摩诃婆罗多 · 章 9.61
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.61.1
अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः ।
किमब्रवीत्तदा सूत बलदेवो महाबलः ॥ ९.६१.१ ॥
御者啊,见国王被不义杀害,那时马达瓦中最优秀、大力的大力罗摩说了什么?
9.61.2
गदायुद्धविशेषज्ञो गदायुद्धविशारदः ।
कृतवान्रौहिणेयो यत्तन्ममाचक्ष्व सञ्जय ॥ ९.६१.२ ॥
桑闍耶啊,把罗希尼之子所做的事告诉我,他精通棍棒战的特殊规则,擅长棍棒之战。
9.61.3
शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम् ।
रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली ॥ ९.६१.३ ॥
看见你的儿子被婆罗摩西那在头上击中,击者中最优秀、力大的罗摩大怒起来。
9.61.4
ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः ।
कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह ॥ ९.६१.४ ॥
于是在众王之中,举起双臂的持犁者罗摩发出可怕的悲痛呼声,说道:“可耻,可耻,婆罗摩!”
9.61.5
अहो धिग्यदधो नाभेः प्रहृतं धर्मविग्रहे ।
नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः ॥ ९.६१.५ ॥
唉,可耻!在正义的战斗中竟打在肚脐以下!棍棒战中从未见过此事,而狼腹却做了这样的事。
9.61.6
अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः ।
अयं तु शास्त्रमुत्सृज्य स्वच्छन्दात्सम्प्रवर्तते ॥ ९.६१.६ ॥
经典的确定规则是不得打击肚脐以下。然而此人舍弃经典,随心所欲而行。
9.61.7
तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान् ।
ततो राजानमालोक्य रोषसंरक्तलोचनः।
बलदेवो महाराज ततो वचनमब्रवीत् ॥ ९.६१.७ ॥
他如此说话时,心中升起了大怒。于是,怒目通红的大力罗摩看着国王,大王啊,说出了这些话。
9.61.8
न चैष पतितः कृष्ण केवलं मत्समोऽसमः ।
आश्रितस्य तु दौर्बल्यादाश्रयः परिभर्त्स्यते ॥ ९.६१.८ ॥
克里希那啊,此人不仅仅是堕落者;他与我既不平等,也不不平等。然而因依附者的软弱,庇护者本人将受到责备。
9.61.9
ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली ॥ ९.६१.९ ॥
于是那强大者举起犁,向毗摩猛扑过去。
9.61.10
तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः ।
बहुधातुविचित्रस्य श्वेतस्येव महागिरेः ॥ ९.६१.१० ॥
那位双臂高举的大人物之形,如同一座由众多矿物染成斑斓的巨大白山。
9.61.11
भ्रातृभिः सहितो वीरैः सार्जुनैरस्त्रकोविदैः ।
न विव्यथे महाराज दृष्ट्वा हलधरं बली ॥ ९.६१.११ ॥
大王啊,那强大者与兄弟们、阿周那以及精通武艺的英雄们在一起,见到持犁的罗摩却并不慌乱。
9.61.12
अथ रामं निजग्राह केशवो विनयान्वितः ।
बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली ॥ ९.६१.१२ ॥
于是谦逊的克舍婆,以其粗壮圆润的双臂,费力而有力地抓住了罗摩。
9.61.13
सितासितौ यदुवरौ शुशुभातेऽधिकं तदा ।
सङ्गताविव राजेन्द्र कैलासाञ्जनपर्वतौ।
नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये ॥ ९.६१.१३ ॥
哦,王中之王,那时白与黑的两位雅度之最杰出者光辉非凡,仿佛凯拉萨山与安者那山相会一处,又如日暮时分月与日行于天空,哦,国王。
9.61.14
उवाच चैनं संरब्धं शमयन्निव केशवः ॥ ९.६१.१४ ॥
克什婆对愤怒的他说话,仿佛在安抚他。
9.61.15
आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा ।
विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः ॥ ९.६१.१५ ॥
自身的增长、朋友的增长、朋友之友的兴起,以及在敌人中与之相反的情况;自身的增长有六种。
9.61.16
आत्मन्यपि च मित्रे च विपरीतं यदा भवेत् ।
तदा विद्यान्मनोग्लानिमाशु शान्तिकरो भवेत् ॥ ९.६१.१६ ॥
