Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.64

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.64.1

किमर्थं द्विजशार्दूल धर्मराजो युधिष्ठिरः ।
गान्धार्याः प्रेषयामास वासुदेवं परन्तपम् ॥ ९.६४.१ ॥

婆罗门中的虎啊,法王坚战为何派遣这位摧毁敌人的瓦苏提婆去见甘陀利?

9.64.2

यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति ।
न च तं लब्धवान्कामं ततो युद्धमभूदिदम् ॥ ९.६४.२ ॥

先前克里希那为求和平前往俱卢族,却未能达成所愿,于是才有了这场战争。

9.64.3

निहतेषु तु योधेषु हते दुर्योधने तदा ।
पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि ॥ ९.६४.३ ॥

众战士被杀,难敌也被杀死,般度之子在战场上成为大地上无敌的君主之时,

9.64.4

विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे ।
किं तु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः ॥ ९.६४.४ ॥

婆罗门啊,营地已逃散空虚,至上的荣誉已经获得,那么克里希那再次前往的原因究竟是什么?

9.64.5

न चैतत्कारणं ब्रह्मन्नल्पं विप्रतिभाति मे ।
यत्रागमदमेयात्मा स्वयमेव जनार्दनः ॥ ९.६४.५ ॥

婆罗门啊,这个原因在我看来并不微小,因为正是在此处,心量无限的遮那陀那亲自前来。

9.64.6

तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम ।
यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये ॥ ९.६४.६ ॥

最优秀的祭司啊,请如实为我全部讲述;婆罗门啊,凡是决定此事的原因,请尽数告诉我。

9.64.7

त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव ।
तत्तेऽहं संप्रवक्ष्यामि यथावद्भरतर्षभ ॥ ९.६४.७ ॥

国王啊,你向我提出的这个追问,正是由你引发的。婆罗多族的雄牛啊,我将如实地为你解说。

9.64.8

हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे ।
व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम् ॥ ९.६४.८ ॥

国王啊,见难敌在战斗中被毗摩娑那所杀,那位大力的持国之子违背了约定的规则……

9.64.9

अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत ।
युधिष्ठिरं महाराज महद्भयमथाविशत् ॥ ९.६४.९ ॥

婆罗多啊,见(难敌)在铁棍决斗中被不义地杀死,大王啊,巨大的恐惧侵入了坚战。

9.64.10

सोऽचिन्तयन्महाभागां गान्धारीं तपसान्विताम् ।
घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत् ॥ ९.६४.१० ॥

他想到了甘陀利——那位大福的女子,具足苦行,拥有可怕的苦行;她甚至能焚烧三界。

9.64.11

तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा ।
गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत् ॥ ९.६४.११ ॥

他正这样思虑之时,心中便生出一个念头:应当先平息满怀怒火的甘陀利。

9.64.12

सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम् ।
मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति ॥ ९.६४.१२ ॥

她听闻我们所造成的这样的诸子被杀之事,必将愤怒,并以心中之火将我们化为灰烬。

9.64.13

कथं दुःखमिदं तीव्रं गान्धारी सम्प्रशक्ष्यति ।
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम् ॥ ९.६४.१३ ॥

甘陀利听闻她那正直的战士之子被诡计所杀,将如何承受这剧烈的悲痛?

9.64.14

एवं विचिन्त्य बहुधा भयशोकसमन्वितः ।
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत ॥ ९.६४.१४ ॥

他如此多方思量,心中充满恐惧与悲伤,法王对筏素提婆说了这些话。

9.64.15

तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम् ।
अप्राप्यं मनसाऽपीदं प्राप्तमस्माभिरच्युत ॥ ९.६४.१५ ॥

哥文达啊,凭你的恩惠,这王国已无荆棘而得到;阿周陀啊,我们得到了连心中都无法企及之物。

9.64.16

प्रत्यक्षं मे महाबाहो सङ्ग्रामे रोमहर्षणे ।
विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन ॥ ९.६४.१६ ॥

大臂者啊,雅达瓦之喜悦啊,就在那令人毛骨悚然的战斗中,我亲眼看见你造成了巨大的毁灭。

9.64.17

त्वया देवासुरे युद्धे वधार्थममरद्विषाम् ।
यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः ॥ ९.६४.१७ ॥

