摩诃婆罗多 · 章 9.62
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.62.1
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे ।
पाण्डवाः सृञ्जयाश्चैव किमकुर्वत सञ्जय ॥ ९.६२.१ ॥
桑闍耶啊,见难敌在战斗中被怖军所杀,般度诸子与斯林阇耶人做了什么?
9.62.2
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे ।
सिंहेनेव महाराज मत्तं वनगजं यथा ॥ ९.६२.२ ॥
大王啊,见难敌在战斗中被怖军所杀,犹如狮子杀死发狂的野象。
9.62.3
प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः ।
पाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने।
आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे ॥ ९.६२.३ ॥
当库鲁族的喜悦难敌被杀之时,般度诸子与克里希那一同,以欢喜的心,在那里挥舞上衣,发出狮子般的吼声。
9.62.4
नैतान्हर्षसमाविष्टानियं सेहे वसुन्धरा ॥ ९.६२.४ ॥
这大地无法承受这些充满喜悦的人。
9.62.5
धनूंष्येके व्याक्षिपन्त ज्याश्चाप्यन्ये तथाऽक्षिपन् ।
दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीन् ॥ ९.६२.५ ॥
有人挥舞弓箭,有人拨动弓弦,有人吹响大螺号,有人敲打战鼓。
9.62.6
चिकीडुश्च तथैवान्ये जहसुश्च तवाहिताः ।
अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः ॥ ९.६२.६ ॥
有人嬉戏,您的敌人们大笑;英雄们屡次对怖军说出了这些话。
9.62.7
दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम् ।
कौरवेयं रणे हत्वा गदयाऽतिकृतश्रमम् ॥ ९.६२.७ ॥
今日在战场上,你完成了极其艰难的事业,以铁杵在经过巨大努力后杀死了一位俱卢族人。
9.62.8
इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे ।
त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः ॥ ९.६२.८ ॥
在大战中,你如同因陀罗杀死弗栗多一般完成此事;人们认为这次杀敌是你所为。
9.62.9
चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः ।
दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात् ॥ ९.६२.९ ॥
除了狼腹(毗摩)之外,谁能杀死这位在各处以种种方式奔走转战的英雄难敌?
9.62.10
वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम् ।
अशक्यमेतदन्येन सम्पादयितुमीदृशम् ॥ ९.६२.१० ॥
你已到达了仇恨的彼岸,这对他人而言在此处极为艰难;如此之事,别人是无法完成的。
9.62.11
कुञ्जरेणेव मत्तेन वीरसङ्ग्राममूर्धनि ।
दुर्योधपशिरो दिष्ट्या पादेन मृदितं त्वया ॥ ९.६२.११ ॥
如同狂象在英雄之战的前沿,幸而你以脚踏碎了难敌的头颅。
9.62.12
सिंहेन महिषस्येव कृत्वा सङ्गरमुत्तमम् ।
दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयाऽनघ ॥ ९.६२.१२ ॥
犹如狮子与水牛展开一场精彩的搏斗,无瑕者啊,幸而你饮下了难降的鲜血。
9.62.13
ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम् ।
मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा ॥ ९.६२.१३ ॥
那些侮辱正法之心的国王坚战的人,他们头上已被你踏上了脚;幸运的是,这是你自己的行为所致。
9.62.14
अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च ।
भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः ॥ ९.६२.१४ ॥
因为摧毁了敌人的堡垒,又杀死了难敌,哦,怖军!幸运的是,你的伟大名声已传遍大地。
9.62.15
एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः ।
तथा त्वां निहतामित्रं वयं नन्दाम भारत ॥ ९.६२.१५ ॥
犹如弗栗多被杀之时,乐师们为因陀罗欢庆;同样,哦,婆罗多!我们为你欢庆,你的敌人已被杀死。
9.62.16
दुर्योधनवधे यानि रोमाणि हृषितानि नः ।
