Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.8.1

ततः प्रववृते युद्धं कुरूणां भयवर्धनम् ।
सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम् ॥ ९.८.१ ॥

于是,与苏然遮人之间爆发了一场可怕的战斗,令俱卢人心生恐惧,如同诸神与阿修罗之战,啊,王中之王。

9.8.2

नरा रथा गजौघाश्च वाजिनश्च सहस्रशः ।
वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम् ॥ ९.८.२ ॥

成千上万的战士、战车、象群和马匹,以及勇猛前冲的战马,彼此相遇交锋。

9.8.3

गजानां भीमरूपाणां द्रवतां निःस्वनो महान् ।
अश्रूयत यथा काले जलदानां नभस्तले ॥ ९.८.३ ॥

可怖形貌的象群奔跑时发出巨大的吼声,如同天空中按时节响起的云雷。

9.8.4

नागैरभ्याहताः केचित्सरथा रथिनोऽपतन् ।
व्यद्रवन्त रणे भीता द्राव्यमाणा मदोत्कटैः ॥ ९.८.४ ॥

一些车兵被象群撞击,连同战车倒下;他们惊恐地被狂暴的象群驱赶,在战场上四散奔逃。

9.8.5

हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः ।
शरैः सम्प्रेषयामासुः परलोकाय भारत ॥ ९.८.५ ॥

那里,熟练的车兵用箭将马群与步兵护卫送往另一个世界,啊,婆罗多之子。

9.8.6

सादिनः शिक्षिता राजन्परिवार्य महारथान् ।
विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा ॥ ९.८.६ ॥

熟练的骑兵包围了大战车勇士,在战场上奔驰,用长矛、投枪与标枪击打他们,啊,国王。

9.8.7

धन्विनः पुरुषाः केचित्परिवार्य महारथान् ।
एकं बहव आसाद्य प्रैषयन्यमसादनम् ॥ ९.८.७ ॥

一些弓箭手包围了大战车武士,许多人攻击一人,将他送往阎摩之居。

9.8.8

नागान्रथवरांश्चान्ये परिवार्य महारथाः ।
सोत्तरा युधि निर्जघ्नुर्द्रवमाणं महारथम् ॥ ९.८.८ ॥

其他大战车武士包围了象群和良车,在战斗中击杀了与优怛罗一同逃跑的大战车武士。

9.8.9

तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून् ।
नागा जघ्नुर्महाराज परिवार्य समन्ततः ॥ ९.८.९ ॥

同样,大王啊,那位愤怒地射出许多箭的战车武士,被四面包围他的象群击杀。

9.8.10

नागा नागमभिद्रुत्य रथी च रथिनं रणे ।
शक्तितोमरनाराचैर्निजघ्नुस्तत्र भारत ॥ ९.८.१० ॥

婆罗多啊,那里战场上,象攻击象,战车武士攻击战车武士,他们用长矛、投枪和箭互相击杀。

9.8.11

पादातानवमृद्गन्तो रथवारणवाजिनः ।
रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम् ॥ ९.८.११ ॥

踩踏步兵,战车、象和马在战场中间出现,造成极大的混乱。

9.8.12

हयाश्च पर्यधावन्त चामरैरुपशोभिताः ।
हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम् ॥ ९.८.१२ ॥

马匹装饰着牦牛尾拂,四处奔跑,宛如喜马拉雅山坡上的天鹅在饮用大地。

9.8.13

तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशाम्पते ।
अशोभत यथा नारी करजैः क्षतविक्षता ॥ ९.८.१३ ॥

人民之主啊,那些马的蹄子使大地布满斑驳的痕迹,它如同被指甲抓伤的女子一般显得光彩夺目。

9.8.14

वाजिनां खुरशब्देन रथनेमिस्वनेन च ।
पत्तीनां चापि शब्देन नागानां बृंहितेन च ॥ ९.८.१४ ॥

马蹄的声音、战车轮圈的辚辚声、步兵的喧嚣,以及大象的吼叫……

9.8.15

वादित्राणां च घोषेण शङ्खानां निनदेन च ।
अभवन्नादिता भूमिर्निर्घातैरिव भारत ॥ ९.८.१५ ॥

乐器的轰鸣与海螺的吹响,啊婆罗多,大地回荡如同被霹雳击中。

9.8.16

धनुषां कूजमानानां शस्त्रौघानां च पात्यताम् ।
कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन ॥ ९.८.१६ ॥

弓弦的嗡鸣、纷落的兵器堆和铠甲的光芒,使人什么也分辨不出。

9.8.17

बहवो बाहवश्छिन्ना नागराजकरोपमाः ।
उद्वेष्टन्ते विचेष्टन्ते वेगं कुर्वन्ति दारुणम् ॥ ९.८.१७ ॥

