摩诃婆罗多 · 章 9.63
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.63.1
ततस्ते प्रययुः सर्वे निवासाय महीक्षितः ।
शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः ॥ ९.६३.१ ॥
于是众王吹响海螺,欢欣地、双臂如铁杵般地,各自前往营帐休息。
9.63.2
पाण्डवान्गच्छतश्चापि शिबिरं नो विशाम्पते ।
महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा ॥ ९.६३.२ ॥
众王之主啊,当般度之子走向我们营地时,大弓手尤尤图·萨提亚基也随后跟了上来。
9.63.3
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः ।
सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत ॥ ९.६३.३ ॥
持国之子啊,猛光、尸坎蒂、德罗波蒂的所有儿子,以及其他所有大弓手,都各自回到了自己的营地。
9.63.4
ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम् ।
दुर्योधनस्य शिबिरं रङ्गवन्निःसृते जने ॥ ९.६३.४ ॥
于是般度之子进入了难敌的营地。那里光彩已失,主帅已被杀死,人群散去,空荡如同舞台。
9.63.5
गतोत्सवं पुरमिव हृतनागमिव हदम् ।
स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम् ॥ ९.६३.५ ॥
那座营地好似节日已过的城市,又像被夺走了大象的湖泊;里面大多是妇女和阉人,由年迈的大臣看管。
9.63.6
तत्रैतान्पर्युपातिष्ठन्दुर्योधन पुरःसराः ।
कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः ॥ ९.६३.६ ॥
大王啊,难敌率众在那里合掌迎候他们,身穿肮脏的赭色衣服。
9.63.7
शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः ।
अवतेरुर्महाराज रथेभ्यो रथसत्तमाः ॥ ९.६३.७ ॥
般度之子们抵达俱卢王的营地,诸位最优秀的车士,啊大王,从战车上下来。
9.63.8
ततो गाण्डीवधन्वानमभ्यभाषत केशवः ।
स्थितः प्रियहिते नित्यमतीव भरतर्षभ ॥ ९.६३.८ ॥
于是克舍婆对持甘狄拔弓者说话——他始终坚定地关切其福祉与利益,啊婆罗多之牛。
9.63.9
अवरोपय गाण्डीवमक्षयौ च महेषुधी ।
अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम।
स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ ॥ ९.६३.९ ॥
放下甘狄拔弓和两个取之不尽的大箭囊。然后我下车;随后你自己也下来,婆罗多中最优秀的人。啊无罪者,这对你最好。
9.63.10
तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनञ्जयः ॥ ९.६३.१० ॥
那位英雄、般度之子财胜(阿周那)便照此行事。
9.63.11
अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम् ।
अवारोहत मेधावी रथाद्गाण्डीवधन्वनः ॥ ९.६३.११ ॥
此后,智慧的克里希那放开马的缰绳,从持甘狄拔弓者的战车上下来。
9.63.12
अथावतीर्णे भूतानामीश्वरे सुमहात्मनि ।
कपिरप्याश्वपाक्रामत्सहदेवैर्ध्वजालयैः ॥ ९.६३.१२ ॥
于是,当那位伟大灵魂、众生之主下车后,猴子(哈奴曼)也与偕提婆及居于旗帜中的诸神一同下来,如同御者一般。
9.63.13
स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः ।
अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते ॥ ९.६३.१३ ॥
那位大战车手被德罗纳和迦尔纳的神圣武器烧毁,随后迅速被火焰点燃,哦,大地之主。
9.63.14
सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धनः ।
भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः ॥ ९.६३.१४ ॥
连同箭袋、缰绳、马匹和轭带,持甘狄拔弓者的战车化为灰烬,落到地上。
9.63.15
तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो ।
अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत् ॥ ९.६३.१५ ॥
哦,主啊,看到那战车就这样化为灰烬,般度之子们都惊讶了;哦,国王,阿周那于是说了这些话。
9.63.16
कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य ह ।
गोवन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना ॥ ९.६३.१६ ॥
他合掌,满怀敬爱地俯身致敬,说道:哦,戈文达,尊贵的主,为何这辆战车被火烧毁了?
