蚁垤《罗摩衍那》 · 篇 1.12
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.12.1
ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे ।
वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥ १.१२.१ ॥
此后许多日子,在一个极为美好的春天到来时,国王心中生起了举行祭祀(yajña)的念头。
1.12.2
ततः प्रणम्य शिरसा तं विप्रं देववर्णिनम् ।
यज्ञाय वरयामास संतानार्थं कुलस्य च ॥ १.१२.२ ॥
于是,他向那位如天神般的婆罗门低首致礼,为了祭祀和家族的后嗣,选他为祭司。
1.12.3
तथेति च स राजानमुवाच वसुधाधिपम् ।
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ १.१२.३ ॥
他对这位大地之主的国王说:"如此甚好。""请备齐你所需的祭祀物品,并放出那匹马。"
1.12.4
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
ततोऽब्रवीनृपो वाक्यं ब्राह्मणान् वेदपारगान् ॥ १.१२.४ ॥
"请在萨罗由河北岸开辟祭祀之地。"于是国王对精通吠陀的婆罗门们说了这番话。
1.12.5
सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः ।
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ॥ १.१२.५ ॥
"须摩呾啰,快去召来通晓吠陀的祭司:苏耶迦、婆摩提婆、阇波梨和迦叶波。"
1.12.6
पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ।
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ॥ १.१२.६ ॥
还有家祭司婆私吒,以及其他杰出的再生者。于是步伐迅捷的须摩呾啰急速前往,——
1.12.7
समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ।
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ॥ १.१२.७ ॥
他召集了所有精通吠陀的人。向他们致敬之后,行法之心的国王十车便说道。
1.12.8
धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ।
मम तातप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ॥ १.१२.८ ॥
他说出了符合法与义、恰当而温和的话语:"实在地,为了子嗣而备受煎熬的我,并无快乐。"
1.12.9
पुत्रार्थं हयमेधेन यक्ष्यामीति मतिर्मम ।
तदहं यष्टुमिच्छामि हयमेधेन कर्मणा ॥ १.१२.९ ॥
"为了子嗣,我决意举行马祭;这便是我的心愿。因此我想借马祭之仪来行祭。"
1.12.10
ऋषिपुत्रप्रभावेण कामान् प्राप्स्यामि चाप्यहम् ।
ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ॥ १.१२.१० ॥
"凭借仙人之子的威力,我也将获得我的心愿。" 于是婆罗门们称赞他的话说:"善哉!"
1.12.11
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् ।
ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा ॥ १.१२.११ ॥
以伐悉吒为首的诸位,以及以独角仙为先的人们,听了国王口中说出的话,便回答国王。
1.12.12
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ।
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥ १.१२.१२ ॥
"让为你的祭祀所需之物准备齐全,放出那匹马。在萨拉尤河的北岸,应当布置好祭场。"
1.12.13
सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान् ।
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ १.१२.१३ ॥
你必定会得到四个勇武无比的儿子,因为你这份为求子嗣而生的正法之心已经生起。
1.12.14
ततः प्रीतोऽभवद् राजा श्रुत्वा तु द्विजभाषितम् ।
अमात्यानब्रवीद् राजा हर्षेणेदं शुभाक्षरम् ॥ १.१२.१४ ॥
国王听了这位再生婆罗门的话,心中欢喜,便满怀喜悦地对群臣说了这些吉祥之语。
1.12.15
गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे ।
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥ १.१२.१५ ॥
依照诸位师长的话,请迅速为我备齐祭祀的物资;让由得力之人护卫的骏马,连同其祭司一同放出。
1.12.16
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥ १.१२.१६ ॥
在萨拉尤河北岸,应准备祭场;消灾的仪式也应依照规定的仪轨与法度妥善举行。
1.12.17
शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता ।
नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ॥ १.१२.१७ ॥
此祭祀即使任何国王都能举行;但在这场至上的祭祀中,不可有任何重大过失。
1.12.18
छिद्रं हि मृगयन्त्येते विद्वांसो ब्रह्मराक्षसाः ।
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥ १.१२.१८ ॥
这些博学的梵罗刹总在寻找过失;行祭而不合仪轨的人,立刻就会灭亡。
1.12.19
तद् यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।
तथा विधानं क्रियतां समर्थाः करणेष्विह ॥ १.१२.१९ ॥
为使我的这场祭祀依照规定圆满完成,诸位能干之人,请在此安排这些事务。
1.12.20
तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् ।
पार्थिवेन्द्रस्य तद् वाक्यं यथाज्ञप्तमकुर्वत ॥ १.१२.२० ॥
众大臣说“就照办”,并尊奉这位君王之主的话,依照命令而行。
1.12.21
ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् ।
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥ १.१२.२१ ॥
于是那些婆罗门赞颂这位明晓法度、王者中的雄牛;得到允许后,他们都沿来路返回了。
1.12.22
गतेषु तेषु विप्रेषु मन्त्रिणस्तान् नराधिपः ।
विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ॥ १.१२.२२ ॥
众婆罗门离去后,这位大智的人主遣散了众大臣,自己走进了宫殿。