Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.56

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.56.1

रामसान्निध्यमागम्य पुत्रो दुर्योधनस्तव ।
योद्धुकामो महाबाहुः समहृष्यत वीर्यवान्
प्रीत्या परमया युक्ताः समभ्यर्च्य यथाविधि ।
आसनं च ददौ तस्मै पर्यपृच्छदनामयम् ॥ ९.५६.१ ॥

你的儿子难敌来到罗摩身边,怀着求战之心,这位大臂勇士心中欢喜。他怀着极大的敬意,依礼款待他,奉上座位,并询问他是否安好。

9.56.2

दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत ।
प्रीत्या परमया युक्तो युधिष्ठिरमथाब्रवीत्
ततो युधिष्ठिरं रामो वाक्यमेतदुवाच ह ।
मधुरं धर्मसंयुक्तं शूराणां हितमेव च ॥ ९.५६.२ ॥

国王看见执犁的罗摩,便起身站立,婆罗多啊,怀着极大的敬意对坚战说话。于是罗摩对坚战说出这些话,温和、合乎法度,对英雄确实有益。

9.56.3

समन्तपञ्चकं पुण्यमितो याम विशाम्पते ।
प्रथितोत्तरवेदी सा देवलोके प्रजापतेः
मया श्रुतं कथयतामृषीणां राजसत्तम ।
कुरुक्षेत्रं परं पुण्यं पावनं स्वर्ग्यमेव च ॥ ९.५६.३ ॥

让我们从这里前往神圣的三摩多般遮迦,人民之主啊。那著名的北方祭坛位于生主的天界。最优秀的君王啊,我从讲述此事的仙人那里听说,俱卢之野至为神圣,能够净化,并通往天界。

9.56.4

तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने ।
सङ्ग्रामे निधनं प्राप्य ध्रुवं स्वर्गं गमिष्यसि
देवतैर्ऋषिभिर्जुष्टं ब्राह्मणैश्च महात्मभिः ।
तत्र वै योत्स्यमाना ये देहं त्यक्ष्यन्ति मानवाः ॥ ९.५६.४ ॥

在这片三界中永恒、至为神圣的战场上,你战死之后必定升往天界。在那个为诸神、仙人和伟大婆罗门所常临的地方,凡在战斗中舍弃肉身的人,都将得到天界。

9.56.5

तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः ।
समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः
तेषां स्वर्गे ध्रुवो वासः शक्रेण सह मारिष ।
तस्मात्समन्तपञ्चकमितो याम द्रुतं नृप ॥ ९.५६.५ ॥

大王,他说了『就这样吧』之后,英雄、主君、昆提之子坚战便面向三千法田(Samantapañcaka)前行。尊者啊,他们在天界与因陀罗共同拥有永恒的住所。因此,国王啊,让我们从此地迅速前往三千法田。

9.56.6

ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम् ।
पद्ध्याममर्षी द्युतिमानगच्छत्पाण्डवैः सह ॥ ९.५६.६ ॥

于是国王难敌手持大棍,愤怒而光辉,徒步与般度诸子同行。

9.56.7

तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम् ।
अन्तरिक्षचरा देवाः साधुसाध्वित्यपूजयन् ॥ ९.५६.७ ॥

他手持大棍、身披甲胄这样前行时,在空中游行的诸神赞叹道:『善哉,善哉!』

9.56.8

वादकाश्च नरास्तत्र दृष्ट्वा ते हर्षमागताः ॥ ९.५६.८ ॥

那里的乐人与众人看见他,都欢喜起来。

9.56.9

स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः ।
मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत् ॥ ९.५६.९ ॥

被般度五子包围的那位俱卢王,你的儿子,以醉象之王的步态向前行进。

9.56.10

ततः शङ्खनिनादैश्च भेरीणां च महास्वनैः ।
सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः ॥ ९.५६.१० ॥

于是,螺号的声音、战鼓的巨响和勇士的狮吼充满了所有方位。

9.56.11

ततस्ते तु कुरुक्षेत्रं प्राप्ता नरवरोत्तमाः ।
प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते।
दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम् ॥ ९.५६.११ ॥

于是那些人中之最到达了俱卢原,按照你儿子的指示,在面向西方的地区,萨拉斯瓦蒂河以南,靠近名为斯瓦雅那的至上圣渡口。

9.56.12

तस्मिन्देशे त्वनिरिणे ते तु युद्धमरोचयन् ॥ ९.५६.१२ ॥

在那片无债之地,他们渴望战斗。

9.56.13

ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत् ।
बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः ॥ ९.५६.१३ ॥