许多被砍断的手臂,如同蛇王的鼻子一般,扭动挣扎,以可怕的力量抽搐。

9.8.18

शिरसां च महाराज पततां धरणीतले ।
च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः ॥ ९.८.१८ ॥

大王啊,头颅落在地面上的声音,听起来就像棕榈树上坠落果实的声音。

9.8.19

शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुन्धरा ।
तपनीयनिभैः काले नलिनैरिव भारत ॥ ९.८.१९ ॥

头颅坠落,被鲜血浸透的大地犹如覆满金色莲花,婆罗多之子啊。

9.8.20

उद्वृत्तनयनैस्तैस्तु गतसत्वैः सुविक्षतैः ।
व्यभ्राजत मही राजन्पुण्डरीकैरिवावृता ॥ ९.८.२० ॥

那些双目上翻、失去生命、伤势严重的人,啊国王,使大地犹如覆盖白莲般闪耀。

9.8.21

बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महारधनैः ।
पतितैर्भाति राजेन्द्र महाशक्रध्वजैरिव ॥ ९.८.२१ ॥

涂着檀香、戴着贵重臂钏、倒落的手臂,啊诸王之主,它们犹如因陀罗的大旗般闪耀。

9.8.22

ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे ।
हस्तिहस्तोपमैर्जज्ञे संवृतं तद्रणाङ्कणम् ॥ ९.८.२२ ॥

大战中被斩断的诸王大腿,犹如象鼻,覆盖了那片战场。

9.8.23

कबन्धंशतसङ्कीर्णं छत्रचामरसङ्कुलम् ।
सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा ॥ ९.८.२३ ॥

数百具无头躯干密布,伞盖和牦牛尾拂尘满布,那片军队之林犹如开满鲜花的森林般闪耀。

9.8.24

तत्र योधा महाराज विचरन्तो ह्यभीतवत् ।
दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः ॥ ९.८.२४ ॥

在那里,大王啊,可以看到战士们仿佛毫无畏惧地走动,身体染满鲜血,宛如盛开的金色木棉树。

9.8.25

मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः ।
पतन्तस्तत्र तवैव छिन्नाभ्रासदृशा रणे ॥ ९.८.२५ ॥

战场上,你的象群也被箭与矛所伤,纷纷倒下,如同被撕裂的云朵。

9.8.26

गजानीकं महाराज वध्यमानं महात्मभिः ।
व्यदीर्यत दिशः सर्वा वातनुन्ना धना इव ॥ ९.८.२६ ॥

大王啊,象群被大德者所杀,四散溃裂,如同被风吹散的云朵。

9.8.27

ते गजा धनसङ्काशाः पेतुरुर्व्यां समन्ततः ।
वज्रनुन्ना इव बभुः पर्वता युगसङ्क्षये ॥ ९.८.२७ ॥

那些如同云朵的象,四面倒卧于大地,仿佛在劫末被金刚杵击中的山岳。

9.8.28

हयानां सादिभिः सार्धं पतितानां महीतले ।
राशयः स्म प्रदृश्यन्ते गिरिमात्रांस्ततस्ततः ॥ ९.८.२८ ॥

倒在地上的马匹与骑士,堆成山一般高的尸堆,到处可见。

9.8.29

सञ्जज्ञे रणभूमौ तु परलोकवहा नदी ।
शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा ॥ ९.८.२९ ॥

战场上涌现一条通往彼岸世界的河流:水是鲜血,漩涡是战车,卵石是旌旗之树与白骨。

9.8.30

भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला ।
मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा ॥ ९.८.३० ॥

它的鳄鱼是手臂,水流是弓,岩石是象,卵石是马,泥浆是脂肪与骨髓,天鹅是伞盖,小船是铁锤。

9.8.31

कवचोष्णीषसञ्छन्ना पताकारुचिरद्रुमा ।
चक्रचक्रावलीजुष्टा त्रिवेणूरगसंवृता ॥ ९.८.३१ ॥

覆盖着铠甲与头巾,以旗帜如美丽的树木为饰,充满成行的战车轮,被三根芦苇般的蛇环绕,那条河流淌着。

9.8.32

शूराणां हर्षजननी भीरूणां भयवर्धनी ।
प्रावर्तत नदी रौद्रा कुरुसृञ्जयसङ्गमे ॥ ९.८.३२ ॥