如同昔日天神与阿修罗之战中,你曾为诛杀不死者的仇敌而施以助力,天神的仇敌因此被杀。

9.64.18

साह्यं तथा महाबाहो दत्तमस्माकमच्युत ।
सारथ्येन च वार्ष्णेय भवता हि धृता वयम् ॥ ९.६४.१८ ॥

大臂者啊,阿周陀啊,同样地你也曾助我们;筏尔什尼之后啊,正是你作为御者,支撑着我们。

9.64.19

यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे ।
कथं शक्यो रणे जेतुं भवेदेष बलार्णवः ॥ ९.६४.१९ ॥

若你不是大战中法尔古那的守护者,这片力量之海在战场上又如何能够战胜?

9.64.20

गदाप्रहारा विपुलाः परिघैश्चापि ताडनम् ।
शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वथैः ॥ ९.६४.२० ॥

大量的铁锤打击,以及铁杵的撞击,还有长矛、投枪、矛和斧。

9.64.21

अस्मत्कृते त्वया कृष्ण वाचः सुपरुषाः श्रुताः ।
शस्त्राणां च निपाता वै वज्रस्पर्शोपमा रणे ॥ ९.६४.२१ ॥

克里希那啊,为了我们,你听到了极其刺耳的言语;战场上兵器的落下如同雷电的触碰。

9.64.22

ते च ते सफला जाता हते दुर्योधनेऽच्युत ।
तत्सर्वं न यथा नश्येत्पुनः कृष्ण तथा कुरु ॥ ९.६४.२२ ॥

阿周那啊(不灭者),杜尔约达那既已被杀,那些努力都已见成效。克里希那啊,请使这一切不再化为乌有。

9.64.23

सन्देहडोलां प्राप्तं नश्चेतः कृष्ण जये सति ।
गान्धार्या हि महाबाहो क्रोधं शमय माधव ॥ ९.६४.२३ ॥

克里希那啊,即使在胜利之中,我们的心也在怀疑的秋千上摇荡。大臂的摩陀婆啊,请平息甘陀丽的愤怒。

9.64.24

सा हि नित्यं महाभागा तपसोग्रेण कर्शिता ।
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति।
तस्या प्रसादनं वीर प्राप्तकालं मतं मम ॥ ९.६४.२४ ॥

她这位大福之人,常因严苛的苦行而憔悴;听闻子孙被杀之事,必定会将我们尽数焚毁。英雄啊,依我之见,现在正是安抚她的适当时机。

9.64.25

कश्च तां क्रोधसन्दीप्तां पुत्रव्यसनकर्शिताम् ।
वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम ॥ ९.६४.२५ ॥

除你之外,哪个人能够望见她——她因愤怒而燃烧,因失子而憔悴,人中最尊者啊?

9.64.26

तत्र मे गमनं प्राप्तं रोचते तव माधव ।
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम ॥ ९.६४.२६ ॥

前往那里安抚怒火中烧的甘陀利,我认为是恰当的;愿此也合你意,摩陀婆,降伏敌人者。

9.64.27

त्वं हि कर्ता विकर्ता च लोकानां प्रभवाव्ययः ।
हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः ॥ ९.६४.२७ ॥

你是诸世界的创造者与毁灭者,是本源,是不灭者;以与理由和因由相应、适时说出的言辞。

9.64.28

क्षिप्रमेव महाबाहो गान्धारीं शमयिष्यसि ।
पितामहश्च भगवान्कृष्णस्तत्र भविष्यति ॥ ९.६४.२८ ॥

大臂者啊,你很快就会安抚甘陀利;祖父和尊贵的黑天也将在那里。

9.64.29

सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम् ।
कर्तव्यं सात्वतां श्रेष्ठ पाण्डवानां हितार्थिना ॥ ९.६४.२९ ॥

大臂者啊,萨特瓦特人中最优秀的,你应当一切办法消除甘陀利的愤怒,因为你希望般度五子的福祉。

9.64.30

धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः ।
आमन्त्र्य दारुकं प्राह रथः सञ्जो विधीयताम् ॥ ९.६४.३० ॥

听了法王的话,雅度家族的支柱召唤达如迦,说道:“备好战车吧。”

9.64.31

केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः ।
न्यवेदयद्रथं सज्जं केशवाय महात्मने ॥ ९.६४.३१ ॥

