蚁垤《罗摩衍那》 · 篇 1.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.1.1
तपः स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ १.१.१ ॥
苦行与经典诵习中专注的苦行者跋尔弥基,向善辩者中最优秀、诸仙中最杰出的那罗陀请教。
1.1.2
को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ १.१.२ ॥
当今世上,谁具备德行与勇力,通达法义,知恩图报,言语诚实,誓愿坚定?
1.1.3
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥ १.१.३ ॥
谁以品行端正,对一切众生有益?谁博学而有能力,又谁独具令人悦目的容貌?
1.1.4
आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥ १.१.४ ॥
谁能自制,谁已战胜愤怒,谁光辉耀目,谁不嫉妒?又当谁在战场上怒气发作时,诸神都会心生畏惧?
1.1.5
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥ १.१.५ ॥
我很想听听这些,我的好奇心极强。伟大的仙人啊,您有能力了解这样的人。
1.1.6
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥ १.१.६ ॥
三界通晓者那罗陀听到跋尔弥基这番话,欣喜地说道:「请听」,随即说出了这些话。
1.1.7
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥ १.१.७ ॥
大仙啊,我领会之后,将讲述那位具备你所说的诸多稀有德性的人,请听。
1.1.8
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥ १.१.८ ॥
生于甘蔗王(Ikṣvāku)之族,世人称为罗摩:心志自制,大有威力,光辉照耀,坚定不移,能自我克制。
1.1.9
बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छ्त्रुनिबर्हणः ।
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥ १.१.९ ॥
智慧、精通治国之道、善于言辞、光荣、摧毁敌人;肩宽、臂长、颈如螺贝、下颌强健。
1.1.10
महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥ १.१.१० ॥
胸膛宽阔,大弓手,锁骨隐而不显,降伏敌人,双臂长至膝盖,头部秀美,额头端正,威武非凡。
1.1.11
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥ १.१.११ ॥
心志平和,肢体匀称,肤色润泽,威光赫赫,胸膛丰满,眼睛宽大,富有吉祥光辉,具备殊胜之相。
1.1.12
धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः ।
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ॥ १.१.१२ ॥
通晓正法,言而有信,专心于众民之利,声名远扬,具足智慧,清净,能自我克制,并安住于禅定。
1.1.13
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ॥ १.१.१३ ॥
他与生主相等,光辉显赫,是持护者、敌人的摧毁者,是生命世界的守护者,也是法的完全守护者。
1.1.14
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥ १.१.१४ ॥
他守护自己的法,也守护自己的亲族;他通晓吠陀与吠陀支分的精义,精通弓箭之学。
1.1.15
सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान् ।
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥ १.१.१५ ॥
他通晓一切经论的义理与精要,有记忆与敏捷的智慧,为天下所爱,善良,心志不屈,且洞察明智。
1.1.16
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ॥ १.१.१६ ॥
善人总是亲近他,如同河流归向大海。他高尚,对一切人平等,且始终令人喜悦可见。
1.1.17
स च सर्व गुणोपेतः कौसल्यानन्दवर्धनः ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥ १.१.१७ ॥
他具备一切美德,增添了考萨利亚的欢喜;深沉如大海,坚定如喜马拉雅。
1.1.18
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥ १.१.१८ ॥
在勇力上与毗湿奴相等,容貌如月般令人喜悦;在愤怒时如时间之火,在忍耐上如大地。
1.1.19
धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ॥ १.१.१९ ॥
财富上如同俱毗罗,在施舍与真实上犹如另一法身——赐予这样具足德性、真正勇猛的罗摩。
1.1.20
ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् ।
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥ १.१.२० ॥
长子,具足长子之德,可爱,十车王之子——致力于臣民之利,为使百姓欢喜而愿。
1.1.21
यौवराज्येन संयोक्तुम् ऐच्छत्प्रीत्या महीपतिः ।
तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ॥ १.१.२१ ॥
国王出于爱,欲立他为太子。此时,王后吉凯伊见到他灌顶的准备,
1.1.22
पूर्वं दत्तवरा देवी वरमेनमयाचत ।
विवासनञ्च रामस्य भरतस्याभिषेचनम् ॥ १.१.२२ ॥
