摩诃婆罗多 · 章 9.60
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.60.1
तं पातितं ततो दृष्ट्वा महासालमिवोद्गतम् ।
प्रहृष्टमनसः सर्वे बभूवुस्तत्र पाण्डवाः ॥ ९.६०.१ ॥
众般度之子见他倒下,犹如巨大的娑罗树被连根拔起,心中皆欢喜。
9.60.2
उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम् ।
ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः ॥ ९.६०.२ ॥
见他如被狮子击倒的狂象般倒地,所有索摩迦人也都因喜悦而毛发竖起。
9.60.3
ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान् ।
पातितं कौरवेन्द्रं तमुपगम्येदमब्रवीत् ॥ ९.६०.३ ॥
随后,威猛的怖军杀死了难敌,走近倒地的俱卢之王,说出了这些话。
9.60.4
गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम् ।
यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते।
तस्यावहासस्य फलमद्य त्वं समवाप्नुहि ॥ ९.६०.४ ॥
"愚人!往昔在议会中,你嘲笑我们,称身着单衣的德罗波蒂为“牛,牛”。恶毒之人,今日你便承受那讥笑的果报吧。"
9.60.5
एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत् ।
शिरश्च राजसिंहस्य पादेन समलोडयत् ॥ ९.६०.५ ॥
说完这话,他用左脚碰触王冠,并以脚猛烈地摇动了王中之狮的头颅。
9.60.6
तथैव क्रोधसंरक्तो भीमः परबलार्दनः ।
पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप ॥ ९.६०.६ ॥
同样,怒气涨红了脸的怖军,这位摧毁敌军的人,又说了这些话。王啊,请听。
9.60.7
येऽस्मान्पुरा प्रनृत्यन्ति मूढा गौरिति गौरिति ।
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति ॥ ९.६०.७ ॥
那些愚蠢之人从前围着我们跳舞,喊着“牛,牛”,我们便回敬他们,再次喊着“牛,牛”起舞。
9.60.8
नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना ।
स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून् ॥ ९.६०.८ ॥
我们不行诡计、不纵火、不掷骰子,也不欺骗;我们依靠自己臂膀的力量,去制服敌人。
9.60.9
सोऽवाप्य वैरस्य चिरस्य पारं ।
वृकोदरः प्राह शनैः प्रहस्य।
युधिष्ठिरं केशवसृञ्जयांश्च ।
धनञ्जयं माद्रवतीसुतौ च ॥ ९.६०.९ ॥
长久的敌意终告结束,狼腹(阿毗摩)微笑着慢慢对坚战、克舍婆、srñjaya诸人、财胜(阿周那)以及摩德利的两个儿子说道。
9.60.10
रजस्वला द्रौपदीमानयन्ते ।
ये चाप्यकुर्वन्त सदस्यवस्त्राम्।
रणे हतांस्तपसा याज्ञसेन्याः ॥ ९.६०.१० ॥
那些把月经中的德劳帕蒂拖到议会、并在那里剥去她衣裳的人,已在战场上凭着耶纳塞尼(德劳帕蒂)的苦行之力被杀死。
9.60.11
ये नः पुरा षण्ढतिलानवोचन् ।
क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः।
ते नो हताः सगणाः सानुबन्धाः ।
कामं स्वर्गं नरकं वा व्रजामः ॥ ९.६०.११ ॥
从前称我们为阉人的残忍的持国王之子们,连同他们的随从与亲属,都已被我们杀死;现在,我们无论愿往天堂还是地狱,都随己所愿。
9.60.12
पुनश्च राज्ञः पतितस्य भूमौ ।
स तां गदां स्कन्धगतां प्रगृह्य।
वामेन पादेन शिरः प्रमृद्य ।
दुर्योधनं नैकृतिकेत्यवोचत् ॥ ९.६०.१२ ॥
他又走到倒在地上的国王身边,拿起扛在肩上的铁杵,用左脚踩碎了他的头,对难敌说:
9.60.13
हृष्टेन राजन्कुरुपार्थिवस्य ।
क्षुद्रात्मना भीमसेनेन पादम्।
दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन् ।
धर्मात्मानः सोमकानां प्रबर्हाः ॥ ९.६०.१३ ॥
国王啊,见到怖军将脚踏在库卢王的头上,索摩迦中心怀正法的主要战士们并不赞许这个心地卑劣而欢喜之人的所为。
9.60.14
तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम् ।
नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम् ॥ ९.६०.१४ ॥
杀了你的儿子之后,法王(坚战)对正在夸耀并屡次跳舞的狼腹(怖军)说了这些话。
9.60.15
गतोऽसि वैरस्यानृण्यं प्रतिज्ञा पूरिता त्वया ।
शुभेनाथाशुभेनैव कर्मणा विरमाधुना ॥ ९.६०.१५ ॥
你已摆脱了仇恨的债务,你的誓愿也已由你实现。现在请停止善与恶的行为吧。
9.60.16
मा शिरोऽस्य पदाऽमर्दीर्मा धर्मस्तेऽतिगो भवेत् ।
राजा ज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ ॥ ९.६०.१६ ॥
不要用脚踩他的头;愿你的正法不被违犯。这位国王,你的亲族,已被杀死;无罪者啊,这对你并不合宜。
9.60.17
एकादशचमूनाथं कुरूणामधिपं तथा ।
मास्प्राक्षीर्भीम पादेन राजानं ज्ञातिमेव च ॥ ९.६०.१७ ॥
怖军啊,不要用脚触碰十一军之主、库卢族的君主,也不要触碰你自己的亲族。
9.60.18
हतबन्धुर्हतामात्यो भ्रष्टसैन्यो हतो मृधे ।
सर्वाकारेण शोच्योऽयं नावहास्योऽयमीश्वरः ॥ ९.६०.१८ ॥
亲族被杀,大臣被杀,军队溃散,自己也战死沙场,此君主在各方面都值得怜悯,不值得嘲笑。
9.60.19
विध्वस्तोऽयं हतामात्यो हतबन्धुर्हतात्मजः ।
उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं कृतं त्वया ॥ ९.६०.१९ ॥
此人已败亡,大臣被杀,亲族被杀,子嗣被杀,祭祀供奉已断绝;他也是你的兄弟。你这样做并不合乎道义。
9.60.20
धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः ।
स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि ॥ ९.६०.२० ॥
从前人们都称赞你说:'毗摩森那是正直的。'那么,毗摩森那啊,你为何踩在这位君王之上?