达鲁迦闻听克希婆之言,急忙向大德的克希婆禀报战车已经备妥。

9.64.32

तं रथं यादवश्रेष्ठः समारुह्य परन्तपः ।
जगाम हास्तिनपुरं त्वरितः केशवो विभुः ॥ ९.६४.३२ ॥

耶达瓦族中最杰出、焚烧敌人的全能者克希婆登上那辆战车,急速前往象城。

9.64.33

ततः प्रायान्महाराज माधवो भगवान्रथी ।
नागसाह्वयमासाद्य प्रविवेश च वीर्यवान् ॥ ९.६४.३३ ॥

大王啊,于是威严的摩陀婆作为御车者出发,那勇猛者到达象城(那伽萨婆亚)并进入其中。

9.64.34

प्रविश्य नगरं वीरो रथघोषेण नादयन् ।
विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात्।
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम् ॥ ९.६४.३४ ॥

英雄进入城中,以战车的隆隆声使城市回响;得知了持国王的消息,他从那辆优良的战车上下来,心无畏惧地走向持国的住所。

9.64.35

पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम् ॥ ९.६४.३५ ॥

他在那里看见了先前已到来的诸仙中最杰出的一位。

9.64.36

पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः ।
अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः ॥ ९.६४.३६ ॥

Janārdana 从容地按压国王的双脚,恭敬地向他问安;Keśava 也向甘陀利致敬。

9.64.37

ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः ।
पाणिमालम्ब्य राजेन्द्र सुस्वरं प्ररुरोद ह ॥ ९.६४.३७ ॥

于是,雅达瓦中最杰出者阿陀缚贾握住持国王的手,哦,王中之王,放声痛哭。

9.64.38

स मुहूर्तादिवोत्सृज्य बाष्पं शोकसमुद्भवम् ।
प्रक्षाल्य वारिणा नेत्रे ह्याचम्य च यथाविधि।
उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिन्दमः ॥ ९.६४.३८ ॥

片刻之后,他流下因悲痛而生的泪水,用水洗净双眼,依礼漱口净身,这位制服敌人者便对持国王恭敬地说道。

9.64.39

न तेऽस्त्यविदितं किञ्चिद्भूतं भव्यं च भारत ।
कालस्य च यथावृत्तं तत्ते सुविदितं प्रभो ॥ ९.६४.३९ ॥

婆罗多之子啊,主啊,过去与未来的一切,对你都不是未知的;时间的进程如何展开,你也都清楚。

9.64.40

यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः ।
कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत ॥ ९.६४.४० ॥

婆罗多之子啊,尽管所有般度之子都顺从你的心意,这样的家族与刹帝利种姓的毁灭又怎能不发生呢?

9.64.41

भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः ।
द्यूतच्छलजितैः शुद्वैर्वनवासो ह्युपागतः ॥ ९.६४.४१ ॥

与兄弟们立下约定后,热爱正法者忍耐了下来;在掷骰子游戏中被诡计击败,虽然清白无瑕,他们却被流放到森林中。

9.64.42

अज्ञातवासचर्या च नानावेषसमावृतैः ।
अन्ये च बहवः क्लेशास्त्वशक्तैरिव सर्वदा ॥ ९.६४.४२ ॥

隐匿度日、身披种种伪装的生活,以及许多其他苦难——这些对软弱者来说始终难以承受——他们都忍受了下来。

9.64.43

मया च स्वयमागम्य युद्धकाल उपस्थिते ।
सर्वलोकस्य सान्निध्येग्रामांस्त्वं पञ्चयाचितः ॥ ९.६४.४३ ॥

战争时刻来临之时,我亲自前来,在众人面前向你索取五个村庄。

9.64.44

त्वया कालोपसृष्टेन लोभतो नापवर्जिताः ।
तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम् ॥ ९.६४.४४ ॥

你为时势所迫,又出于贪婪,没有归还他们;国王啊,因你的过错,整个刹帝利种族都已毁灭。

9.64.45

भीष्मेण सोमदत्तेन बाह्लीकेन कृपेण च ।
द्रोणेन च सपुत्रेण विदुरेण च धीमता।
याचितस्त्वं शमं नित्यं न च तत्कृतवानसि ॥ ९.६४.४५ ॥

