摩诃婆罗多 · 章 9.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.7.1
व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा ।
अब्रवीत्तावकान्सर्वान्सन्नह्यन्तां महारथाः ॥ ९.७.१ ॥
夜晚过去后,国王难敌便对他的所有人说:"诸位大车勇士,披上铠甲吧。"
9.7.2
राज्ञश्च मतमाज्ञाय समनह्यत सा चमूः ।
अयोजयन्रथांस्तूर्णं पर्यधावंस्तथा परे ॥ ९.७.२ ॥
得知国王的意愿,那支军队便整备起来;他们迅速套上战车,其他人也四处奔走。
9.7.3
अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः ।
हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः ॥ ९.७.३ ॥
象群被装备起来,步兵披上铠甲,其他人则成千上万地备好了覆有鞍毯的战马。
9.7.4
वादित्राणां च निनदः प्रादुरासीद्विशाम्पते ।
योधानां सैन्यमुख्यानामन्योन्यं प्रतिगर्जताम् ॥ ९.७.४ ॥
民之主啊,乐器的声音响起,军中的勇士们彼此呼啸相应。
9.7.5
ततो बलानि सर्वाणि हतशिष्टानि भारत ।
सन्नद्धानि व्यदृश्यन्त मृत्युं कृत्वा निवर्तनम् ॥ ९.७.५ ॥
此时,婆罗多的后裔啊,所有在杀戮中幸存的军队都已披甲待战,仿佛将死亡驱退了一般。
9.7.6
शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः ।
प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः ॥ ९.७.६ ॥
任命摩德罗之王沙利耶为统帅后,大车勇士们将全军分配,部署在各个方阵之中。
9.7.7
ततः सर्वे समागम्य पुत्रेण तव सैनिकाः ।
कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः।
अन्ये च पार्थिवाः शेषाः समयं चक्रुरादृताः ॥ ९.७.७ ॥
于是你的所有士兵与你的儿子聚集在一起;克ripa、克里陀婆曼、德罗纳之子、沙利耶,以及苏跋罗之子沙恭尼,与其余诸王恭敬地立下了誓约。
9.7.8
अद्याचार्यसुतो द्रौणिर्नैको युध्येत शत्रुभिः ।
न न एकेन योद्धव्यं कथञ्चिदपि पाण्डवैः ॥ ९.७.८ ॥
今天,师尊之子德罗纳之子不应独自与敌人作战;无论如何,任何人都不应独自与般度五子作战。
9.7.9
यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत् ।
स पञ्चभिर्भवेद्युक्तः पातकैश्चोपपातकैः।
अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः ॥ ९.७.९ ॥
凡独自与般度五子作战,或抛弃正在作战的人者,将被五种大罪和小罪所缠缚;我们应当彼此守护,共同作战。
9.7.10
एवं ते समयं कृत्वा सर्वे तत्र महारथाः ।
मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान् ॥ ९.७.१० ॥
如此,那些大车战士在那里立下誓约后,将摩德罗王置于前列,迅速冲向敌人。
9.7.11
तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे ।
अभ्ययुः कौरवान्युद्धे योत्स्यमानाः समन्ततः ॥ ९.७.११ ॥
君王啊,般度五子同样在大战中布阵其军,欲与战斗,从四面八方向俱卢族进发。
9.7.12
ततो बलं समभवत्क्षुब्धार्णवसमस्वनम् ।
समुद्भूतार्णवाकारमुदीर्णरथकुञ्जरम् ॥ ९.७.१२ ॥
于是大军发出如搅动大海般的轰鸣,形如涌起的海洋,战车与象群高高耸起。
9.7.13
द्रोणस्य चैव भीष्मस्य राधेयस्य च मे श्रुतम् ।
पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे ॥ ९.७.१३ ॥
我已听说德罗纳、毗湿摩和罗陀之子的陨落。请再给我讲讲沙利耶和我儿子的陨落。
9.7.14
कथं रणे हतः शल्यो धर्मराजेन सञ्जय ।
भीमेन च महाबाहुः पुत्रो दुर्योधनो मम ॥ ९.७.१४ ॥
桑闪亚啊,正法王在战场上如何杀死了沙利耶?大臂的毗摩又如何杀死了我的儿子难敌?
