摩诃婆罗多 · 章 9.59
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.59.1
समुदीर्णं ततो दृष्ट्वा सङ्ग्रामं कुरुमुख्ययोः ।
अब्रवीदर्जुनस्तत्र वासुदेवं यशस्विनम् ॥ ९.५९.१ ॥
阿周那见两位库鲁首领之间的战斗已然燃起,便对光荣的婆苏提婆说道。
9.59.2
अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः ।
कस्य वा को गुणो ज्यायानेतद्वद जनार्दन ॥ ९.५९.२ ॥
在这两位英雄的战斗中,依你看谁更优越?谁的哪种德行更胜?请告诉我,哦,遮那陀那。
9.59.3
उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः ।
कृती यत्नपरस्त्वेष धार्तराष्ट्रो वृकोदरात् ॥ ९.५९.३ ॥
二人的训练相当,但毗摩更为强壮。然而这位持国之子更为娴熟,且更加勤勉用力,胜过狼腹。
9.59.4
भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति ।
अन्यायेन तु युध्यन्वै हन्यादेव सुयोधनम् ॥ ९.५९.४ ॥
然而毗摩森那若依法作战,便不能胜过他;若以不义作战,则必定杀死苏由陀那。
9.59.5
मायया निर्जिता देवैरसुरा इति नः श्रुतम् ।
विरोचनस्तु शक्रेण मायया निर्जितः स वै ॥ ९.५९.५ ॥
我们听说,诸天凭幻术战胜了阿修罗;而毗卢遮那确实是被帝释(因陀罗)以幻术所胜。
9.59.6
मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः ।
तस्मान्मायामयं वीर आतिष्ठतु वृकोदरः ॥ ९.५९.६ ॥
灭力者(因陀罗)曾以幻术夺去了弗栗多的光辉;因此,英雄狼腹应当借助幻术。
9.59.7
प्रतिज्ञातं च भीमेन द्यूतकाले धनञ्जय ।
ऊरू भेत्स्यामि ते सङ्ख्ये गदयेति सुयोधनम् ॥ ९.५९.७ ॥
达那阁耶啊!掷骰子之时,怖军曾向苏由陀那发誓:“战场上我要用铁杵打断你的大腿。”
9.59.8
सोऽयं प्रतिज्ञां तां चापि पारयत्वरिकर्शनः ।
मायाविनं तु राजानं माययैव निकृन्ततु ॥ ९.५९.८ ॥
愿那位折磨敌人者也履行他的誓言,并以幻术斩杀那位善用幻术的国王。
9.59.9
यद्येष बलमास्थाय न्यायेन प्रहरिष्यति ।
विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः ॥ ९.५९.९ ॥
若他依仗力量、依规则而攻击,那么国王坚战将陷入不利的境地。
9.59.10
पुनरेव तु वक्ष्यामि पाण्डवेय निबोध मे ।
धर्मराजापराधेन भयं नः पुनरागतम् ॥ ९.५९.१० ॥
般度之子啊,我再说一次,请听我言。由于法王的过失,恐惧再次降临到我们身上。
9.59.11
कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून् ।
जयः प्राप्तो यशः प्राग्र्यं वैरं च प्रतियातितम्।
तदेवं विजयः प्राप्तः पुनः संशयितः कृतः ॥ ९.५९.११ ॥
我们完成了伟大的功业,诛杀了以毗湿摩为首的俱卢族,赢得了胜利与至高的声名,也报了仇。如此获胜之后,胜利又再次受到了怀疑。
9.59.12
अबुद्धिरेषां महती धर्मराजस्य पाण्डव ।
यदेकविजये वीर पणितं कृतमीदृशम् ॥ ९.५९.१२ ॥
般度之子啊,法王的这份愚蠢实在太大了,英雄啊:他竟把如此的赌注押在一次胜利之上。
9.59.13
सुयोधनः कृती वीर एकायनगतस्तथा ॥ ९.५९.१३ ॥
英雄啊,苏由陀那是善战之人,他也已走向唯一的归宿。
9.59.14
अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः ।
श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु ॥ ९.५९.१४ ॥
也有人听到乌until舍那唱过的这首古偈,其中含有真义;我诵说时,你要听。
9.59.15
पुनरावर्तमानानां भग्नानां जीवितैषिणाम् ।
भेतव्यमरिशेषाणामेकायनगता हि ते ॥ ९.५९.१५ ॥
应当畏惧那些再度回来的人、那些溃败却求生的人,以及敌人的残余;因为你们已走向唯一的归宿。
9.59.16
साहसोत्पतितानां च निराशानां च जीविते ।
न शक्यमग्रतः स्थातुं शक्रेणापि धनञ्जय ॥ ९.५९.१६ ॥
财富胜者啊,即便帝释天也无法站在那些因勇猛冲击而起、对生命绝望的人面前。
9.59.17
सुयोधनमिमं भग्नं हतसैन्यं हदं गतम् ।
पराजितं वनप्रेप्सुं निराशं राज्यलम्भने।
कोऽन्विष्य संयुगे प्राज्ञः पुनर्द्वन्द्वे समाह्वयेत् ॥ ९.५९.१७ ॥
这位苏由陀那已经崩溃,军队被歼,逃入湖中,战败,渴望入林,对夺回王国已绝望。谁是智者,会在战场上寻到他,再次向他挑战单人决斗呢?
