摩诃婆罗多 · 章 9.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.9.1
तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान् ।
उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान् ॥ ९.९.१ ॥
摩德罗王见己军溃散,勇猛的他立即对御者说:"驱策那些迅疾如风的骏马。"
9.9.2
एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः ।
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता ॥ ९.९.२ ॥
看哪,般度之子国王坚战站在那里,头顶被撑起一把白色华盖,光彩熠熠。
9.9.3
अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम् ।
न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि ॥ ९.९.३ ॥
快把我带到那里;御者啊,看我的力量。今日普利塔之子在战场上无法在我面前站立。
9.9.4
एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः ।
यत्रा राजा सत्यसन्धो धर्मपुत्रो युधिष्ठिरः ॥ ९.९.४ ॥
听了这番话,摩德罗王的御者便驾车前往守诺的法之子国王坚战所在之处。
9.9.5
आपतन्तं च सहसा पाण्डवानां महद्बलम् ।
दधारैको रणे शल्यो वेलोद्वृत्तमिवार्णवम् ॥ ९.९.५ ॥
般度之子的大军突然扑来,唯有沙利耶一人在战场上将其阻住,如同海岸阻挡越过界限而涌起的大海。
9.9.6
पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष ।
व्यतिष्ठत तदा युद्वे सिन्धोर्वेग इवाचलम् ॥ ९.९.६ ॥
尊者啊,般度之子大军的洪流抵达沙利耶之时,便在战场上止住了,如同大海的奔涌撞上山岳而止。
9.9.7
मद्रराजं तु समरे दृष्ट्वा युद्धाय धिष्ठितम् ।
कुरवः सन्न्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥ ९.९.७ ॥
库鲁人见摩德罗王在战场上坚定地准备迎战,便冒着死亡转身退去。
9.9.8
तेषु राजन्निवृत्तेषु व्यूढानीकेषु सर्वशः ।
प्रावर्तत महारौद्रः सङ्ग्रामः शोणितोदकः ॥ ९.९.८ ॥
大王啊,他们退去之后,在各方列阵的军队之间,爆发了以鲜血为水的极其可怖的战斗。
9.9.9
समार्च्छच्चित्रसेनं तु नकुलो युद्धदुर्मदः ।
तौ परस्परमासाद्य चित्रकार्मुकधारिणौ ॥ ९.९.९ ॥
好斗的无种向持彩弓的戚多罗森冲去,二人相遇。
9.9.10
मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ ।
शरतोयैः सिषिचतुस्तौ परस्परमाहवे ॥ ९.९.१० ॥
如同从南北降雨的两朵翻涌乌云,二人在战斗中以箭雨互相浇灌。
9.9.11
नान्तरं तत्र पश्यामः पाण्डवस्येतरस्य च ।
उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ।
परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ ॥ ९.९.११ ॥
在那里,我们看不出般度之子与对方有何差别;二人都精通武艺、力量强大、善于驾车,都想杀死对方,并急于寻找破绽。
9.9.12
चित्रसेनस्तु भल्लेन पीतेन निशितेन च ।
नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः ॥ ९.९.१२ ॥
然而,大王啊,戚多罗森以一支黄色锋利的婆罗箭,在握把处斩断了无种的弓。
9.9.13
अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः ।
त्रिभिः शरैरसम्भ्रान्तो ललाटे वै समार्पयत् ॥ ९.९.१३ ॥
随后,他毫无惧色,用三支金羽、以石磨利的箭射中了那弓已断之人的额头。
9.9.14
हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे ।
तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत् ॥ ९.९.१४ ॥
他用锐利的箭把对方的马送向死亡,同样,又以每样三支箭射落了旗帜和御者。
9.9.15
स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः ।
नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः ॥ ९.९.१५ ॥
大王啊,那三支从敌人臂中射出、插在额上的箭,使那腊卢在额上闪耀,犹如三峰之山。
9.9.16
स च्छिन्नधन्वा विरथः खङ्गमादाय चर्म च ।
रथादवातरद्वीरः शैलाग्रादिव केसरी ॥ ९.९.१६ ॥