毗湿摩、索摩达塔、巴赫利迦、克利帕、与其子同在的德罗纳,以及智慧的维杜罗,都始终向你请求和平,你却没有这样做。

9.64.46

कालोपहतचित्ता हि सर्वे मुह्यन्ति भारत ।
यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते ॥ ९.६४.४६ ॥

婆罗多的后裔啊,凡心为时势所伤者都会迷惑,正如你先前在此事上发动时曾陷入迷惑一样。

9.64.47

किमन्यत्कालयोगाद्धि द्विष्टमेव परायणम् ।
मा च दोषान्महाप्राज्ञ पाण्डवेषु निवेशय ॥ ९.६४.४७ ॥

在时势的作用下,除了仇恨成为依靠,还能如何?大智者啊,不要把过错加在般度诸子身上。

9.64.48

अल्पोप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम् ।
धर्मतो न्यायतश्चैव स्नेहतश्च परन्तप ॥ ९.६४.४८ ॥

在伟大的般度诸子身上,无论是对法、对正义还是对情谊,哪怕极微小的违逆也没有,啊,敌人的烧灼者。

9.64.49

एतत्सर्वं तु विज्ञाय ह्यात्मदोषकृतं फलम् ।
तन्मन्युं पाण्डुपुत्रेषु न भवान्कर्तुमर्हति ॥ ९.६४.४९ ॥

既知这一切都是你自身过错所结的果,你不应对般度之子怀有愤怒。

9.64.50

कुलं वंशश्च पिण्डाश्च यच्च पुत्रकृत फलम् ।
गान्धार्यास्तव वै नाथ पाण्डवेषु प्रतिष्ठितम् ॥ ९.६४.५० ॥

主公啊,家族、世系、祭供,以及子嗣所结之果——对甘陀利和你而言,这一切都系于般度之子。

9.64.51

त्वं चैव कुरुशार्दूल गान्धारी च यशस्विनी ।
मा शुचो नरशार्दूल पाण्डवान्प्रतिकिल्बिम् ॥ ९.६४.५१ ॥

你啊,俱卢之虎,以及荣耀的甘陀利,人中之虎——不要因对般度五子所犯之过而悲伤。

9.64.52

एतत्सर्वमनुध्याय आत्मनश्च व्यतिक्रमम् ।
शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ ॥ ९.६४.५२ ॥

思量这一切以及你自身的过错,怀着善意想念般度五子吧。向你致敬,婆罗多之牛。

9.64.53

जानासि च महाबाहो धर्मराजस्य या त्वयि ।
भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः ॥ ९.६४.५३ ॥

大臂者啊,你知道法王对你的忠诚与天性中的深情,婆罗多之虎。

9.64.54

एतच्च कदनं कृत्वा शत्रूणामपकारिणाम् ।
दह्यते स दिवारात्रौ न च शर्माधिगच्छति ॥ ९.६४.५४ ॥

即便如此屠戮敌人与加害者之后,他昼夜焚烧,得不到安宁。

9.64.55

त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम् ।
स शोचन्नरशार्दूलः शान्तिं नैवाधिगच्छति ॥ ९.६४.५५ ॥

人中虎啊,他为你和名声显赫的甘陀利而悲伤,那位人中虎始终得不到平静。

9.64.56

हिया च परयाऽविष्टो भवन्तं नाधिगच्छति ।
पुत्रशोकाभिसन्तप्तं बुद्धिव्याकुलितेन्द्रियम् ॥ ९.६४.५६ ॥

他被巨大的羞愧所笼罩,不来见你;他因失子之痛而煎熬,心智与感官都已混乱。

9.64.57

एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः ।
उवाच परमं वाक्यं गान्धारीं शोककर्शिताम् ॥ ९.६४.५७ ॥

大王啊,那位尊贵的雅度族人对持国说完这些话后,又对被悲痛折磨得憔悴的甘陀利说了这番至高的话。

9.64.58

सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते ।
त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे ॥ ९.६४.५८ ॥

苏跋罗之女啊,请听我要对你说的话。持戒坚定的吉祥者,今日这世间没有能与你相比的女子。

9.64.59

जानासि च यथा राज्ञि सभायां मम सन्निधौ ।
धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम् ॥ ९.६४.५९ ॥

王后啊,你知道,在大会上我在场时所说的话,充满了法与利,对双方都有益处。

9.64.60

उक्तवत्यसि कल्याणि न च ते तनयैः कृतम् ।
दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः ॥ ९.६४.६० ॥