अद्यापि न विकृष्यन्ते तानि तद्विद्धि भारत।
इत्यब्रुन्भीमसेनं वातिकास्तत्र सङ्गताः ॥ ९.६२.१६ ॥
闻难敌被杀,我们的毛发竖立,至今未平;哦,婆罗多,你要知道。聚集在那里的使者对怖军这样说。
9.62.17
तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह ।
ब्रुवतोऽसदृशं तत्र प्रोवाच मधुसूदनः ॥ ९.६२.१७ ॥
对那些欢喜的人中之虎——与般度之子同在的般遮罗人,他们在那里说了不当之言,摩度苏陀那开口说道。
9.62.18
न न्याय्यं निहतं शत्रुं भूयो हन्तुं नराधिपाः ।
असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः ॥ ९.६२.१८ ॥
诸位人主啊,已被杀死的敌人再次加以打击,并不合理;这个愚昧之人已经被严厉的言语一再击倒了。
9.62.19
तदैवैष हतः पापो यदैव निरपत्रपः ।
लुब्धः पापसहायश्च सुहृदां शासनातिगः ॥ ९.६२.१९ ॥
这个罪人在他变得无耻、贪婪、与恶人为伍并违背朋友的劝告之时,便已经被杀了。
9.62.20
बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः ।
पाण्डुभ्यः प्रार्थ्यमानोऽपि पित्र्यमंशं न दत्तवान् ॥ ९.६२.२० ॥
维杜罗、德罗纳、克里帕、甘伽之子(毗湿摩)以及孙遮耶人多次请求,他仍不把父系的份额给予般度之子。
9.62.21
नैव तेभ्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः ।
किमनेन वितुन्नेन वाग्भिः काष्ठसधर्मणा ॥ ९.६२.२१ ॥
这个最卑劣的人对他们来说既非朋友也非敌人。这些像木头一样被刺穿的言语又有何用?
9.62.22
रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः ।
दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः ॥ ९.६२.२२ ॥
诸位地上之主,快登上战车,让我们走吧。幸运的是,这个罪孽之人已与他的大臣、宗族和亲属一同被杀了。
9.62.23
इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः ।
अमर्षवशमापन्न उदतिष्ठद्विशाम्पते ॥ ९.६२.२३ ॥
主人啊,杜尔约达那王听到克里希那这番讥讽,被愤怒所控制,站了起来。
9.62.24
स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम् ।
दृष्टिं भ्रूसङ्कटां कृत्वा वासुदेवे न्यपातयत् ॥ ९.६२.२४ ॥
他坐在臀部上,双臂撑住大地,皱紧眉头,将目光投向瓦苏提婆。
9.62.25
अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तु ।
क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भोगिनः ॥ ९.६२.२५ ॥
国王半起的身躯,形如被斩断尾巴的愤怒毒蛇。
9.62.26
प्राणान्तकरिणीं घोरां वेदनामप्यचिन्तयन् ।
दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत् ॥ ९.६२.२६ ॥
杜尔约达那不顾那致命的剧痛,以严厉的言辞折磨婆苏提婆(黑天)。
9.62.27
कंसदासस्य दायाद न ते लज्जाऽस्त्यनेन वै ।
अधर्मेण गदायुद्धे यदर्हं विनिपातितः।
ऊरूभिन्धीति भीमस्य स्मृतिं मिथ्याप्रयच्छता ॥ ९.६२.२७ ॥
康萨仆人的后裔!你难道不为此感到羞耻吗?在棍棒之战中,我并不该受此不义之击倒,而你以虚假的提醒,让怖军击碎我的大腿。
9.62.28
किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः ।
घातयित्वा महीपालानृजुयुद्धान्सहस्रशः।
जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा ॥ ९.६२.२८ ॥
你对阿周那所说的话,难道我不知道吗?在正直的战斗中让成千上万的国王被杀,用种种狡诈的手段,你既无羞耻,也无怜悯。
9.62.29
अहन्यहनि शूराणां कुर्वाणः कदनं महत् ।
शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः ॥ ९.६२.२९ ॥
他日复一日地大肆杀戮英雄,却因将湿婆坎丁置于前方,你的祖父被杀。
9.62.30
अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते ।
आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मया ॥ ९.६२.३० ॥
恶意之人啊!杀死名为阿什瓦塔曼的象之后,老师(德罗纳)放下了武器——这难道不为我所知吗?