然后,披甲的毗摩手持一柄巨大头部的铁棒,大王啊,他显现出如同迦鲁达一般的形象。

9.56.14

अवबद्धशिरस्त्राणः शुद्धकाञ्चनवर्मभृत् ।
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥ ९.५६.१४ ॥

头盔系紧、身披纯金铠甲的你的儿子,大王啊,闪耀如金色的山王。

9.56.15

तौ तथा सङ्गतौ वीरौ भीमदुर्योधनावुभौ ।
संयुगे सम्प्रकाशेते संरब्धाविव कुञ्जरौ ॥ ९.५६.१५ ॥

这两位英雄,怖军与难敌,如此在战场上相遇,犹如两头愤怒的大象闪耀光芒。

9.56.16

रथमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ ।
अशोभेतां महाराज चन्द्रसूर्याविवोदितौ ॥ ९.५६.१६ ॥

那两位兄弟立于战车环的中央,人中之雄,大王啊,光辉如同升起的月与日。

9.56.17

तावन्योन्यं निरीक्षेतां क्रुद्धाविव महोरगौ ।
दहन्तौ लोचनै राजन्परस्परवधैषिणौ ॥ ९.५६.१७ ॥

两人如同两条愤怒的大蛇彼此相望,以目光燃烧,大王啊,各自寻求对方的死亡。

9.56.18

संप्रहृष्टमना राजन्गदामादाय कौरवः ।
सृक्विणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन् ॥ ९.५६.१८ ॥

大王啊,考拉瓦心中欢喜,手持大棒,舔着嘴角,怒目通红,大王啊,喘息不已。

9.56.19

ततो दुर्योधनो राजन्गदामादाय वीर्यवान् ।
भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत् ॥ ९.५६.१९ ॥

大王啊,那时力大的难敌手持大棒,看着怖军,如同一头象呼唤另一头象那样向他挑战。

9.56.20

अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान् ।
आह्वयामास नृपतिं सिंहः सिंहं यथा वने ॥ ९.५६.२० ॥

同样,力大的怖军手持铁制大棒,向那位国王挑战,犹如森林中的狮子向另一只狮子挑战。

9.56.21

तावुद्यतगदापाणी दुर्योधनवृकोदरौ ।
संयुगे सम्प्रकाशेतां गिरी सशिखराविव ॥ ९.५६.२१ ॥

二人手持高举的铁杵,杜尔约陀那与狼腹在战场上闪耀,如同两座带有山峰的大山。

9.56.22

तावुभौ समतिक्रुद्धावुभौ भीमपराक्रमौ ।
उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः ॥ ९.५६.२२ ॥

二人都极为愤怒,都如同毗摩一样勇猛;二人都是智慧的罗希尼耶(力天)在棍棒战中的弟子。

9.56.23

उभौ सदृशकर्माणौ वरुणस्य महाबलौ ।
वासुदेवस्य रामस्य तथा वैश्रवणस्य च ॥ ९.५६.२३ ॥

二人都是大力者,其功业与伐楼那相当,也与婆苏提婆(黑天)、罗摩和毗诗罗婆那(俱毗罗)相当。

9.56.24

सदृशौ तौ महाराज मधुकैटभयोरपि ।
उभौ सदृशकर्माणौ तथा सुन्दोपसुन्दयोः ॥ ९.५६.२४ ॥

大王啊,这二人也与摩图和凯塔巴相当;二人的功业都与顺达和优波顺达相当。

9.56.25

रामरावणयोश्चैव वालिसुग्रीवयोस्तथा ।
तथैव कालस्य समौ मृत्योश्चैव परन्तपौ ॥ ९.५६.२५ ॥

二人与罗摩和罗波那相当,也与跋栗和须羯哩婆相当;同样,他们与时间和死亡相当,二位都是敌人的折磨者。

9.56.26

अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ ।
वासितासङ्गमे दृप्तौ शरदीव मदोत्कटौ ॥ ९.५६.२६ ॥

二人相互冲向对方,如同在与雌象相遇时狂怒的大象,骄傲而因发情而猛烈,如同秋日里的情形。

9.56.27

उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव ।
अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिन्दमौ ॥ ९.५६.२७ ॥