当相反之事在自身和朋友身上发生时,应知这是心神的疲惫;那时应迅速成为带来和平之人。
9.61.17
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः ।
स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम् ॥ ९.६१.१७ ॥
具纯正勇力的般度之子是我们天然的朋友;他们是我们自己的表兄弟,是我们姑母的儿子,被他人极大地欺凌。
9.61.18
प्रतिज्ञापालनं धर्मः क्षत्रियस्येति वेत्थ तत् ॥ ९.६१.१८ ॥
你知道,守住誓言是刹帝利的职责。
9.61.19
सुयोधनस्य गदया भक्ताऽस्म्यूरू महाहवे ।
इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले ॥ ९.६१.१९ ॥
在大战中,我将以铁杵击碎苏约达那的大腿——这一誓言,怖军早已在议会厅中立下。
9.61.20
मैत्रेयेणाभिशप्तश्च पूर्वमेव महार्षिणा ।
ऊरू ते भेत्स्यते भीमो गदयेति परन्तप।
अतो दोषं न पश्यामि मा क्रुध्यस्व प्रलम्बहन् ॥ ९.६१.२० ॥
大仙人弥多罗早已诅咒你:怖军将以铁杵击断你的大腿。哦,敌人的烈焰,我因此看不出过失;哦,杀死普罗安巴者,不要愤怒。
9.61.21
यौनः स्वैः सुखहार्दैश्च सम्बन्धः सह पाण्डवैः ।
तेषां वृद्ध्या हि वृद्धिर्नो मा क्रुधः पुरुषर्षभ ॥ ९.६१.२१ ॥
我们与般度五子的关系是亲族之情,以亲爱与喜乐相连。他们的兴旺即是我们的兴旺;哦,人中之牛,不要愤怒。
9.61.22
वासुदेववचः श्रुत्वा सीरभृत्प्राह धर्मवित् ॥ ९.६१.२२ ॥
闻听婆苏提婆(克里希那)之言,持犁者、通晓正法的大力罗摩说道。
9.61.23
धर्मश्च धारितः सद्भिः स च द्वाभ्यां नियच्छति ।
अर्थश्चाप्यतिलुब्धस्य कामश्चातिप्रसङ्गिणः ॥ ९.६१.२३ ॥
善人所持守的正法,方能约束另外两者:极端贪婪者的财富,过度执着者的欲望。
9.61.24
धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन् ।
धर्मार्थकामान्योऽभ्येति सोत्यन्तं सुखमश्नुते ॥ ९.६१.२४ ॥
正法与财富、正法与欲望、欲望与财富,彼此并不相害。超越正法、财富与欲望者,得至极乐。
9.61.25
तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात् ।
भीमसेनेन गोविन्द कामं त्वं तु यथाऽऽत्थ माम् ॥ ९.६१.२५ ॥
瞿溯啊,毗摩先那因违背法而使这一切陷入混乱;愿一切如你对我所说。
9.61.26
अरोषणो हि धर्मात्मा सततं धर्मवत्सलः ।
भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः ॥ ९.६१.२६ ॥
你在世间以无怒、心怀法义、常爱法而闻名;因此请平静下来,不要生气。
9.61.27
प्राप्तं कलियुगं विद्वि प्रतिज्ञां पाण्डवस्य च ।
आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः।
ततः पुरुषशार्दूलो हत्वा नैकृतिकं रणे ॥ ९.६१.२७ ॥
要知道迦利时代已经到来;愿般度之子从誓言和仇怨的债务中解脱。于是人中虎在战场上杀了那个奸诈之人……
9.61.28
निकृत्या निकृतिप्रज्ञं यो हन्याद्वैरिणं रणे ।
अधर्मो विद्यते नात्र यद्भीमो हतवान्रिपुम् ॥ ९.६१.२८ ॥
在战场上,以诡计杀死擅长诡计的敌人,此处并无不法;因为毗摩已杀了敌人。
9.61.29
युध्यमानं रणे वीरं कुरुवृष्णियशस्करम् ।
अनेन कर्णः सन्दिष्टः पृष्ठतो धनुरच्छिनत् ॥ ९.६१.२९ ॥
迦尔纳受他指使,从背后砍断了那位在战场上奋战、为俱卢和毗湿尼增添荣耀的英雄的弓。
9.61.30
ततः सञ्छिन्नधन्वानं विरथं पौरुषे स्थितम् ।
व्यायुधीकृत्य बहवः सौभद्रमपलायिनम् ॥ ९.६१.३० ॥
随后,他的弓被斩断,车也失去,却坚定地挺立在男子汉的奋战中,不肯逃走,许多人使这位妙臂之子解除了武装。
9.61.31
जन्मप्रभृति लुब्धश्च पापात्मा चैष दुर्मतिः ।
निहतो भीमसेनेन दुर्बुद्धिः कुलपांसनः ॥ ९.६१.३१ ॥
此人自出生起便贪婪、性情罪恶、心术不正,乃家族之耻,已被毗摩修那所杀。
9.61.32
प्रतिज्ञां भीमसेनेन त्रयोदशसमार्जिताम् ।
किमर्थं नाभिजानाति युध्यमानो हि शत्रुभिः ॥ ९.६१.३२ ॥
他与敌人交战之时,为何不记得毗摩修那珍藏了十三年的誓言?