9.7.15
क्षयं मनुष्यदेहानां तथा नागाश्वसङ्क्षयम् ।
शृणु राजन्स्थिरो भूत्वा सङ्ग्रामं शंसतो मम ॥ ९.७.१५ ॥
大王啊,请安定地听我叙述战役:人体的毁灭,以及象群和马群的覆灭。
9.7.16
आशा बलवती राजन्पुत्राणां तेऽभवत्तदा ॥ ९.७.१६ ॥
大王啊,那时你的儿子们怀有强烈的希望。
9.7.17
हते द्रोणे च भीष्मे च सूतपुत्रे च पातिते ।
शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष ॥ ९.७.१७ ॥
德罗纳、毗湿摩与御者之子既已被杀倒地,沙利耶将在战场上杀尽普利塔之子,啊,尊者。
9.7.18
तामाशां हृदये कृत्वा समाश्वस्य च भारत ।
मद्रराजं च समरे समाश्रित्य महारथम्।
नाथवन्तं तदाऽऽत्मानममन्यत सुतस्तव ॥ ९.७.१८ ॥
婆罗多的后裔啊,他心中怀着那份希望,得到安慰,在战场上依靠大车战士摩德罗王,你的儿子那时便以为自己有了依靠。
9.7.19
यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे ।
तदा राजन्धार्तराष्ट्रान्प्रविवेश महद्भयम् ॥ ९.७.१९ ॥
大王啊,当迦尔纳被杀之时,般度之子发出狮子般的吼声,持国之子们心中生起了巨大的恐惧。
9.7.20
तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान् ।
व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत् ॥ ९.७.२० ॥
于是威猛的摩德罗王安慰了他们,大王啊,布成了名为一切吉祥的繁盛阵形。
9.7.21
प्रत्युद्ययौ रणे पार्थान्मद्रराजः प्रतापवान् ।
विधून्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम्।
रथप्रवरमास्थाय सैन्धवाश्वं महारथः ॥ ९.७.२१ ॥
威猛的摩德罗王面对般度之子挺身迎战,挥动着奇妙、耐重且极其迅疾的弓,登上以信度马驾驭的最上乘战车,那位大车士向前而来。
9.7.22
तस्य सूतो महाराज रथस्थोऽशोभयद्रथम् ।
स तेन संवृतो वीरो रथेनामित्रकर्शनः।
तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत् ॥ ९.७.२२ ॥
他的御者站在战车上,使那战车增辉。被它环绕的那位英雄,降伏敌人的勇士,大王啊,作为驱散你儿子们恐惧的人而屹立。
9.7.23
प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः ।
मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः ॥ ९.७.२३ ॥
出征之时,摩德罗王成为阵列的前锋,披甲而行,身边有摩德罗人、众英雄以及迦尔纳那不可战胜的儿子们。
9.7.24
सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः ।
गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह ॥ ९.७.२४ ॥
左翼是被三摩竭族包围的克利塔瓦尔曼;右翼是乔答摩,与沙迦人和耶婆那人在一起。
9.7.25
अश्वत्थामा पृष्ठतोऽभूत्काम्भोजैः परिवारितः ।
दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः ॥ ९.७.२५ ॥
阿湿婆陀曼在后方,被甘博惹人包围。难敌居中,由俱卢族的英杰们护卫。
9.7.26
हयानीकेन महता सौबलश्चापि संवृतः ।
प्रययौ सर्वसैन्येन कैतव्यश्च महारथः ॥ ९.७.२६ ॥
苏巴拉之子沙恭尼被庞大的骑兵部队围绕,也向前推进;大战车武士凯塔瓦亦率全军前进。
9.7.27
पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिन्दमाः ।
त्रिधाभूता महाराज तव सैन्यमुपाद्रवन् ॥ ९.७.२७ ॥
般度之子们,大弓箭手,降伏敌人者,将军队布成阵势并分为三部,大王啊,向你的军队猛攻而去。
9.7.28
धृष्टद्युम्नः शिखण्डी च सात्यकिस्च महारथः ।
शल्यस्य वाहिनीं हन्तुमभिदुद्रुवुराहवे ॥ ९.७.२८ ॥
猛光、尸икханди和大战车武士萨提奇在战斗中冲向沙利耶的军队,要将其摧毁。