9.62.31
स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान् ।
पात्यमानस्त्वया दृष्टो न चैनं त्वमवारयः ॥ ९.६२.३१ ॥
那位勇士被残忍的德里什塔笃姆那击倒,你看见了,却没有阻止他。
9.62.32
वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव च ।
घटोत्कचे व्यंसयतः कस्त्वत्तः पापकृत्तमः ॥ ९.६२.३२ ॥
谁比你更大的罪人?你把为杀死般度之子而求得的长矛投向了瓜托特伽查。
9.62.33
छिन्नहस्तः प्रायगतस्तथा भूरिश्रवा बली ।
त्वयाऽभिसृष्टेन हतः शैनेयेन दुरात्मना ॥ ९.६२.३३ ॥
强大的布利什拉瓦斯断了手臂,濒临死亡,被你所派的恶徒希尼之子杀死。
9.62.34
कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषया ।
व्यंसनेनाश्वसेनस्य पन्नगेन्द्रस्य वै पुनः ॥ ९.६२.३४ ॥
迦尔纳为了战胜阿周那而建立最高功业,再次借助蛇王阿什瓦塞纳的灾祸。
9.62.35
पुनश्च पतिते चक्रे व्यसनार्तः पराजितः ।
पापितः समरे कर्णश्चक्रव्याग्रोऽग्रणीर्नृणाम् ॥ ९.६२.३५ ॥
车轮再次陷落时,迦尔纳被灾祸所折磨、被击败,在战斗中被击倒——车战者中的猛虎,人中的第一。
9.62.36
यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगे ।
ऋजुना प्रतियुध्येथा न ते स्याद्विजयो ध्रुवम् ॥ ९.६२.३६ ॥
如果你在战斗中正面与我、迦尔纳,以及毗湿摩和德罗纳交战,胜利必定不会属于你。
9.62.37
त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः ।
स्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः ॥ ९.६२.३७ ॥
你这卑劣之人又以歪门邪道,杀害了履行自身职责的诸王,也杀害了我们和其他人。
9.62.38
त्वया मायाविना कृष्ण मायां कर्मप्रमोषिणीम् ।
कृत्वा हतः सिन्धुपतिः किं तन्न विदितं मम ॥ ९.६२.३८ ॥
克里希那啊,你这善施幻术者,制造了夺取行为果报的幻术,杀死了信度王。这难道不是我所知道的吗?
9.62.39
हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः ।
सगणः ससुहृच्चैव पापं मार्गमनुष्ठितः ॥ ९.६२.३९ ॥
甘陀罗之王啊,你与兄弟、子嗣、亲属、随从和朋友一同被杀,因为你走上了罪恶之路。
9.62.40
तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ ।
कर्णश्च निहतः सङ्ख्ये तव शीलानुवर्तकः ॥ ९.६२.४० ॥
正是因你的恶行,英雄毗湿摩和德罗纳被击倒,而追随你作为的迦尔纳也在战斗中被杀。
9.62.41
याच्यमानं मया मूढ पित्र्यमंशं न दित्ससि ।
पाण्डवेभ्यः स्वराज्यं च लोभाच्छकुनिनिश्चयात् ॥ ९.६२.४१ ॥
愚人啊,尽管我索求,你仍不愿交出祖传之份,也不把自己的王国还给般度之子们,出于贪婪,又听从沙恭尼的主意。
9.62.42
विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः ।
प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते ॥ ९.६२.४२ ॥
你给了毗摩森那毒药,般度之子们连同他们的母亲在蜡宫中被焚烧,你这恶毒之人啊!