9.60.21
इत्युक्त्वा भीमसेनं तु साश्रुकण्ठो युधिष्ठिरः ।
उपसृत्याब्रवीद्दीनो दुर्योधनमरिन्दमम् ॥ ९.६०.२१ ॥
对毗摩森那说完这番话后,哽咽失声的坚战悲痛地走近,对降伏敌人的难敌说道。
9.60.22
तात मन्युर्न ते कार्यो नात्मा शोच्यस्त्वया तथा ।
नूनं पूर्वकृतं कर्म सुघोरमनुभूयते ॥ ९.६०.२२ ॥
孩子,你不应当愤怒,也不应当如此为自己悲伤。无疑,如今正在承受先前所造业行的极其可怕的果报。
9.60.23
धात्रोपदिष्टं विषमं नूनं फलमसंस्कृतम् ।
यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम ॥ ९.६०.२३ ॥
命运所安排的这不均之果,实在是不成熟的:我们想要杀你,你也想要杀我们,库鲁之最啊。
9.60.24
आत्मनो ह्यपराधेन महद्व्यसनमीहशम् ।
प्राप्तवानसि यल्लोभान्मदाद्बाल्याच्च भारत ॥ ९.६०.२४ ॥
婆罗多之后,因你自己的过错,由于贪婪、骄狂和孩童般的愚昧,你招致了如此巨大的灾难。
9.60.25
घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा ।
पुत्रान्पौत्रांस्तथा चान्यांस्ततोसि निधनं गतः ॥ ९.६०.२५ ॥
你使朋友、兄弟、父辈、儿子、孙子及其他人被杀,最后你自己也走向了死亡。
9.60.26
तवापराधादस्माभिर्भ्रातरस्ते निपातिताः ।
निहता ज्ञातयश्चापि दिष्टं मन्ये दुरत्ययम् ॥ ९.६०.२६ ॥
因你的过错,我们杀倒了你的兄弟,亲族也被杀死。我认为这是无法逃避的天命。
9.60.27
आत्मा न शोचनीयस्ते श्लाघ्यो मृत्युस्तवानघ ।
वयमेवाधुना शोच्याः सर्वावस्थासु कौरव ॥ ९.६०.२७ ॥
无罪之人啊,你不必为自己悲伤;你的死是值得称赞的。俱卢之子啊,如今在一切境况中值得悲伤的是我们。
9.60.28
कृपणं वर्तयिष्यामस्तैर्हीना बन्धुभिः प्रियैः ।
भ्रातॄणां चैव पुत्राणां तथा वै शोकविह्वलाः ॥ ९.६०.२८ ॥
失去了我们亲爱的亲族、兄弟和儿子,我们被悲痛压垮,将凄惨地度日。
9.60.29
कथं द्रक्ष्यामि विधवा वधूः शोकपरिप्लुताः ।
त्वमेकः सुस्थितो राजन्स्वर्गे ते निलयो ध्रुवः।
वयं नरकसंज्ञं वै दुःखं प्राप्स्याम दारुणम् ॥ ९.६०.२९ ॥
国王啊,我如何能看着那些被悲痛淹没的寡居儿媳?唯有你安然无恙,你在天界的居所是确定的,而我们将遭受名为地狱的可怕苦难。
9.60.30
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः ।
गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः ॥ ९.६०.३० ॥
德罗陀罗瑟吒的儿媳与孙媳,惶乱、寡居,被悲痛消磨,必定会责备我们。
9.60.31
एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः ।
विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः ॥ ९.६०.३१ ॥
说完这些,那位被巨大悲痛折磨的国王深深叹息;法子坚战长久地哀号。