9.63.17
किमेतन्महदाश्चर्यमभवद्यदुनन्दन ।
तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे ॥ ९.६३.१७ ॥
哦,耶度之喜,这是怎样的大奇迹?哦,大臂者,若你认为可以听闻,就告诉我吧。
9.63.18
द्रोणकर्णास्त्रनिर्दग्धः पूर्वमेवायमर्जुन ।
मदास्थितत्वात्समरे न विशीर्णः परन्तप ॥ ९.६३.१८ ॥
阿周那,此车先前已被德罗纳和迦尔纳的武器烧毁;但哦,敌人的焚烧者,因为它依托于我,所以在战斗中并未毁灭。
9.63.19
इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा ।
मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि ॥ ९.६३.१९ ॥
如今它已被梵天武器的光芒摧毁烧毁。拘蒂之子啊,今日我将它释放于你身上,你已完成了所应做之事。
9.63.20
ईषदुत्स्मयमानस्तु भगवान्केशवोऽरिहा ।
परिष्वज्य च राजानं युधिष्ठिरमभाषत ॥ ९.६३.२० ॥
薄带微笑,世尊克舍婆,灭敌者,拥抱了国王坚战,然后说道。
9.63.21
दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः ।
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः ॥ ९.६३.२१ ॥
拘蒂之子啊,你幸运地获胜了;你的敌人幸运地被击败了;持甘狄拔弓者,以及般度之子毗摩森,也幸运地(得以保全)。
9.63.22
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ।
मुक्ता वीरक्षयादिस्मात्सङ्ग्रामान्निहतद्विषः।
क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत ॥ ९.६३.२२ ॥
你也安好,国王,摩德利的两个儿子般度族人也安好。从这场英雄的毁灭与战争中解脱,杀死了敌人。婆罗多啊,请迅速去做未来的职责。
9.63.23
उपयातमुपप्लाव्यं सह गाण्डीवधन्वना ।
आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः ॥ ९.६३.२३ ॥
我与持甘狄拔弓者一同来到优婆普拉维耶。请把蜜敬之礼拿来,正如你先前所说。
9.63.24
एष भ्राता सखा चैव तव कृष्ण धनञ्जयः ।
रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो ॥ ९.६३.२४ ॥
这位财主(阿周那)是你的兄弟和朋友,黑天啊。大臂之主啊,在一切灾难中都应当保护他。
9.63.25
तव चैव ब्रुवाणस्य तथेत्येवाहमब्रुवम् ॥ ९.६३.२५ ॥
在您说话之时,我也说道:「正是如此。」
9.63.26
स सव्यसाची गुप्तस्ते विजयी च जनेश्वर ।
भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः।
मुक्तो वीरक्षयादस्मात्सङ्ग्रामाद्रोमहर्षणात् ॥ ९.६३.२६ ॥
那位萨维亚萨钦(阿周那)蒙您庇护,获得胜利,哦,人主;与他的兄弟们一起,哦,王中之王,那位真勇的英雄从这场令人毛骨悚然、战士成批阵亡的战斗中脱身了。
9.63.27
एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः ।
हृष्टरोमा महाराज प्रत्युवाच जनार्दनम् ॥ ९.६३.२७ ॥
克里希纳如此对他说,哦,大王,法王坚战喜悦得汗毛竖立,回答了遮那陀那。
9.63.28
