最为神圣;萨拉斯瓦蒂总是为世界带来福祉。人们到达萨拉斯瓦蒂之后,无论今世还是来世,都不再为大罪而悲伤。
9.55.39
ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् ।
हयैर्युक्तं रथं शुभ्रमारुरोह परन्तपः ॥ ९.५५.३९ ॥
然后,他一次又一次怀着爱意凝望萨拉斯瓦蒂,这位灼烧敌人者登上了套着马匹的明亮战车。
9.55.40
स शीघ्रगामिना तेन रथेन यदुपुङ्गवः ।
दिदृक्षुरभिसम्प्राप्तः शिष्ययुद्वमुपस्थितम् ॥ ९.५५.४० ॥
这位雅度族中的英杰乘着那辆疾驰的战车来到那里,想要观看已经发生的弟子之间的战斗。
9.55.41
एवं तदभवद्युद्वं तुमुलं जनमेजयं ।
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥ ९.५५.४१ ॥
如是,王啊,那场激烈的战斗发生了;在此时,为悲伤所苦的国王持国说了这些话。
9.55.42
राम सन्निहितं श्रुत्वा गदायुद्ध उपस्थिते ।
मम पुत्रः कथं भीमं प्रत्ययुध्यत सञ्जय ॥ ९.५५.४२ ॥
桑闍耶啊,听说罗摩在棍棒之战发生时就在附近,我的儿子是如何与毗摩交战的?