昔日曾获恩赐的王后求了这个恩典:罗摩的流放,以及婆罗多的灌顶。
1.1.23
स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ॥ १.१.२३ ॥
那位十车王因守真实之言,被法的绳索所缚,于是将他心爱的儿子罗摩流放了。
1.1.24
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥ १.१.२४ ॥
那位英雄遵守誓言,依父亲之言的命令,为了取悦吉凯伊,走向了森林。
1.1.25
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥ १.१.२५ ॥
他启程时,心爱的弟弟罗什曼那出于深情跟随他前行。他谦逊有礼,是苏弥陀的欢喜之源。
1.1.26
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ।
रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥ १.१.२६ ॥
这位深受兄长喜爱的弟弟一路表现出手足之情。罗摩心爱的妻子,始终如生命般珍贵,且一心为夫着想。
1.1.27
जनकस्य कुले जाता देवमायेव निर्मिता ।
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ॥ १.१.२७ ॥
生于遮那伽家族,宛如诸神的幻化所造,具足一切吉相,是女子中最优秀的新妇。
1.1.28
सीताप्यनुगता रामं शशिनं रोहिणी यथा ।
पौरैरनुगतो दूरं पित्रा दशरथेन च ॥ १.१.२८ ॥
悉多也跟随罗摩,如罗诃尼跟随月亮。城中百姓远远相送,父亲十车王也是如此。
1.1.29
शृङ्गवीरपुरे सूतं गङ्गाकूले व्यसर्जयत् ।
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥ १.१.२९ ॥
在悉陵伽维罗城,恒河岸边,正直的罗摩遣走了御者;随后他来到尼沙陀之主、他所钟爱的古诃那里。
1.1.30
गुहेन सहितो रामो लक्ष्मणेन च सीतया ।
ते वनेन वनङ्गत्वा नदीस्तीर्त्वा बहूदकाः ॥ १.१.३० ॥
罗摩与古诃、罗什曼那及悉多同行,穿越一片又一片森林,渡过许多水流丰沛的河流。
1.1.31
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥ १.१.३१ ॥
遵照婆罗门圣人婆罗堕遮的指示抵达citrakūṭa,在林中建起一座宜人的居所,三人在那里快乐地生活。
1.1.32
देवगन्धर्वसंकाशाः तत्र ते न्यवसन् सुखम् ।
चित्रकूटङ्गते रामे पुत्रशोकातुरस्तथा ॥ १.१.३२ ॥
他们如天神与干达婆一般,在那里快乐地生活。罗摩前往citrakūṭa之后,国王因思念爱子而悲痛不已。
1.1.33
राजा दशरथस्स्वर्गं जगाम विलपन् सुतम् ।
गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ॥ १.१.३३ ॥
国王十车王哀悼爱子,升往天界。他去世之后,婆私吒等婆罗门与罗什……
1.1.34
नियुज्यमानो राज्याय नैच्छत् राज्यं महाबलः ।
स जगाम वनं वीरो रामपादप्रसादकः ॥ १.१.३४ ॥
虽被催促登上王位,这位大力者并不想要王国。这位英雄前往森林,寻求罗摩双足的恩惠。
1.1.35
गत्वा तु स महात्मानं रामं सत्यपराक्रमम् ।
अयाचद्भ्रातरं रामम् आर्यभावपुरस्कृतः ॥ १.१.३५ ॥
他来到罗摩面前,罗摩真有英勇之力,他怀着高尚的情感,恳求他的兄长罗摩。
1.1.36
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ।
रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥ १.१.३६ ॥
“唯有你是知晓法的国王。”他这样对罗摩说。罗摩也极其慷慨,面容和善,声名远扬。
1.1.37
न चैच्छत् पितुरादेशात् राज्यं रामो महाबलः ।
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥ १.१.३७ ॥
大力的罗摩因父命不求王位;为了王国,他一再将自己的鞋作为托付之物交付。
1.1.38
निवर्तयामास ततो भरतं भरताग्रजः ।
स काममनवाप्यैव रामपादावुपस्पृशन् ॥ १.१.३८ ॥
于是婆罗多的兄长让婆罗多返回。他未能如愿,只是不断触碰罗摩的双足。
1.1.39
नन्दिग्रामेऽकरोद् राज्यं रामागमनकाङ्क्षया ।
गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥ १.१.३९ ॥
他在难提村为王国执政,期盼罗摩归来。婆罗多离去后,那位光荣、守信、克制自身的人……
1.1.40
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥ १.१.४० ॥
然而罗摩再次考虑到城民与百姓会来此处,便专心一意地进入了檀陀迦森林。
1.1.41
प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥ १.१.४१ ॥
进入大森林后,莲花眼的罗摩杀死了罗刹毗罗陀,随后见到了舍罗婆伽。
1.1.42
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥ १.१.४२ ॥
罗摩拜会了苏提克纳、阿揭斯底以及阿揭斯底的兄弟,依阿揭斯底之言,取了因陀罗之弓。
1.1.43
खड्गञ्च परम प्रीतस्तूणी चाक्षयसायकौ ।
वसतस्तस्य रामस्य वने वनचरैः सह ॥ १.१.४३ ॥
他甚为欢喜,又赠予他一把剑和两个取之不尽的箭袋。罗摩在林中与林中居民一同居住时,