二人如同吐出燃烧怒毒的两条毒蛇,怒目相视,皆为降伏敌人者。

9.56.28

उभौ भरतशार्दूलौ विक्रमेण समन्वितौ ।
सिंहाविव दुराधर्षौ गदायुद्धविशारदौ ॥ ९.५६.२८ ॥

婆罗多族的两只猛虎,勇武兼备,如狮子般难以抵挡,精通铁锤之战。

9.56.29

नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ ।
प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ ॥ ९.५६.२९ ॥

二位英雄以爪牙为武器,如虎般令人难以忍受,如因毁灭众生而翻腾的两片海洋般难以逾越。

9.56.30

लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ ।
पूर्वपश्चिमजौ मेघौ प्रेक्षमाणावरिन्दमौ ॥ ९.५६.३० ॥

二位大车战士,如赤色星辰般愤怒炽热,如生于东西方的两朵云,二位降敌者怒目相视。

9.56.31

गर्जमानौ सुविषमं क्षरन्तौ प्रावृषीव हि ।
रश्मियुक्तौ महात्मानौ दीप्तिमन्तौ महाबलौ ॥ ९.५६.३१ ॥

如雨季中的云般极其可怕地轰鸣并倾泻,具光芒,大德,光辉,大力。

9.56.32

ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ ।
व्याघ्राविव सुसंरब्धौ गर्जन्ताविवतोयदौ ॥ ९.५६.३२ ॥

二位库鲁族之最,看似升起的毁灭之日,又如暴怒的猛虎,如轰鸣降雨的云。

9.56.33

जहृषाते महाबाहु सिंहकेसरिणाविव ।
गजाविव सुसंरब्धौ ज्वलिताविव पावकौ ॥ ९.५६.३३ ॥

这两位大臂者欢喜如有鬃之狮,如满怀愤怒的两头象,如燃烧的两团火。

9.56.34

ददृशाते महात्मानौ सशृङ्गाविव पर्वतौ ।
रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् ॥ ९.५६.३४ ॥

两位伟大的人看起来如同两座有峰顶的山,因愤怒而嘴唇颤动,彼此凝视。

9.56.35

तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ ।
उभौ परमसंहृष्टावुभौ परमसम्मतौ ॥ ९.५६.३५ ॥

这两位伟大的人,手持金刚杵,乃人中之最,相遇一处;两人都极为欢喜,两人都极受敬重。

9.56.36

सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ ।
वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ।
दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ ॥ ९.५६.३६ ॥

难敌与狼腹如良马嘶鸣,如大象吼叫,如公牛咆哮;二人如被力量迷醉的两个阿修罗般颤抖,那两位人中之最。

9.56.37

ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् ।
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥ ९.५६.३७ ॥

于是,大王啊,难敌对与众三目人站在一起、如太阳般炽热的坚战说了这话。

9.56.38

इदं व्यवसितं युद्धं मम भीमस्य चोभयोः ।
उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः ॥ ९.५६.३८ ॥

我与怖军之间的这场战斗,已在我们二人之间决定;诸位人中之王,请近前坐下,观看这场搏斗吧。

9.56.39

ततः समुपविष्टं तत्सुमहद्राजमण्डलम् ।
विराजमानं ददृशे दिवीवादित्यमण्डलम् ॥ ९.५६.३९ ॥

那时,列坐的众多诸王如天空中的太阳圆盘一般光辉耀眼。

9.56.40

तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः ।
उपविष्टो महाराज पूज्यमानः समन्ततः ॥ ९.५६.४० ॥

在他们中间坐着大臂、光荣的克舍婆之兄,大王啊,四面皆受尊敬。

9.56.41

शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः ।
नक्षत्रैरिव सम्पूर्णो वृतो निशि निशाकरः ॥ ९.५६.४१ ॥

他立于众王之中,身着深蓝衣,放射白色光芒,犹如夜空中被群星环绕的满月。

9.56.42

तौ तथा तु महाराज गदाहस्तौ सुदुःसहौ ।
अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ ॥ ९.५६.४२ ॥

大王啊,那两人手持铁锤,极为难以抵挡,彼此以凌厉的言辞相互刺激,站立在那里。

9.56.43

अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुसत्तमौ ।
उदीक्षन्तौ स्थितौ तत्र वृत्रशक्रौ यथाऽऽहवे ॥ ९.५६.४३ ॥

于是,二人互相说了难听的话,这两位库鲁之最便在那里互相怒视,如同战斗中的弗栗多与帝释天。