使勇士欢喜、使怯懦者恐惧增长的那可怖之河,在俱卢与斯若阳耶相会之处奔涌而出。

9.8.33

तां नदीं परलोकाय वहन्तीमतिभैरवाम् ।
तेरुर्वाहननौभिस्ते शूराः परिघबाहवः ॥ ९.८.३३ ॥

那条载人走向彼岸世界、极其可怖的河流,那些臂如铁杵的勇士用由战车所造的船只渡过了。

9.8.34

वर्तमाने तदा युद्धे निर्मर्यादे विशाम्पते ।
चतुरङ्गक्षये घोरे युद्धे देवासुरोपमे ॥ ९.८.३४ ॥

人主啊,那时无限制的战斗正在进行,在四军的可怕毁灭中,它如同神与阿修罗之战。

9.8.35

व्याक्रोशन्बान्धवानन्ये तत्र तत्र परन्तप ।
क्रोशद्भिर्दयितैरन्ये भयार्ता न निवर्तिरे ॥ ९.८.३५ ॥

敌人的烧灼者啊,有人到处呼唤自己的亲族;有人因恐惧而惊惶,即便舍弃了呼喊的所爱之人也不肯回头。

9.8.36

निर्मर्यादे तथा युद्धे वर्तमाने भयानके ।
अर्जुनो भीमसेनश्च मोहयाञ्चक्रतुः परान् ॥ ९.८.३६ ॥

在这场无限制而可怖的战斗进行之时,阿周那与比玛塞那使敌人陷入迷惑。

9.8.37

सा वध्यमाना महती सेना तव नराधिप ।
अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव ॥ ९.८.३७ ॥

人主啊,您那被击打的庞大军队,如同受醉意支配的女子,在这里那里迷乱失措。

9.8.38

मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ ।
दध्मतुर्वारिजौ तत्र सिंहनादांश्च चक्रतुः ॥ ९.८.३८ ॥

迷惑了那支军队之后,怖军与财主在那里吹响海螺,发出狮子般的吼声。

9.8.39

श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ ।
धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ ॥ ९.८.३९ ॥

听到那巨大的声音,猛光与持剑者便把法王置于前方,向摩德罗王冲去。

9.8.40

तत्राश्चर्यमपश्याम घोररूपं महद्भयम् ।
शल्येन सङ्गताः शूरा यदयुध्यन्त भागशः ॥ ९.८.४० ॥

在那里我们目睹了一件奇异的事,形状可怖、令人大为惊惧:与沙利耶会合的英雄们分成小队作战。

9.8.41

माद्रीपुत्रौ तु रभसौ कृतास्त्रौ युद्धदुर्मदौ ।
अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव ॥ ९.८.४१ ॥

然而摩德利的两个儿子,冲动迅猛,精通兵器,为战斗的狂热所陶醉,急速前进,欲征服您的军队。

9.8.42

ततोऽभ्यावर्तत बलं तावकं भरतर्षभ ।
शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः ॥ ९.८.४२ ॥

于是,婆罗多族的雄牛啊,您的军队转身退却,被渴望胜利的般度之子们以箭矢多方打击、驱逐。

9.8.43

वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव ।
भेजे दश दिशो राजन्प्रणुन्ना शरवृष्टिभिः ॥ ९.८.४३ ॥

大王啊,在你的儿子们眼前,那支被箭雨击打驱散的军队向十方逃散了。

9.8.44

हाहाकारो महाञ्जज्ञे योधानां तत्र भारत ।
तिष्ठतिष्ठेति चाप्यासीद्द्रावितानां महात्मनाम् ॥ ९.८.४४ ॥

婆罗多啊,那里的战士们爆发出巨大的惊呼;被驱赶的大德们也发出了“站住,站住!”的呼喊。

9.8.45

क्षत्रियाणां तथाऽन्योन्यं संयुगे जयमिच्छताम् ।
प्राद्रवन्नेव सम्भग्नाः पाण्डवैस्तव सैनिकाः ॥ ९.८.४५ ॥

如同在战斗中彼此渴望胜利的刹帝利,被般度五子击溃的你的士兵们逃走了。

9.8.46

त्यक्त्वा युद्धे प्रियान्पुत्रान्भ्रातॄनथ पितामहान् ।
मातुलान्भागिनेयांश्च वयस्यानपि भारत ॥ ९.८.४६ ॥

婆罗多的后裔啊,在战斗中抛弃了心爱的儿子、兄弟、祖父辈、舅父、外甥以及同龄的朋友……

9.8.47

हयान्द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः ।
आत्मत्राणकृतोत्साहास्तावका भरतर्षभ ॥ ९.८.४७ ॥

你的战士们急于保全自己,催动马匹与象群,四散奔逃,婆罗多的雄牛啊。