1.1.44
ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् ।
स तेषां प्रतिशुश्राव राक्षसानां तदा वने ॥ १.१.४४ ॥
众位仙人都前来诛灭阿修罗和罗刹。那时他在林中应允了他们,对抗罗刹。
1.1.45
प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् ।
ऋषीणामग्निकल्पानां दण्डकारण्यवासीनाम् ॥ १.१.४५ ॥
罗摩向住在檀陀迦林中、如火般光辉的仙人们承诺,将在战斗中杀死罗刹。
1.1.46
तेन तत्रैव वसता जनस्थाननिवासिनी ।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥ १.१.४६ ॥
他住在那里时,毁伤了居于罗摩那斯坦、能随意变化形貌的罗刹女首波那卡。
1.1.47
ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥ १.१.४७ ॥
于是,依照首波那卡的话,所有起兵的罗刹——祸罗、三头的三首,以及罗刹都史那——
1.1.48
निजघान रणे रामस्तेषां चैव पदानुगान् ।
वने तस्मिन् निवसता जनस्थाननिवासिनाम् ॥ १.१.४८ ॥
罗摩居于那片林中,在战斗中杀死了他们以及住在罗摩那斯坦的随从。
1.1.49
रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥ १.१.४९ ॥
十四千罗刹被杀。罗婆那闻知族人被杀,因愤怒而昏厥。
1.1.50
सहायं वरयामास मारीचं नाम राक्षसम् ।
वार्यमाणः सुबहुशो मारीचेन स रावणः ॥ १.१.५० ॥
罗婆那选择了名为摩利者的罗刹为助手,尽管摩利者多次劝阻他。
1.1.51
न विरोधो बलवता क्षमो रावण तेन ते ।
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥ १.१.५१ ॥
罗婆那啊,与强者结仇对你不宜。然而罗婆那受时运驱使,不顾他的话。
1.1.52
जगाम सहमारीचस्तस्याश्रमपदं तदा ।
तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥ १.१.५२ ॥
于是罗婆那与摩利者前往他们的隐修处。那位幻术者把两位王子引到远处。
1.1.53
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ।
गृध्रञ्च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥ १.१.५३ ॥
杀死秃鹫遮陀由,他劫走了罗摩的妻子。罗摩看见秃鹫被杀,又听说摩ithila之女被劫。
1.1.54
राघवः शोकसंतप्तो विललापाकुलेन्द्रियः ।
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥ १.१.५४ ॥
罗怙之后因悲痛煎熬,心神慌乱而哀号。随后,他怀着同样的悲痛,将秃鹫遮陀由火化。
1.1.55
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह ।
कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥ १.१.५५ ॥
他在林中寻找悉多时,看见一名名叫迦槃陀的罗刹,形貌丑陋,令人望而生畏。
1.1.56
तन्निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ।
स चास्य कथयामास शबरीं धर्मचारिणीम् ॥ १.१.५६ ॥
那位大臂者杀死了他并焚化了尸身,他便升入天界。他向罗摩讲述了奉行法道的舍跋哩。
1.1.57
श्रमणां धर्मनिपुणामभिगच्छेति राघव ।
सोऽभ्य गच्छन्महातेजाः शबरीं शत्रुसूदनः ॥ १.१.५७ ॥
“罗摩啊,去找那精通法道的苦行女舍跋哩。”那位大光明、灭敌者便前往舍跋哩处。
1.1.58
शबर्या पूजितः सम्यग् रामो दशरथात्मजः ।
पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥ १.१.५८ ॥
罗摩——十车王之子——受到舍跋哩的恭敬供养后,在班帕河畔与猴子哈努曼相遇。
1.1.59
हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥ १.१.५९ ॥
听从哈努曼之言,罗摩与须羯哩婆相会,大力的罗摩将一切都告诉了须羯哩婆。
1.1.60
आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः ।
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥ १.१.६० ॥
猴王须羯哩婆从罗摩处听闻了从头到尾所发生的一切,尤其是关于悉多的事情……
1.1.61
चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ।
ततो वानरराजेन वैरानुकथनं प्रति ॥ १.१.६१ ॥
他欣喜地以火为证,与罗摩结为盟友。随后猴王讲述了他与敌人之间的仇怨。
1.1.62
रामायावेदितं सर्वं प्रणयात् दुःखितेन च ।
प्रतिज्ञातञ्च रामेण तदा वालिवधं प्रति ॥ १.१.६२ ॥
悲伤的须羯利出于情谊,将一切告诉了罗摩,罗摩随即允诺杀死婆林。
1.1.63
वालिनश्च बलं तत्र कथयामास वानरः ।
सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥ १.१.६३ ॥
猴子须羯利在那里描述了婆林的力量,他始终对罗怙之裔的勇武心存疑虑。
1.1.64
राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।
दर्शयामास सुग्रीवः महापर्वतसन्निभम् ॥ १.१.६४ ॥
为使罗怙之裔可信,须羯利展示了敦度毗巨大的尸身,它如同一座大山。
1.1.65
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्ति महाबलः ।
पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥ १.१.६५ ॥
大臂者微笑着看了一眼,大力者用脚趾将它抛出十由旬之远。
1.1.66
बिभेद च पुनस्सालान् सप्तैकेन महेषुणा ।
गिरिं रसातलञ्चैव जनयन् प्रत्ययं तथा ॥ १.१.६६ ॥
他又以一支大箭射穿了七棵娑罗树,并劈开山岳与地底,从而令人生出信心。
1.1.67
ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः ।
किष्किन्धां रामसहितो जगाम च गुहां तदा ॥ १.१.६७ ॥
于是,心中欢喜、安下心来的大猴Sugrīva与Rāma一同进入了Kiṣkindhā的洞穴。
1.1.68
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।
तेन नादेन महता निर्जगाम हरीश्वरः ॥ १.१.६८ ॥
于是,金黄色的猴中之最Sugrīva怒吼;随着这巨大的吼声,猴王走了出来。
1.1.69
अनुमान्य तदा तारां सुग्रीवेण समागतः ।
निजघान च तत्रैनं शरेणैकेन राघवः ॥ १.१.६९ ॥
安慰了Tārā之后,与Sugrīva会合的Rāghava在那里以一支箭将他射倒。
1.1.70
ततः सुग्रीववचनात् हत्वा वालिनमाहवे ।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥ १.१.७० ॥
随后,依Sugrīva之言,Rāghava在战斗中杀死了Vālin,并让Sugrīva本人在其王国中复位。
1.1.71
स च सर्वान् समानीय वानरान् वानरर्षभः ।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥ १.१.७१ ॥
那位猴中之牛召集了所有猴子,并派它们向各个方向出发,因为他渴望见到Janaka之女。
1.1.72
ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली ।
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥ १.१.७२ ॥
随后,依秃鹫Sampāti之言,强大的Hanumān跃过了宽达百由旬的咸海。
1.1.73
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।
ददर्श सीतां ध्यायन्तीम् अशोकवनिकां गताम् ॥ १.१.७३ ॥
他到达了由罗波那守护的楼卡城,看见悉多在阿输迦园中沉思。
1.1.74
निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च ।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ १.१.७४ ॥
他交出信物,转达了消息,安慰了维德赫诃,然后摧毁了门楼。
1.1.75
पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥ १.१.७५ ॥
他杀死了五位军中统帅和七位大臣之子,又粉碎了英勇的阿刹,终于被擒获。
1.1.76
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद् वरात् ।
मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥ १.१.७६ ॥
他知道自己因梵天的恩赐而脱离了武器的束缚,便随意忍受那些捆绑他的罗刹。
1.1.77
ततो दग्ध्वा पुरीं लङ्काम् ऋते सीताञ्च मैथिलीम् ।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥ १.१.७७ ॥
随后,他焚毁了楼卡城,唯独留下了弥提罗的悉多,大猴又返回,要向罗摩报告这个好消息。
1.1.78
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥ १.१.७८ ॥
他走近这位伟大的人,绕行罗摩致礼,这位心量无边者如实禀告说:“已经见到悉多了。”
1.1.79
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः ।
समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥ १.१.७९ ॥
随后,他与须羯里瓦一同来到大海之滨,以如太阳般耀眼的箭搅动大海。
1.1.80
दर्शयामास चात्मानं समुद्रः सरितां पतिः ।
समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥ १.१.८० ॥
河流之主大海显现了自身;依大海之言,他令那罗建造了一座桥。
1.1.81
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।
रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥ १.१.८१ ॥
他经由此桥抵达楼卡城,在战场上杀死了罗波那;重获悉多后,罗摩却感到极大的羞愧。
1.1.82
तामुवाच ततो रामः परुषं जनसंसदि ।
अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥ १.१.८२ ॥
于是罗摩在众人集会中对她说了严厉的话;悉多无法忍受,这位贞洁的女子走入了火中。