9.7.29
ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः ।
शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभः ॥ ९.७.२९ ॥
于是国王坚战被自己的部队围绕,婆罗多族的雄牛渴望杀敌,径直冲向沙利耶。
9.7.30
हार्दिक्यं च महेष्वासमर्जुनः शत्रुपूगहा ।
संशप्तकगणांश्चैव वेगितोऽभिविदुद्रुवे ॥ ९.७.३० ॥
摧毁敌众的阿周那迅速冲向大弓箭手心底迦(Kṛtavarman)以及三誓军的部队。
9.7.31
गौतमं भीमसेनो वै सोमकाश्च महारथाः ।
अभ्यद्रवन्त राजेनद्र जिघांसन्तः परान्युधि ॥ ९.७.३१ ॥
毗摩娑那与索摩迦的大车战士冲向憍答摩(克利巴),王中之王啊,渴望在战斗中杀死敌人。
9.7.32
माद्रीपुत्रौ तु शकुनिमुलूकं च महारथम् ।
ससैन्यौ सहसैन्यौ तावुपतस्थतुराहवे ॥ ९.७.३२ ॥
摩德利的两个儿子各率其军,在战场上迎战沙恭尼与大车战士乌卢迦。
9.7.33
तथैवायुतशो योधास्तावकाः पाण्डवान्रणे ।
अभ्यवर्तन्त सङ्क्रुद्धा विविधायुधपाणयः ॥ ९.७.३३ ॥
同样,你的数以万计的战士怒气冲冲,手持各种兵器,在战场上转身攻击般度诸子。
9.7.34
हते भीष्मे हमेष्वासे द्रोणे कर्णे जयद्रथे ।
कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे ॥ ९.७.३४ ॥
毗湿摩、持金弓者……、德罗纳、迦尔纳、胜车皆已阵亡,战场上库鲁与般度的人马仅余寥寥……
9.7.35
संरब्धेषु च पार्थेषु पराक्रान्तेषु सञ्जय ।
मामकानां परेषां च किं शिष्टमभवद्बलम् ॥ ९.७.३५ ॥
桑闍耶啊,般度之子愤怒而英勇,我方与敌方还剩下多少军队?
9.7.36
यथा वयं परे राजन्युद्धाय समुपस्थिताः ।
यावच्चासीद्बलं शिष्टं सङ्ग्रामे तन्निबोध मे ॥ ९.७.३६ ॥
大王啊,我们与对方如何为战而集结,战斗中尚余多少军队,请听我说。
9.7.37
एकादश सहस्राणि रथानां भरतर्षभ ।
दश दन्तिसहस्राणि सप्त चैव शतानि च ॥ ९.७.३७ ॥
哦,婆罗多的雄牛,一万一千辆战车,一万头象,还有七百。
9.7.38
पूर्णे शतसहस्रे द्वे हयानां तत्र भारत ।
पत्तिकोट्यस्तथा तिस्रो बलमेतत्तवाभवत् ॥ ९.७.३८ ॥
婆罗多啊,那里有整整二十万匹马,三千万步兵;这就是你的军队。
9.7.39
रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः ।
दश चाश्वसहस्राणि पत्तिकोटी च भारत ॥ ९.७.३९ ॥
婆罗多啊,六千辆战车,六千头象,一万匹马,一千万步兵。
9.7.40
एतद्बलं पाण्डवानामभवच्छेषमाहवे ।
एत एव समाजग्मुर्युद्वाय भरतर्षभ ॥ ९.७.४० ॥
这便是般度之子在战斗中剩余的军队;婆罗多的雄牛啊,正是这些人聚集来参战。
9.7.41
एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः ।
पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः ॥ ९.७.४१ ॥
王中之王啊,如此分军之后,我们遵从摩德罗王的谋划而立阵,渴望胜利,怒气冲冲地向般度之子进发。
9.7.42
तथैव पाण्डवाः शूराः समरे जितकाशिनः ।
उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः ॥ ९.७.४२ ॥
同样,自认为在战场上已获胜的般度勇士们挺身而出,他们是人中猛虎;著名的般遮罗人也来了。
9.7.43
एवमेते बलौघेन परस्परवधैषिणः ।
उपयाता नरव्याघ्राः पूर्वां सन्ध्यां प्रति प्रभो ॥ ९.७.४३ ॥
如此,这些人中的猛虎,率领洪流般的军队,彼此欲致对方于死地,向着先前的黎明晨光进发,哦,主上。
9.7.44
ततः प्रववृते युद्धं घोररूपं भयानकम् ।
तावकानां परेषां च निघ्नतामितरेतरम् ॥ ९.७.४४ ॥
于是开始了一场可怕而骇人的战斗,你方与敌方的人彼此相击。