9.59.18
अपि नो निर्जितं राज्यं न हरेत सुयोधनः ।
यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः।
चरत्यूर्ध्वं च तिर्यक्व भीमसेनिघांसया ॥ ९.५९.१८ ॥
难道苏由陀那不会夺回我们所赢得的王国吗?他十三年来苦练铁棍,上下左右地挥舞,一心想杀死怖军。
9.59.19
एनं चेन्न महाबाहुरन्यायेन हनिष्यति ।
एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति ॥ ९.५९.१९ ॥
若大臂者不以非法杀他,那么这位持国之子将成为你们的考拉瓦国王。
9.59.20
धनञ्जयस्तु श्रुत्वैतत्केशवस्य महात्मनः ।
प्रेक्षतो भीमसेनस्य सव्यमूरुमताडयत् ॥ ९.५९.२० ॥
Dhanañjaya听到伟大的Keśava这番话后,在Bhīmasena注视下拍打了自己的左大腿。
9.59.21
गृह्य संज्ञां ततो भीमो गदया व्यचरद्रणे ।
मण्डलानि विचित्राणि यमकानीतराणि च ॥ ९.५९.२१ ॥
于是Bhīma领会了暗示,手持钵罗在战场上做出各种环形、成对及其他的回旋动作。
9.59.22
दक्षिणं मण्डलं सव्यं गोमूत्रिकमथापि च ।
व्यचरत्पाण्डवो राजन्नरिं सम्मोहयन्निव ॥ ९.५९.२२ ॥
大王啊,般度之子以右旋环、左旋环及牛尿式曲折步法行动,仿佛要迷惑敌人。
9.59.23
तथैव तव पुत्रोऽपि गदामार्गविशारदः ।
व्यचरल्लघु चित्रं च भीमसेनजिघांसया ॥ ९.५९.२३ ॥
同样,您的儿子也精通钵罗之道,怀着杀死Bhīmasena的念头,敏捷而巧妙地变换各种步法。
9.59.24
आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते ।
वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ ॥ ९.५९.२४ ॥
二人挥舞着两柄涂抹檀香与沉香的可怖钵罗,寻求结束仇怨,在战场上宛如两位愤怒的死神。
9.59.25
अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ ।
युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ ॥ ९.५९.२५ ॥
那两位英雄,人中雄牛,欲相互杀害,如同寻求蛇肉的两只金翅鸟般搏斗。
9.59.26
मण्डलानि बिचित्राणि चरतोर्नृपभीमयोः ।
गदासम्पातजास्तत्र प्रजज्ञुः पावकार्चिषः ॥ ९.५९.२६ ॥
大王啊,当那两位可怖的勇士作种种回旋运动时,从铁棍的撞击中,那里迸发出火焰。
9.59.27
समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे ।
क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः ॥ ९.५९.२७ ॥
大王啊,那两位勇猛有力、在战斗中相等地击打的英雄,如同被风搅动的两片大海。
9.59.28
तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव ।
गदानिर्घातसं हादः प्रहाराणामजायत ॥ ९.५९.२८ ॥
二人相等地击打,如同两头狂象,铁棍可怖撞击的轰鸣从他们的打击中响起。
9.59.29
तस्मिंस्तदा सम्प्रहारे दारुणे सङ्कुले भृशम् ।
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ ॥ ९.५९.२९ ॥
在那可怖而极为喧嚣的打击之战中,二位降服敌人的勇士,虽然奋战,也都极度疲惫。
9.59.30
तौ मुहूर्ते समाश्वस्य पुनरेव परन्तप ।
अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे ॥ ९.५९.३० ॥
大敌的克星啊,二人片刻之后重新振作,怒火中烧,各自握起巨大的铁棍,再次攻击。
9.59.31
तयोः समभवद्युद्धं घोररूपमसंवृतम् ।
गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम् ॥ ९.५९.३१ ॥
王中之王啊,二人之间爆发了可怖而无所节制的战斗,他们以铁锤互相猛击。
9.59.32
समरे प्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ ।
अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव ॥ ९.५९.३२ ॥
那两位敏捷的勇士,牛眼之人,在战场中奔冲,互相打击,如同站在泥中的两头水牛。
9.59.33
जर्झरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ ।
ददृशाते हिमवति पुष्पिताविव किंशुकौ ॥ ९.५९.३३ ॥
二人四肢尽伤,浑身浴血,看上去如同喜马拉雅山上盛开的两棵金苏木树。
9.59.34
दुर्योधनस्तु पार्थेन विवरे सम्प्रदर्शिते ।
ईषदुत्स्मयमानस्तु सहसा प्रससार ह ॥ ९.५९.३४ ॥
然而,当阿周那露出一个破绽时,难敌微微一笑,突然冲了上去。
9.59.35
तमभ्याशगतं प्राज्ञः क्षणे प्रेक्ष्य वृकोदरः ।
अवाक्षिपद्गदां तस्मिन्वेगेन महता बती ॥ ९.५९.३५ ॥
智者狼腹见他逼近,便在那一刻以极大的力量将铁锤投向他。
9.59.36
अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशाम्पते ।
अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि ॥ ९.५९.३६ ॥
人主啊,你的儿子见此投掷,便从原地后退,那铁锤落空,坠于地上。
9.59.37
मोक्षयित्वा प्रहारं तं सुतस्तव सुसम्भ्रमात् ।
भीमसेनं च गदया प्राहरत्कुरुसत्तम ॥ ९.५९.३७ ॥
你的儿子在慌乱中躲开了那一击,用铁杵击打了毗摩娑那,库卢族的俊杰啊。
9.59.38
तस्य विस्यन्दमानेन रुधिरेणामितौजसः ।
प्रहारगुरुपाताच मूर्छेव समजायत ॥ ९.५९.३८ ॥
这位力量无穷者鲜血直流,因那一击造成的沉重跌倒,他仿佛昏厥了过去。
9.59.39
तन्नावुध्यत पुत्रस्ते पीडितं पाण्डवं रणे ।
धारयामास भीमोऽपि शरीरमतिपीडितम् ॥ ९.५९.३९ ॥
你的儿子没有察觉在战场上受苦的般度之子的状况;毗摩也强撑着自己极度受创的身体。
9.59.40
अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे ।
अतो न प्राहरत्तस्मै पुनरेव तवात्मजः ॥ ९.५९.४० ॥
他以为此人站立着,正要在战斗中出击,因此你的儿子没有再次攻击他。
9.59.41
ततो मुहूर्तनाश्वस्य दुर्योधनमुपस्थितम् ।
देगेनाभ्ययतद्राजन्गदामादाय पाण्डवः ॥ ९.५९.४१ ॥
随后,他片刻便恢复过来,王啊,般度之子举起铁杵,迅速冲向站在附近的难敌。
9.59.42
तमापतन्तं सम्प्रेक्ष्य संरब्धगमितौजसम् ।
मोधमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ ॥ ९.५९.४२ ॥
见他怒火激起、力量奋发,向自己猛扑过来,婆罗多族的雄牛啊,他想要使他那一击落空。
9.59.43
अवस्याने मतिं कृत्वा पुत्रन्तव महामनाः ।
इयेषोत्पतितुं राजञ्छलयिष्यन्वृकोदरम् ॥ ९.५९.४३ ॥
大王,你那心胸豁达的儿子决意坚守原地,却想跃起来欺骗狼腹(怖军)。
9.59.44
अबुध्यद्भीमसेनस्तु राज्ञस्तस्य चिकीर्षितम् ।
अचास्य सममिद्रुत्य समुत्पत्य च सिंहवत् ॥ ९.५९.४४ ॥
然而,怖军察觉了国王的意图,立即冲向他,像狮子一样跃起。
9.59.45
सत्या वञ्चवतो राजन्पुनरेवोत्पतिष्यतः ।
ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः ॥ ९.५९.४५ ॥
大王,当那个欺诈者又要跃起时,般度之子猛力将铁杵投向他的大腿。
9.59.46
सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा ।
ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ ॥ ९.५९.४६ ॥
那铁杵由行事可怖的怖军掷出,犹如雷霆击打,折断了难敌那对俊美的大腿。
9.59.47
स पपात नरव्याघ्रो वसुधामनुनादयन् ।
भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते ॥ ९.५९.४७ ॥
大地之主啊,你的那位人中猛虎之子,被怖军打断双腿,倒下时震动了大地。