9.62.43
सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला ।
तदैव तावद्दुष्टात्मन्वध्यस्त्वं निरपत्रप ॥ ९.६२.४३ ॥
在议事厅中,于赌局期间,正处于经期的耶琼塞尼被拖拽。那时,你这恶念之人、无耻之徒,便已该处死。
9.62.44
अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना ।
निकृत्या यत्पराजैषीस्तस्मादसि हतो रणे ॥ ९.६२.४४ ॥
你以诡计,借精通骰戏的沙巴拉之手,战胜了那位通晓法义却不擅长赌骰的人。因此,你在战场上被杀。
9.62.45
जयद्रथेन पापेन यत्कृष्णा क्लेशिता वने ।
यातेषु मृगयां चैव तृणबिन्दोरथाश्रमम् ॥ ९.६२.४५ ॥
罪恶的胜车在森林中折磨了黑天女,那时般度五子外出打猎,前往特利那宾杜的修行处。
9.62.46
अभिमन्युश्च यद्बाल एको बहुभिराहवे ।
त्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे ॥ ९.६२.४६ ॥
阿毗曼由在战场上孤身一人,被众人围攻,因你的过错而被杀。罪人啊,因此你在战场上被杀。
9.62.47
कुर्वाणं कर्म समरे पाण्डवानर्थकाङ्क्षिणम् ।
यच्छिखण्ड्यवधीद्भीष्मं मित्रार्थे न व्यतिक्रमः ॥ ९.६२.४७ ॥
在战斗中图谋般度诸子之害的毗湿摩,被尸迦丁杀死;这是为了朋友而做,并无违犯。
9.62.48
स्वधर्मं पृष्ठतः कृत्वा आचार्यस्त्वत्प्रियेप्सया ।
पार्षतेन हतः सङ्ख्ये वर्तमानोऽसतां पथि ॥ ९.६२.४८ ॥
учитель(德罗纳)抛弃自己的法,为了讨你欢心,走上了不善之人的道路,在战斗中被普利沙塔之子(德里斯塔吉尤姆那)杀死。
9.62.49
प्रतिज्ञामात्मनः सत्यां चिकीर्षन्समरे निपुम् ।
हतवान्सात्वतो विद्वान्सौमदत्तिं महारथम् ॥ ९.६२.४९ ॥
萨特瓦塔智者欲使自己的誓言兑现,在战斗中巧妙地杀死了大战车武士、苏摩达塔之子。
9.62.50
अर्जुनः समरे राजन्युध्यमानः कदाचन ।
निन्दितं पुरुषव्याघ्रः करोति न कथञ्चन ॥ ९.६२.५० ॥
大王啊,人中之虎阿周那在战斗中,从不以任何方式做出可耻之事。
9.62.51
लब्ध्वाऽपि बहुधा छिद्रं वीरवृत्तमनुस्मरन् ।
निजघान रणे कर्णं मैवं वोचः सुदुर्मते ॥ ९.६२.५१ ॥
虽然多次找到了机会,但他记着英雄的品行,在战斗中杀死了迦尔纳。恶意之人啊,不要这样说。
9.62.52
देवानां मतमाज्ञाय तेषां प्रियहितेप्सया ।
अर्जुनस्य महानागं मया व्यंसितमस्त्रजम् ॥ ९.६२.५२ ॥
我知道诸神的意愿,想要使他们欢喜和得益,于是为阿周那使那由兵器所生的大蛇偏离了。
9.62.53
त्वं च भीष्मश्च कर्णश्च द्रोणो द्रौणायनिस्तथा ।
विराटनगरे तस्य ह्यानृशंस्येन जीविताः ॥ ९.६२.५३ ॥
你、毗湿摩、迦尔纳、德罗纳以及德罗纳之子,都是在毗罗吒城因他的仁慈而得以存活的。
9.62.54
स्मर पार्थस्य विक्रान्तं गन्धर्वेषु कृतं तथा ।
अधर्मं नात्र गान्धारे पाण्डवैर्यत्कृतं त्वयि ॥ ९.६२.५४ ॥
记住般度之子的勇武,以及他在乾闼婆之间所做的事。甘陀利之子啊,般度五子对你所做的,在这里并非不义。
9.62.55
स्वबाहुबलमास्थाय स्वधर्मेण परन्तपाः ।
जितवन्तो रणे वीराः पापोसि निधनं गतः ॥ ९.६२.५५ ॥
依靠自己臂膀的力量,依照自己的法分,能灼烧敌人的英雄们在战斗中获胜。罪人啊,你已经走向死亡。
9.62.56
यान्यकार्याणि चास्माकं कृतानिति प्रभाषसे ।
वैगुण्येन तवात्यर्थं सर्वं हि तदनुष्ठितम् ॥ ९.६२.५६ ॥
你说我们所做的那些不当之事,实际上都是你因自己的邪恶而大量做出的。
9.62.57
बृहस्पतेरुशनसो नोपदेशः श्रुतस्त्वया ।
वृद्धा नोपासिताश्चैव हितं वाक्यं न ते श्रुतभ् ॥ ९.६२.५७ ॥
你没有听从诃斯帕蒂和乌尚那斯的教诲,没有侍奉长者,也没有听取对你有益的话语。
9.62.58
लोभेनातिबलेन त्वं तृष्णया च वशीकृतः ।
कृतवानस्यकार्याणि विपाकस्तस्य भुज्यताम् ॥ ९.६२.५८ ॥
你被贪欲、过度的力量和渴求所支配,做了这些不当之事;现在就享受它的果报吧。
9.62.59
अधीतं विधिवद्दत्तं भूः प्रभुक्ता ससागरा ।
मूर्ध्नि स्थिममित्राणां को नु स्वन्ततरो मया ॥ ९.६२.५९ ॥
我依法学习吠陀,施舍布施,享有海洋环绕的大地,并使敌人踩在我的头上。谁比我更卓越?