那英雄弓已断、车已失,便持剑执盾,从战车上跃下,如狮子从山峰上下来。
9.9.17
पद्मामापततस्तस्य शस्वृष्टिं समासृजत् ।
नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः ॥ ९.९.१७ ॥
当名为波德摩的人扑来时,他倾泻下一场武器之雨;然而勇猛敏捷的那腊卢以盾牌挡住了这场箭雨。
9.9.18
चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः ।
आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः ॥ ९.९.१८ ॥
这位臂力强大、精通多样战法、战胜疲劳的英雄,走到持明军的战车前,在全军注视下登上了它。
9.9.19
सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम् ।
चित्रसेनशिरः कायादपाहरत पाण्डवः ॥ ९.९.१९ ॥
般度之子将戴着耳环和王冠、鼻子秀美、双目宽阔的citrasena的头颅从身体上斩下。
9.9.20
स पपात रथात्तस्माद्दिवाकरसमद्युतिः ॥ ९.९.२० ॥
他从那辆战车上坠落,光辉如同太阳。
9.9.21
चित्रसेनशिरस्तत्तु दृष्ट्वा तत्र महारथाः ।
साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥ ९.९.२१ ॥
那些大车武士见到citrasena的那颗头颅,齐声喝彩“善哉”,并发出众多狮吼。
9.9.22
विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ ।
सुशर्मा सत्यसेनश्च मुञ्चन्तौ विविधाञ्शरान् ॥ ९.९.२२ ॥
二位大车武士、迦尔纳之子苏沙尔曼与萨提耶塞纳见兄长被杀,便发射各种箭矢前进。
9.9.23
ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम् ।
जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने ॥ ९.९.२३ ॥
于是二人迅疾地冲向般度之子——车战者中的最杰出者,欲将其杀死,犹如两只老虎在大林中扑向大象,啊,国王。
9.9.24
तावभ्येत्य महाबाहू द्वावप्यतिमहारथौ ।
शरौषान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा ॥ ९.९.२४ ॥
二位大臂勇士、极大车武士走近,充分地射出如洪流般的箭雨,犹如两朵云降下雨水。
9.9.25
स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः ।
अन्यत्कार्मुकमादाय रथमारुह्य वेगवान्।
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः ॥ ९.९.२५ ॥
他虽从四面被箭射中,般度之子却似乎欢喜。他拿起另一张弓,迅速登上战车,英雄在战场上屹立,如同愤怒的死神。
9.9.26
तस्य तौ भ्रातरौ राजञ्शरैः सन्नतपर्वभिः ।
रथं विशकलीकर्तुं समारब्धौ विशाम्पते ॥ ९.९.२६ ॥
国王啊,他的那两位兄弟用弯曲节的箭开始击碎他的战车,民之主啊。
9.9.27
ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे ।
जघान निशितैर्बाणैः सत्यसेनस्य वाजिनः ॥ ९.९.२७ ॥
于是无种笑着,在战场上用四支锐利的箭射杀了萨迪耶森那的四匹马。
9.9.28
ततः सन्धाय नारचं रुक्मपुङ्खं शिलाशितम् ।
धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः ॥ ९.९.२८ ॥
于是般度之子搭上一支镶金羽、在石上磨利的铁箭,斩断了萨迪耶森那的弓,王中之王啊。
9.9.29
अथान्यं रथमास्थाय धनुरादाय चापरम् ।
सत्यसेनः सुशर्मा च पाण्डवं पर्यधावताम् ॥ ९.९.२९ ॥
于是萨迪耶森那与苏沙尔曼登上另一辆战车,拿起另一张弓,向般度之子冲去。
9.9.30
अविध्यत्तावसम्भ्रान्तौ माद्रीपुत्रः प्रतापवान् ।
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि ॥ ९.९.३० ॥
大王啊,威武的玛德丽之子神色不乱,在战阵前列以每人两支箭射中了那两人。
9.9.31
सुशर्मा तु ततः क्रुद्धः पाण्डवस्य महद्धनुः ।
चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः ॥ ९.९.३१ ॥
于是愤怒的苏舍尔曼在战斗中含笑,用剃刀头箭斩断了般度之子的大弓,那位大战车武士。
9.9.32
अथान्यद्धनुरादाय नकुलः क्रोधमूच्छितः ।
सुशर्माणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥ ९.९.३२ ॥
于是那因愤怒而昏乱的那clear 无种另取一弓,以五箭射中苏舍尔曼,又以一箭斩断其旗。
9.9.33
सत्यसेनस्य स धनुर्हस्तावपं च मारिष ।
चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः ॥ ९.९.३३ ॥
哦,尊者,他在战斗中迅速斩断了萨提亚塞纳的弓和握弓之手,于是人们齐声呼喊。
9.9.34
अथान्यद्धनुरादाय वेगघ्नं भारसाधनम् ।
शरैः सञ्छादयामास समन्तात्पाण्डुनन्दनम् ॥ ९.९.३४ ॥
于是他取过另一把能抑制速度、能承受负荷的弓,从四面以箭遮蔽了般度之子。
9.9.35
सन्निवार्य तु तान्बाणान्नकुलः परवीरहा ।
सत्यसेनसुशर्माणौ द्वाभ्यां द्वाभ्यामविध्यत ॥ ९.९.३५ ॥
然而无种挡开那些箭,这位杀敌英雄的克星,以各两箭射中萨提亚塞纳与苏舍尔曼。
9.9.36
तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः ।
सारथिं चास्य राजेन्द्र शितैर्विव्यधतुः शरैः ॥ ९.९.३६ ॥
二人各以笔直的箭分别射中他,啊,诸王之王,他们也以利箭射伤了他的御者。
9.9.37
सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा ।
पृथक् शराभ्यां चिच्छेद कृतहस्तः प्रतापवान् ॥ ९.९.३७ ॥
萨提耶塞那是一位技艺娴熟、威力强大的战车武士,他也用两支箭将那古罗的弓分别射断。
9.9.38
स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत् ।
स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम्। ॥ ९.९.३८ ॥
他站在战车上,握起一支战车枪:金柄,锋刃不钝,以油擦拭,极为洁净。
9.9.39
लेलिहानामिव विमो नागकन्यां महाविषाम् ॥ ९.९.३९ ॥
啊,威严者!它就像一位剧毒的蛇女在舔舐着舌头。
9.9.40
समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे ॥ ९.९.४० ॥
他在战斗中举起它,投向萨提耶塞那。
9.9.41
सा तस्य हृदयं गत्या विभेद शतधा नृप ।
स पवात रथाद्भूमिं यतसत्वोऽल्पत्तेतनः ॥ ९.९.४१ ॥
它以其冲力将他的心脏刺成百片,啊,国王!他从战车上跌落在地,虽仍挣扎,意识已所剩无几。
9.9.42
भ्रातरं निहतं दृष्ट्वा सुशर्मा क्रोधमूर्च्छितः ।
अभ्यवर्षच्छरैस्तूर्णं पादातं पाण्डुनन्दनम् ॥ ९.९.४२ ॥
苏沙尔曼见兄长被杀,怒极几乎昏厥,迅速向站立在地上的般度之子倾泻箭雨。
9.9.43
चतुर्भिश्चतुरो वाहान्ध्वजं छित्त्वा च पञ्चभिः ।
त्रिभिर्वै सारथिं हत्वा कर्णपुत्रो ननाद ह ॥ ९.९.४३ ॥
他以四箭射杀四马,以五箭断旗,以三箭杀死御者,迦尔纳之子于是怒吼。
9.9.44
नकुलं विरथं दृष्ट्वा द्रौपदेयो महारथम् ।
सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे ॥ ९.९.४४ ॥
德罗波蒂之子苏陀娑摩见那勇士那拉库拉已失战车,欲在战场上救护父亲,便向那大车士冲去。
9.9.45
ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम् ।
शुशुभे भरतश्रेष्ठो गिरिस्य इव केसरी ॥ ९.९.४५ ॥
于是婆罗多族中最杰出的那拉库拉登上苏陀娑摩的战车,光彩夺目,如同立于山巅的狮子。
9.9.46
अन्यत्कार्मुकमादाय सुशर्माणमयोधयत् ॥ ९.९.४६ ॥
他另取一弓,与苏舍尔曼交战。
9.9.47
तत्र तौ शरवर्षाभ्यां समासाद्य परस्परम् ।
परस्परवधे यत्नं चक्रतुः सुमहारथौ ॥ ९.९.४७ ॥
二位大车士在那里以箭雨相逼,各自竭力想要杀死对方。
9.9.48
सुशर्मा तु तः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः ।
सुतसोमं तु विंशत्या वाह्वोरुरसि चार्पयत् ॥ ९.९.४८ ॥
苏舍尔曼怒不可遏,以三箭射中般度之子,以二十箭射中苏陀娑摩的双臂与胸膛。
9.9.49
ततः क्रुद्धो महाराज नकुलः परवीरहा ।
शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान् ॥ ९.९.४९ ॥
大王啊,那位摧毁敌方英雄、勇武有力的无种愤怒了,他用箭遮蔽了对方的一切方位。
9.9.50
ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम् ।
आकर्णपूर्णं चिक्षेप कर्णपुत्राय संयुगे ॥ ९.९.५० ॥
随后,他取出一支尖端锐利、形如半月、磨得very锋利的箭,拉至耳边,在战斗中射向迦尔纳之子。
9.9.51
तस्य तेन शिरः कायाज्जहार नृपसत्तम ।
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥ ९.९.५१ ॥