प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन ।
कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरन्दरः ॥ ९.६३.२८ ॥
哦,敌人的摧毁者,除您以外,谁能承受德罗纳与迦尔纳所发出的梵天神箭?即便是执金刚的因陀罗本人,也无法亲自承受。
9.63.29
भवतस्तु प्रसादेन संग्रामे बहवो हताः ।
महारणगतः पार्थो यच्च नासीत्पराङ्मुखः ॥ ९.६३.२९ ॥
蒙您的恩典,战斗中有许多人被杀;进入大战的般度之子从不背向敌人。
9.63.30
तथा तव महाबाहो पर्यायैर्बहुभिर्मया ।
कर्मणआमनुसन्धानात्तेजस्वी जगति श्रुता ॥ ९.६३.३० ॥
同样,哦,大臂者,我依次追忆您的许多功业,因此说:您以光辉闻名于世。
9.63.31
उपप्लाव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत् ।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥ ९.६३.३१ ॥
在优帕普拉维亚,大仙人黑天·二叶(毗耶娑)对我说:哪里有法,哪里就有黑天;哪里有黑天,哪里就有胜利。
9.63.32
एवमुक्तस्ततः कृष्णः प्रत्युवाच युधिष्ठिरम् ।
न तुल्याश्चार्जुनस्येह बलेन कुरुनन्दन ॥ ९.६३.३२ ॥
如此询问之后,黑天回答坚战说:俱卢之喜啊,此间论力量,无人能与阿周那相等。
9.63.33
स एष सर्वाण्यस्त्राणि दिव्यानि प्राप्य शङ्करात् ।
सत्समो वा विशिष्टो वा रणे त्वमिति पाण्डवः।
अनुज्ञातः पाण्डुसुतः पुनः प्रत्यागमन्महीम् ॥ ९.६३.३३ ॥
那位般度之子从湿婆处获得了一切神兵。被告知:“你在战场上与他相等或胜过他”后,般度之子得到许可,重返大地。
9.63.34
भूतं भव्यं भविष्यच्च अनुज्ञातस्त्वया विभो ।
निमेषार्धान्नरव्याघ्रो नयेदिति मतिर्मम ॥ ९.६३.३४ ॥
啊,大能者,得你允许,他知晓过去、未来与现在。我认为,人中之虎可以在半瞬之间将他们引至。
9.63.35
द्रोणं भीष्मं कृपं कर्णं द्रोणपुत्रं जयद्रथम् ।
निहन्तुं शक्नुयात्क्रुद्धो निमेषार्धाद्धनञ्जयः ॥ ९.६३.३५ ॥
愤怒的财富者(阿周那)能在半瞬之间杀死德罗纳、毗湿摩、克里巴、迦尔纳、德罗纳之子和胜车。
9.63.36
सदेवासुरगन्धर्वान्सयक्षोरगराक्षसान् ।
त्रीन्वा लोकान्विजेतुं स शक्तः किमिह मानुषान् ॥ ९.६३.३६ ॥
他能征服三界,包括天神、阿修罗、乾闼婆、夜叉、龙蛇与罗刹;何况此间的凡人呢?
9.63.37
विधिना विहितं चासौ मया सञ्चोदितोऽपि सन् ।
न चकार मतिं हन्तुं ततस्ते बलवत्तराः ॥ ९.६३.३७ ॥
此乃天命所定,我虽催促,他却无意杀害他们,因此他们愈发强大。
9.63.38
अत्र गीता मया सुष्ठु गिरः सत्या महीपते ।
दर्सितं मयि सर्वं च तेनासौ जितवान्रिपून् ॥ ९.६३.३८ ॥
君主啊,我在此很好地讲述了这些真实的话语;他凭借我所展示的一切,战胜了敌人。
9.63.39
अर्जुनोऽपि महाबाहुर्मया तुल्यो महीपते ।
स महेश्वरलब्धास्त्रः किं न कुर्याद्विभुः प्रभो ॥ ९.६३.३९ ॥
君主啊,大臂的阿周那也与我相等;那位从摩诃提婆处获得武器的强者,有什么做不到的呢?