9.62.60
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुपश्यताम् ।
तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया ॥ ९.६२.६० ॥
那是守护自身法分的刹帝利亲族所愿的,如今这死亡降临到了我身上。谁比我更卓越?
9.62.61
देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः ।
ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया ॥ ९.६२.६१ ॥
我已获得诸神配享、连国王也难以得到的人间享乐,并得到了至高的权力。谁比我更幸福?
9.62.62
ससुहृत्सानुबन्धस्च स्वर्गं गन्ताऽहमच्युत ।
यूयं गर्हितसङ्कल्पाः शोचन्तो वर्तयिष्यथ ॥ ९.६२.६२ ॥
阿周那啊(无堕者),我将与朋友和亲族一同升天;而你们怀着可鄙的心思,将在悲伤中度日。
9.62.63
न मे विषादो भीमेन पादेन शिर आहतम् ।
काका वा कङ्कगृध्रा वा निधास्यन्ति पदं क्षणात् ॥ ९.६२.६३ ॥
婆罗多的毗摩以脚击我的头,我并不因此悲伤;乌鸦、鹭鸶或秃鹫,转瞬之间就会在此落足。
9.62.64
अस्य वाक्यस्य निधने कुरुराजस्य धीमतः ।
अपतत्सुमहद्वर्षं पुष्पाणां पुण्यगन्धिनाम् ॥ ९.६२.६४ ॥
此言说罢,一场极大的香花雨降落在那位智慧的俱卢王身上。
9.62.65
अवादयन्त गन्धर्वा वादित्रं सुमनोहरम् ॥ ९.६२.६५ ॥
乾闼婆们奏起了极其动听的乐器。
9.62.66
जगुश्चाप्सरसो राज्ञो यशः सम्बद्धमेव च ।
सिद्धाश्च मुमुचुर्वाचः साधुसाध्विति पार्थिव ॥ ९.६२.६६ ॥
天女们歌唱着与国王荣耀相称的歌曲,悉陀们高呼“善哉,善哉!”,大王啊。
9.62.67
ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुःसुखः ।
व्यराजंश्च दिशः सर्वा नभो वैदूर्यसन्निभम् ॥ ९.६२.६७ ॥
吹起了芬芳清净、柔和舒适的微风,四方与天空都像琉璃宝石一样闪耀。
9.62.68
अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः ।
दुर्योधनस्य पूजां तु दृष्ट्वा व्रीडामुपागमन् ॥ ९.६२.६८ ॥
以婆苏提婆(黑天)为首的人们目睹了那些极其奇异的景象,又看到对难敌的礼敬,便感到羞愧。
9.62.69
हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते ।
भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च ॥ ९.६२.६९ ॥
听说毗湿摩、德罗纳、迦尔纳与补利输罗婆是以非法之手被杀,他们为悲伤所苦,痛哭起来。
9.62.70
तांस्तु चिन्तापरान्दृष्ट्वा पाण्डवान्दीनचेतसः ।
प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः ॥ ९.६२.७० ॥
黑天看到般度五子陷入忧虑、心意沮丧,他那如云雷与鼓声般的声音说出了这番话。
9.62.71
नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः ।
ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे ॥ ९.६२.७१ ॥
此人箭术极为迅捷,那些以勇猛正当的方式作战的大车将,你们在战场上是不可能杀死他们的。
9.62.72
उपायान्निहता ह्येते मया तस्मान्नराधिपाः ।
अन्यथा पाण्डवेयानां नाभविष्यज्जयः क्वचित् ॥ ९.६२.७२ ॥
这些人是我以计谋杀死的;因此,诸王啊,否则般度之子们绝不会获得胜利。
9.62.73
ते हि सर्वे महेष्वासाश्चत्वारोऽतिरथा मुवि ।