1.1.83
ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम् ।
कर्मणा तेन महता त्रैलोक्यं सचराचरम् ॥ १.१.८३ ॥
随后,依火神之言得知悉多清白无瑕,那一伟大行为使三界及其中一切动静之物都欢喜了。
1.1.84
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥
बभौ रामः सम्प्रहृष्टः पूजितः सर्वदेवतैः ॥ १.१.८४ ॥
天神与仙人众皆欢悦;大德的罗ghu后裔罗摩满心喜悦,光彩焕发,受到诸天神的尊崇。
1.1.85
अभ्यषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् ।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥ १.१.८५ ॥
在楞伽为罗刹之主毗毗沙那授以王位后,罗摩事已成就,无忧无虑,于是大为欢喜。
1.1.86
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् ।
अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥ १.१.८६ ॥
罗摩从诸神处获得恩赐,扶起众猴,在朋友们的簇拥下乘普湿波迦天车启程前往阿逾陀。
1.1.87
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ।
भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत् ॥ १.१.८७ ॥
罗摩前往跋荼伽仙人的修道院,这位真正勇武的罗摩便派遣哈奴曼去见婆罗多。
1.1.88
पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।
पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ॥ १.१.८८ ॥
与须羯哩婆一同再次讲述往事,随即登上那辆普湿波迦天车,前往难提村。
1.1.89
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः ।
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ १.१.८९ ॥
罗摩在难提村解去结发,与兄弟们一起,无过失的他重新迎回悉多,又重新获得了王国。
1.1.90
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥ १.१.९० ॥
欢欣喜悦的百姓,满足而富足,极其守法;他们无病无灾,不再惧怕饥荒。
1.1.91
न पुत्रमरणं केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् ।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ १.१.९१ ॥
无人会见到儿子之死,女子永远不会守寡,始终忠于丈夫。
1.1.92
न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः ।
न वातजं भयं किञ्चित् नापि ज्वरकृतं तथा ॥ १.१.९२ ॥
不再有来自火的恐惧;众生不会溺于水中;不再有来自风的恐惧,也没有因热病而生的恐惧。
1.1.93
न चापि क्षुद्भयं तत्र न तस्करभयं तथा ।
नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥ १.१.९३ ॥
那里没有饥饿的恐惧,也没有盗贼的恐惧;城市与邦国都富足丰饶,粮食充足。
1.1.94
नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा ।
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥ १.१.९४ ॥
众人永远欢欣,如同克利塔时代;他将举行百次马祭,并多施金布施。
1.1.95
गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् ।
असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः ॥ १.१.९५ ॥
依礼向学者施舍千万头牛,向婆罗门施舍无量财富,那位大名远扬者……
1.1.96
राजवंशान् शतगुणान् स्थापयिष्यति राघवः ।
चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥ १.१.९६ ॥
罗怀婆将使王统繁衍百倍,并在此世界中使四种姓各守其本分。
1.1.97
दशवर्षसहस्राणि दशवर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥ १.१.९७ ॥
罗摩统治王国一万年又一千年之后,将前往梵天世界。
1.1.98
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।
यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते ॥ १.१.९८ ॥
此书纯净,能灭罪,带来功德,与吠陀相等。诵读罗摩行迹者,可脱离一切罪恶。
1.1.99
एतदाख्यानमायुष्यं पठन् रामायणं नरः ।
सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥ १.१.९९ ॥
此叙事延年益寿。诵读《罗摩衍那》之人,与子孙及随从,死后在天界受到尊崇。
1.1.100
पठन् द्विजो वागृषभत्वमीयात् ।
त् क्षत्रियो भूमिपतित्वमीयात् ॥
वणिक् जनः पण्यफलत्वमीयात् ।
जनश्च शूद्रोऽपि महत्त्वमीयात् ॥ १.१.१०० ॥
诵读此书的婆罗门可获得言辞上的卓越;刹帝利可获得大地的统治权;吠舍可获得商业的成功;即使首陀罗也能获得尊贵。