诸王之中最尊贵的人啊,那支箭将他的头从身上斩下。众军都看着,这事似乎十分奇异。
9.9.52
स हतः प्रापतद्राजन्नकुलेन महात्मना ।
नदीपे…णस्तीरजः पादपो महान् ॥ ९.९.५२ ॥
大王啊,他被大德的无种杀死,像生长在河岸上的一棵大树倒下……
9.9.53
कर्णपुत्रवचं दृष्ट्वा नकुलस्य च विक्रमम् ।
प्रदुद्राव भवात्सेना तावकी भरतर्वभ ॥ ९.९.५३ ॥
看到迦尔纳之子被杀和无种的勇武,婆罗多的雄牛啊,您的军队惊恐地逃走了。
9.9.54
तां तु सेनां महाराज्ञ मद्रराजः प्रतापवान् ।
… शूरः सेनापतिररिन्दमः ॥ ९.९.५४ ॥
然而,大王啊,那支军队由威武的摩德罗王……英勇的统帅,那位征服敌人者……
9.9.55
… व्यवस्याप्य च वाहिनीम् ।
… भूशं कृत्वा धनुःशब्दं च दारुणम् ॥ ९.९.५५ ॥
……整顿军队,并使弓弦的可怕嗡鸣大作。
9.9.56
… सगरे राजन्रांक्षेता दृढधन्वना ।
प्रत्युद्ययुश्च तांस्ते तु समन्ताद्विगतव्यथाः ॥ ९.९.५६ ॥
……大王,那位坚弓的兰克舍多从那片军海中;他们无所畏惧,从四面八方迎上前去。
9.9.57
मद्रराजं महेष्वासं परिवार्य समन्ततः ।
स्थिता राजन्महासेना योद्वुकामा समन्ततः ॥ ९.९.५७ ॥
……将摩德罗王这位大弓手团团包围,大王,渴望作战的大军四面列阵。
9.9.58
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ।
युधिष्ठिरं पुरस्कृत्य हीनिषेवमरिन्दमम् ॥ ९.९.५८ ॥
萨提亚基、怖军,以及摩德利之子两位般度王子,将坚战置于前方,朝着制敌者进发。
9.9.59
परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे ।
बाणशङ्खरवांस्तीव्रान्क्ष्वेलाश्च विविधा दधुः ॥ ९.९.५९ ॥
在战场上将他包围,英雄们如狮般怒吼;他们发出箭矢与海螺的猛烈声响,并发出各种呼喊。
9.9.60
तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा ।
परिवार्य सुसंरब्धाः पुनर्युद्धमरोचयन् ॥ ९.९.६० ॥
同样地,你的所有部下迅速包围了摩德罗之主,极度愤怒,再次渴望交战。
9.9.61
ततः प्रववृते युद्धं भीरूणां भयवर्धनम् ।
तावकानां परेषां च मृत्युं कृत्वा निबर्तनम् ॥ ९.९.६१ ॥
于是开始了一场令怯懦者恐惧加剧的战斗,你方与敌方的战士纷纷死去并退却。
9.9.62
यथा देवासुरं युद्धं पूर्वमासीद्विशाम्पते ।
अभीतानां तथाऽऽसीत्तद्यमराष्ट्रविवर्धनम् ॥ ९.९.६२ ॥
人主啊,正如往昔天神与阿修罗之战,那场无畏者之间的战斗增长了阎摩的国土。
9.9.63
ततः कपिध्वजो राजन्हत्वा संशप्तकान्रणे ।
अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः ॥ ९.९.६३ ॥
王啊,于是持猴旗的般度之子在战场上杀死了三伏军,冲向那支俱卢军队。
9.9.64
तथैव पाण्डवाः सर्वे धृष्टद्युम्नपुरोगमाः ।
अभ्यधावन्ततां सेनां विसृजन्तः शिताञ्शरान् ॥ ९.९.६४ ॥
同样,以持军为首的般度五子全体,射出锐利的箭矢,冲向那支军队。
9.9.65
पाण्डवैरवकीर्णानां सम्मोहः समजायत ।
न च जज्ञुस्त्वनीकानि दिशो वा विदिशस्तथा ॥ ९.९.६५ ॥
被般度五子的箭矢所覆盖者中生出了迷惑;他们既不辨识自己的军队,也不辨识方位与隅位。
9.9.66
आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः ।
हतप्रवीरा विध्वस्ता वार्यमाणा समन्ततः।
कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः ॥ ९.९.६६ ॥
俱卢军队被般度之子所射的锐利箭矢所充满,勇士已死而溃散,四面受阻,被大车战士般度诸子杀戮。
9.9.67
तथैव पाण्डवं सैन्यं शरै राजन्समन्ततः ।
रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः ॥ ९.९.६७ ॥
同样,大王,你的儿子们在战斗中从四面八方以箭射杀般度人的军队,成百上千地倒下。
9.9.68
ते सेने भृशसन्तप्ते वध्यमाने परस्परम् ।
व्याकुले समपद्येतां वर्षासु सरिताविव ॥ ९.९.६८ ॥
那两支军队互相残杀,极其痛苦,陷入混乱,如同雨季的两条河流。
9.9.69
आविवेश ततस्तीव्रं तावकानां महद्भयम् ।
पाण्डवानां च राजेन्द्र तथाभूते महाहवे ॥ ९.९.६९ ॥
那时,诸王之主啊,在那场大战中,强烈而巨大的恐惧侵入了你的人和般度人之中。