अशक्या धर्मतो हन्तुं लोकपालैरपि स्वयम् ॥ ९.६२.७३ ॥
那四位大弓手、大地上的大车将,依法不可被杀,即便是世界守护者亲自也不能。
9.62.74
तथैवायं गदापाणिर्धार्तराष्ट्रो गतश्रमः ।
अशक्यो धर्मतो हन्तुं कालेनापि दि दण्डिना ॥ ९.६२.७४ ॥
同样,这位手持金刚杵、毫无疲惫的持国之子,依法不可被杀,即便是执杖的时间之神……
9.62.75
नैतन्मनसि कर्तव्यं यदयं निहतो नृपः ।
मिथ्याचर्याच्छलोपायैर्बहवः शत्रवो हताः ॥ ९.६२.७५ ॥
不应在心中认为这位国王已被杀;以虚假的行为和诡计的手段,许多敌人已被杀死。
9.62.76
पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः ।
सद्भिश्चानुगतः पन्थाः सर्वैरनुगमिष्यते ॥ ९.६२.७६ ॥
先人所行之道,诛杀阿修罗的诸神所行之道,以及善人所行之路——所有人都将遵循这同一条道路。
9.62.77
एवं विधात्रा विहितं स्वयमेषां महात्मनाम् ।
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥ ९.६२.७७ ॥
如此,造物主亲自为这些大德所定的命运,不能以人的努力去超越。
9.62.78
भूतं भव्यं भविष्यच्च निमेषाद्यो हनिष्यति ।
कृतान्तमन्यथा कर्तुं नेच्छेत्सोऽयं धनञ्जय ॥ ९.६२.७८ ॥
能在瞬间毁灭过去、未来与现在的人,这位财富征服者(阿周那)不会想要改变克利坦塔(死亡)。
9.62.79
कृतकृत्याः स्म सायाह्ने निवासं रोचयामहे ।
साश्वनागरथाः सर्वे विश्राम्यन्तु नराधिपाः ॥ ९.६२.७९ ॥
我们已完成任务,希望傍晚有个歇息之所。愿所有君王与马、象、车一同休息。
9.62.80
वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह ।
पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसङ्घवत् ॥ ९.६२.८० ॥
闻听婆修提婆之言,于是般遮罗人与般度之子们极为欢喜,如狮群般吼叫。
9.62.81
ततः प्राध्मापयच्छङ्खं पाञ्चजन्यं जनार्दनः ।
देवदत्तं प्रहृष्टात्मा शङ्खप्रवरमर्जुनः ॥ ९.६२.८१ ॥
于是遮那尔达那吹响般遮阇나耶之螺,阿周那心怀喜悦,吹响诸螺中最殊胜的提婆达多。
9.62.82
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
पोण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ ९.६२.८२ ॥
般度之子国王坚战吹响无胜之螺,行事骇人的狼腹(怖军)吹响大螺般德罗。
9.62.83
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ।
धृष्टद्युम्नस्तथा जैत्रं सात्यकिर्नन्दिवर्धनम् ॥ ९.६२.८३ ॥
那古拉与萨诃提婆吹响苏ghoṣa与摩尼布史波迦;德里湿吒衍摩吹响胜螺,萨谛奇吹响喜增螺。
9.62.84
तेषां नादेन महता शङ्खानां भरतर्षभ ।
आपुपूरे नभः सर्वं पृथिवी च चचाल ह ॥ ९.६२.८४ ॥
婆罗多之雄牛啊!那些螺的巨大声响充满了整个天空,大地也为之震动。
9.62.85
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
पाण्डुसैन्येष्ववाद्यन्त स शब्दस्तुमुलोऽभवत् ॥ ९.६२.८५ ॥
于是般度军中吹响了海螺、大鼓、潘那伐鼓、阿那鼓和牛角号,那声音变得喧嚣嘈杂。
9.62.86
अस्तुवन्पाण्डवानन्ये निर्भीश्च स्तुतिमङ्गलैः ।
हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः ॥ ९.६२.८६ ॥
其他无畏的勇士以赞歌和吉祥之语赞美般度诸子;人中雄牛们见到难敌被杀,心中欢喜。