吉祥的王后啊,你说得对,可是你的儿子们并没有这样做。你曾对渴望胜利的难敌说过严厉的话。

9.64.61

शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः ।
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे ॥ ९.६४.६१ ॥

愚者啊,听我的话:法在哪里,胜利就在哪里。国王之女啊,你的这些话now已经应验了。

9.64.62

एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः ।
पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन ॥ ९.६४.६२ ॥

善良的女子啊,知道了这一点,不要让心沉溺于悲伤;愿你的心意永远不要为了毁灭般度之子。

9.64.63

शक्ता चासि महाभागे पृथिवीं सचराचराम् ।
चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात् ॥ ९.६४.६३ ॥

大福之女啊,你凭借苦行的力量,以怒火燃烧的眼睛,便能焚毁这连同动与不动众生的大地。

9.64.64

वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत् ।
एवमेतन्महाबाहो यथा वदसि केशव ॥ ९.६४.६४ ॥

听了瓦苏提婆的话,甘陀利说:“正如你所说,大臂者啊,克舍婆啊,事情就是这样。”

9.64.65

आधिभिर्दह्यमानाया मतिः सञ्चलिता मम ।
सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन ॥ ९.६४.६५ ॥

我的心因忧苦而焚烧,已经动摇;但听了你的话,遮那达那啊,它现在在我心中安定了。

9.64.66

राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव ।
त्वं गतिः सहितैर्वीरैः पाण्डवैर्दिपदा वर ॥ ९.६४.६६ ॥

对于那失明、年迈、丧子的国王,你是唯一的依靠,克舍婆啊;你,人中最优秀者,与英勇的般度之子在一起。

9.64.67

एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा ।
पुत्रशोकाभिसन्तप्ता गान्धारी प्ररुरोद ह ॥ ९.६४.६७ ॥

说完这些话,她用布遮住脸,因失子之痛而备受煎熬的甘陀利放声痛哭。

9.64.68

तत एनां महाबाहुः केश्वः शोककर्शिताम् ।
हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः ॥ ९.६४.६८ ॥

于是大臂主宰克舍婆以有理有据的话语安慰了因悲痛而憔悴的她。

9.64.69

समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः ।
द्रौणिसङ्कल्पितं भावमन्वबुध्यत केशवः ॥ ९.६४.६९ ॥

安慰了甘陀利和持国之后,摩陀婆·克舍婆察觉了德罗纳之子所定的意图。

9.64.70

ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च ।
द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत् ॥ ९.६४.७० ॥

随即他急忙起身,以头顶礼毗耶娑的双足,然后,王中之王啊,他对俱卢族之王说道。

9.64.71

आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः ।
द्रौणेः पापोस्त्यभिप्रायस्तेनास्मि सहसोत्थितः ॥ ९.६४.७१ ॥

俱卢之最,我向你告辞;不要让心沉溺于悲伤。德罗纳之子的意图是邪恶的,因此我突然起身。

9.64.72

पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता ॥ ९.६४.७२ ॥

正是他显露了夜间杀害般度五子的决心。

9.64.73

एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत् ।
धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम् ॥ ९.६४.७३ ॥

闻此言,大臂的持国与甘陀利一同对杀死羁舍的刻舍婆说道。

9.64.74

शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय ।
भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन ॥ ९.६४.७४ ॥

大臂者啊,快去保护般度之子们吧。生主啊,我很快将再与你相见。

9.64.75

प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः ॥ ९.६४.७५ ॥

于是阿舍于多急速与达卢迦一同启程。

9.64.76

वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम् ।
आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः ॥ ९.६४.७६ ॥

大王啊,婆苏提婆离去后,无量自性、为世界所礼敬的毗耶娑安慰了人主持国。

9.64.77

वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह ।
शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप ॥ ९.६४.७७ ॥

正直的婆苏提婆完成其使命后,大王啊,从象城前往营地,渴望见到般度之子们。

9.64.78

आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान् ।
तच्च तेभ्यः समाख्याय सहितस्तैः समाहितः ॥ ९.६४.७८ ॥

夜里到达营地后,他去见般度之子;把那件事告诉他们后,他与他们一同安然待着。