9.59.48
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च ।
चचाल पृथिवी चापि सवृक्षक्षुपपर्वता ॥ ९.५९.४८ ॥
狂风伴着雷鸣大作,尘土如雨倾落,大地连同树木、灌丛与山岳都震颤起来。
9.59.49
तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम् ।
महास्वना पुनर्दीप्ता सनिर्घाता भयङ्करी।
पपात चोल्का महती पतिते पृथिवीपतौ ॥ ९.५९.४९ ॥
当那位英雄、大地诸王之主倒下时,又伴着巨大的轰鸣和霹雳,一颗巨大燃烧的流星坠落,令人恐惧,因为大地之主已经倒下。
9.59.50
तथा शोणितवर्षं च पांसुवर्षं च भारत ।
ववर्ष मघवांस्तत्र तव पुत्रे निपातिते ॥ ९.५९.५० ॥
婆罗多之子啊,同样,血雨和尘雨降下;你的儿子被击倒时,摩伽梵(因陀罗)在那里降下了雨。
9.59.51
यक्षाणां राक्षसानां च पिशाचानां तथैव च ।
अन्तरिक्षे महान्नादस्तत्र भारत शुश्रुवे ॥ ९.५९.५१ ॥
婆罗多之子啊,同样,那里天空中听到了夜叉、罗刹和毗舍遮的巨大喧嚣。
9.59.52
तेन शब्देन घोरेण मृगाणामथ पक्षिणाम् ।
जज्ञे घोरतरः शब्दो बहूनां सर्वतोदिशम् ॥ ९.५९.५२ ॥
随着那可怕的声音,鹿群和鸟类发出了更加可怕的叫声,四面八方都是众多生灵的哀鸣。
9.59.53
ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह ।
मुमुचुस्ते महानादं तव पुत्रे निपातिते ॥ ९.५९.५३ ॥
那里剩下的马和象与人一起,在你的儿子被击倒时发出了巨大的嘶鸣。
9.59.54
बेरीशङ्खमृदङ्गानामभवच्च स्वनो महान् ।
अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते ॥ ९.५९.५४ ॥
鼓、螺号和木鼓发出巨大的声响;你的儿子被击倒时,那声音甚至深入大地之中。
9.59.55
बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः ।
नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप ॥ ९.५९.५५ ॥
国王啊,那里的各方充满了有许多脚、许多臂、external令人恐怖、起舞并令人生畏的无头躯干。
9.59.56
ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च ।
प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते ॥ ९.५९.५६ ॥
国王啊,当你的儿子被击倒时,持旗者、持箭者和持械者全都剧烈地颤抖起来。
9.59.57
हदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम ।
नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाऽभवन् ॥ ९.५९.५७ ॥
诸王中最优秀的人啊,湖泊与水井喷出鲜血,湍急的河流开始逆流而行。
9.59.58
पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाऽभवन् ।
दुर्योधने तदा राजन्पतिते तनये तव ॥ ९.५९.५८ ॥
国王啊,当你的儿子难敌倒下时,女子仿佛变成了阳性,男子仿佛变成了阴性。
9.59.59
दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह ।
आविग्नमनसः सर्वे बभूवुर्भरतर्षभ ॥ ९.५९.५९ ॥
婆罗多的雄牛啊,看见那些奇异的凶兆,般遮罗人与般度五子全都心神不安。
9.59.60
ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा ।
कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत ॥ ९.५९.६० ॥
婆罗多啊,诸神依其所愿离去,乾达婆与阿帕萨拉斯也一同离去,讲述着你两个儿子之间奇异的战斗。
9.59.61
तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः ।
नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम् ॥ ९.५९.६१ ॥
君王之主啊,悉陀与风行的遮罗那同样赞颂那两位人狮,便依来时的路离去了。