9.61.33
ऊर्ध्वमाक्रम्य वेगेन जिघांसन्तं वृकोदरः ।
बिभेद गदया चोरू न स्थाने न च मण्डले ॥ ९.६१.३३ ॥
狼腹者向上猛跃,欲置其于死地,以铁杵击其大腿——既不在适当之处,也不在战阵之圈内。
9.61.34
धर्मच्छलमिमं श्रुत्वा केशवात्स विशाम्पते ।
नैव प्रीतमाना रामो वचनं प्राह संसदि ॥ ९.६१.३४ ॥
人主啊!罗摩从克沙那里听到这番以法为借口的话,心中不悦,便在朝堂上说道。
9.61.35
हत्वाऽधर्मेण राजानं धर्मात्मानं सुयोधनम् ।
जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः ॥ ९.६१.३५ ॥
班度之子不义地杀害了法心之王苏约陀那,将在世间以“狡诈战士”之名闻名。
9.61.36
दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम् ।
ऋजुयोधी हतो राजा धर्मराष्ट्रो नराधिपः ॥ ९.६१.३६ ॥
法心的难敌也将获得永恒的归宿;这位正直作战的国王,法国之主,人间之君,已被杀死。
9.61.37
युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च ।
हुत्वाऽऽत्मानममित्राग्नौ प्राप चावभृथं यशः।
स्वर्गं गन्ता महाराजः ससुहृज्ज्ञातिबान्धवः ॥ ९.६१.३७ ॥
他进入战斗的受戒,展开战争的祭祀,将自己献入敌人的火中,获得了荣耀与阿婆黑利多沐浴;伟大的国王将与朋友、亲族和眷属一同升天。
9.61.38
इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान् ।
श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति ॥ ९.६१.३८ ॥
说完这话,他登上战车,威猛的罗西尼之子,形如白云之巅,向德瓦拉卡出发了。
9.61.39
पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशाम्पते ।
रामे द्वारवतीं याते नातिप्रमनसोऽभवन् ॥ ९.६१.३९ ॥
人主啊,罗摩去往德瓦拉瓦蒂之后,般遮罗人、婆利施尼族人和般度之子都不太欢喜。
9.61.40
ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम् ।
शोकोपहतसङ्कल्पं वासुदेवोऽब्रवीदिदम् ॥ ९.६१.४० ॥
于是婆薮提婆对悲伤的坚战说了这些话。坚战心情沮丧,陷入沉思,低着头,决心被悲痛击垮。
9.61.41
धर्मराज किमर्थं त्वमधर्ममनुमन्यसे ।
हतबन्धोर्यदेतस्य पतितस्य विचेतसः ॥ ९.६१.४१ ॥
法王啊!他的亲族已被杀死,他已倒下,失去了理智,你为何还要认可对他的不义?
9.61.42
दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा ।
उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप ॥ ९.६१.४२ ॥
杜尤陀那的头正被毗摩的脚踩碎,人主啊,你明知法,为何还在旁观?