9.63.40
इत्येवमुक्ते ते वीराः शिबिरं तव भारत ।
प्रविश्य प्रत्यपद्यन्त कोशरत्नर्धिसञ्चयान् ॥ ९.६३.४० ॥
如此说罢,婆罗多啊,那些英雄进入你的营地,获得了堆积如山的宝库、珠宝与财富。
9.63.41
रजतं जातरूपं च मणीनथ च मौक्तिकान् ।
भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च ॥ ९.६३.४१ ॥
白银与黄金,宝石,珍珠,主要的饰物,毯子与兽皮也在其中。
9.63.42
गजानश्वान्रथांश्चैव महान्ति शयनानि च ।
दासीदासमसंख्येयं राज्योपकरणानि च ॥ ९.६३.४२ ॥
象、马与战车,华美的床榻,数不尽的男女奴仆,以及王国的器物。
9.63.43
ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ ।
उदक्रोशन्महाभागा नरेन्द्र विजितारयः ॥ ९.६३.४३ ॥
啊,婆罗多族的雄牛,他们得到了你那取之不尽的财富,大喊起来。啊,人主,那些战胜了敌人的大福之人发出了吼声。
9.63.44
ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च ।
अतिष्ठन्त मुहुः सर्वे पाण्डवा विगतज्वराः ॥ ९.६३.४४ ॥
那些英雄得到安慰,解下车辆,一次又一次地站立;所有摆脱了忧愁之热的般度之子都站立着。
9.63.45
अथाब्रवीन्महाराज वासुदेवो महायशाः ।
अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः ॥ ९.६३.४५ ॥
于是大名鼎鼎的婆苏提婆说道:啊,大王,为了吉祥,我们应当住在营地之外。
9.63.46
तथेत्युक्त्वा हि ते सर्वे पाण्डवाः सात्यकिस्तथा ।
वासुदेवेन सहिता मङ्गलार्थं बहिर्ययुः ॥ ९.६३.४६ ॥
众般度之子与萨提奇说“就这样吧”,便与婆苏提婆一同为吉祥而出到营外。
9.63.47
ते समासाद्य सरितं पुण्यामोघवतीं नृप ।
न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः ॥ ९.६३.४७ ॥
啊,国王,般度之子们到达圣河奥格哇提,杀死了敌人,便在那里度过了那一夜。
9.63.48
युधिष्ठिरस्ततो राजा प्राप्तकालमचिन्तयन् ॥ ९.६३.४८ ॥
于是国王坚战,待时机已至,便思量起来。
9.63.49
तत्र ते गमनं माप्तं रोचते तव माधव ।
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम ॥ ९.६३.४९ ॥
摩陀婆啊,你前往那里在我看来是合适的,征服敌人者啊,为了平息怒火燃烧的甘陀利。
9.63.50
हेतुकारणयुक्तैश्च वाक्यैः कालसमीरितैः ।
क्षिप्रमेव महाभाग गान्धारीं प्रशमिष्यसि।
पितामहश्च भगवान्व्यासस्तत्र भविष्यति ॥ ९.६३.५० ॥
大福之人啊,你以合乎时宜、有理有据的言辞,很快就能平息甘陀利;那里还将有尊贵的祖父毗耶娑。
9.63.51
ततः सम्प्रेषयामासुर्यादवं नागसाह्वयम् ॥ ९.६३.५१ ॥
于是他们派遣这位耶达瓦族人前往那伽萨赫瓦亚(象城,即哈斯蒂纳普拉)。
9.63.52
स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान् ।
दारुकं रथमारोप्य येन राजाऽम्बिकासुतः ॥ ९.६३.५२ ॥
那位威力强大的婆苏提婆,让达鲁迦登上车子,疾速出发,前往阿妙卡之子国王所在之处。
9.63.53
तमूचुः सम्प्रयास्यन्तं शैब्यसुग्रीववाहनम् ।
प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम् ॥ ९.६३.५३ ॥
当他启程之时,他的马是舍夷婆与须羯哩婆,他们对他说:"请再次安慰那位名声远扬、诸子已被杀害的甘陀利。"
9.63.54
स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः ।
आससाद ततः क्षिप्रं गान्धारीं निहतात्मजाम् ॥ ९.६३.५४ ॥
这位萨特瓦诸族中的最优者,依照般度五子所言前往那座城,随即迅速到达了失去儿子的甘陀利那里。