9.61.43
न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः ।
पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये ॥ ९.६१.४३ ॥
克里希那啊,狼腹(怖军)因愤怒以脚触碰国王的头,这并不令我喜悦;我也不因家族灭绝而欢喜。
9.61.44
निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम् ।
बहूनि परुषाण्युक्त्वा वनं प्रस्थापिता वयम् ॥ ९.६१.४४ ॥
德拉什特拉的儿子们一直以欺诈害我们;他们说了许多严厉的话,我们便被送往森林。
9.61.45
भीमसेनस्य तद्दुःखमतीव हृदि वर्तते ।
इति सञ्चिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम् ॥ ९.६१.४५ ॥
怖军心中的那份痛苦极为强烈;瓦尔什涅耶啊,我想到这一点,才对此不加理会。
9.61.46
तस्माद्धत्वाऽकृतप्रज्ञं लुब्धं कामवशानुगम् ।
लभतां पाण्डवः कामं धर्मोऽधर्मोऽथवा कृतः ॥ ९.६१.४६ ॥
因此,杀死那愚昧、贪婪、受欲望驱使的人,愿般度之子获得他的愿望,无论那被视为法还是非法。
9.61.47
इत्युक्तवति कौन्तेये धर्मराजे युधिष्ठिरे ।
वासुदेवो महाबाहुर्युधिष्ठिरमभाषत।
काममस्त्वेतदिति वै कृच्छ्राद्यदुकुलोद्वहः ॥ ९.६१.४७ ॥
昆提之子、法王坚战如此说罢,大臂的婆苏提婆对坚战说话;东叉族的支柱艰难地说道:“就照此办吧。”
9.61.48
इत्युक्त्वा वासुदेवोऽपि वायुपुत्रप्रियेप्सया ।
अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि ॥ ९.६१.४८ ॥
说完这些,婆苏提婆也为了使风神之子(怖军)欢喜,赞同怖军在战中所做的一切。
9.61.49
अर्जुनोऽपि महाबाहुरप्रीतेनान्तरात्मना ।
नोवाच किञ्चिद्वचनं भ्रातरं साध्वसाधु वा ॥ ९.६१.४९ ॥
大臂的阿周那也心怀不悦,对兄长一言不发,无论善言恶语。
9.61.50
भीमसेनोऽपि हत्वाऽऽजौ तव पुत्रममर्षणः ।
अभिवाद्याग्रतः स्थित्वा सम्प्रहृष्टः कृताञ्जलिः ॥ ९.६१.५० ॥
在战场上杀死你儿子的怖军,虽然愤怒,仍站在前面行礼,极为欢喜地合掌。
9.61.51
प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम् ।
हर्षादुत्फुल्लनयनो जितकाशी विशाम्पते ॥ ९.६१.५१ ॥
那大光辉者对法王坚战说道,喜悦得双眼睁大,已然获胜,啊,人民之主。
9.61.52
तवाद्य पृथिवी सर्वा क्षेमा निहतकण्टका ।
तां प्रशाधि महाराज स्वधर्ममनुपालय ॥ ९.६१.५२ ॥
今日你的整个大地已安宁,荆棘已被除尽。伟大的国王啊,请治理她,并恪守你自己的法。
9.61.53
यस्तु कर्ताऽस्य वैरस्य निकृत्या निकृतिप्रियः ।
सोऽयं विनिहतः शेते पृथिव्यं पृथिवीपते ॥ ९.६१.५३ ॥
那造成这场仇恨、喜好欺诈的人,如今已被杀死,躺在大地之上,啊,大地之主。
9.61.54
दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः ।
राधेयः शकुनिश्चैव हताश्च तव शत्रवः ॥ ९.६१.५४ ॥
难降以及所有说狠话的人,罗陀之子(迦尔纳)和沙恭尼也一样,你的一切敌人都已被杀。
9.61.55
सेयं रत्नसमाकीर्णा मही सवनपर्वता ।
उपावृत्ता महाराज त्वामद्य निहतद्विषम् ॥ ९.६१.५५ ॥
大王啊,这充满珍宝的大地,连同its森林与山岳,今日已归向您,因为您的敌人已被杀死。
9.61.56
गतो वैरस्य निधनं हतो राजा सुयोधनः ।
कृष्णस्य मतमास्थाय विजितेयं वसुन्धरा ॥ ९.६१.५६ ॥
仇恨已经终结,国王苏亚殊那被杀;遵循黑天的意见,此大地已被征服。
9.61.57
दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः ।
दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः ॥ ९.६१.५७ ॥
幸而您已偿还了对母亲及双方愤怒的债务;幸而,无敌者啊,您正在获胜;幸而敌人已被击倒。