Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.13

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.13.1

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।
प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥ १.१३.१ ॥

春天再次来临时,一年已满。于是这位有力者为举行马祭(阿说梅达)而前往受戒。

1.13.2

अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।
अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥ १.१३.२ ॥

他依礼向婆悉吒行礼,并以敬意回报,然后对那位最优秀的再生者(婆罗门)谦恭地说出为受戒所作的请求。

1.13.3

यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव ।
यथा न विघ्नाः क्रियन्ते यज्ञाङ्गेषु विधीयताम् ॥ १.१३.३ ॥

婆罗门啊,最优秀的仙人,请依所说之法为我举行祭祀;安排妥当,使祭祀的各个环节不生障碍。

1.13.4

भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् ।
वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥ १.१३.४ ॥

您是我亲切的朋友,也是至高伟大的老师;所发起的祭祀之重担,必须由您来承担。

1.13.5

तथेति च स राजानमब्रवीद् द्विजसत्तमः ।
करिष्ये सर्वमेवैतद् भवता यत् समर्थितम् ॥ १.१३.५ ॥

那位最优秀的再生者对国王说:“就这样吧。你所请求的一切,我都会去做。”

1.13.6

ततोऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसुनिष्ठितान् ।
स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥ १.१३.६ ॥

于是他对那些年长的婆罗门说话——他们精通祭祀之仪,善于建造祭坛,极为守法。

1.13.7

कर्मान्तिकाञ्शिल्पकारान् वर्धकीन् खनकानपि ।
गणकाञ्शिल्पिनश्चैव तथैव नटनर्तकान् ॥ १.१३.७ ॥

监工、工匠、木匠、挖掘者、会计、熟练的技工,以及演员和舞者。

1.13.8

तथा शुचीञ्शास्त्रविदः पुरुषान् सुबहुश्रुतान् ।
यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥ १.१३.८ ॥

同样也要选择清净、精通经典、博学多闻的人。奉国王之命,请诸位主持祭祀之事。

1.13.9

इष्टका बहुसाहस्री शीघ्रमानीयतामिति ।
उपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः ॥ १.१३.९ ॥

并说:"快快运来成千上万的砖块。"也要为国王准备各种有用、功用卓著的器物。

1.13.10

ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ।
भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥ १.१३.१० ॥

还要为婆罗门建造数百座精美的住所,内备丰足的饮食,并且建造得十分完善。

1.13.11

तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः ।
आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ॥ १.१३.११ ॥

也要为城中的居民建造十分宽敞的住所,还要为从远方而来的诸王各自分别安排住处。

1.13.12

वाजिवारणशालाश्च तथा शय्यागृहाणि च ।
भटानां महदावासा वैदेशिकनिवासिनाम् ॥ १.१३.१२ ॥

还要建造马厩与象舍,以及寝室;为战士建造大型的住所,也为来自异国他乡的居民建造住处。

1.13.13

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ।
तथा पौरजनस्यापि जनस्य बहुशोभनम् ॥ १.१३.१३ ॥

住所备有丰盛的食物和一切所欲之物;城中居民及所有人也同样极为华美。

1.13.14

दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया ।
सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥ १.१३.१४ ॥

食物应依礼制、以敬意奉上,而非随意戏弄;使各个种姓都得到妥善的礼遇与尊重。

1.13.15

न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ।
यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा ॥ १.१३.१५ ॥

即使出于贪欲或愤怒,也不可轻慢他人;对于忙于祭祀之事的人和工匠也是如此。

1.13.16

तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ।
ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च ॥ १.१३.१६ ॥

对他们也应依次特别予以敬重;以财物和食物使所有人都得到妥善的尊重。

1.13.17

यथा सर्वं सुविहितं न किंचित् परिहीयते ।
तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा ॥ १.१३.१७ ॥

使一切安排妥当、毫无缺失;愿诸位以欢喜之心去做。

1.13.18

ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् ।
यथेष्टं तत् सुविहितं न किंचित् परिहीयते ॥ १.१३.१८ ॥

于是众人聚集,对筏悉瑟吒说:一切都已按您所希望的妥善安排,没有任何缺失。

1.13.19

यथोक्तं तत् करिष्यामो न किंचित् परिहास्यते ।
ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् ॥ १.१३.१९ ॥

我们将按所说的去做,不会遗漏任何东西。于是Vasiṣṭha召来Sumantra,说了这些话。

1.13.20

निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ।
ब्राह्मणान् क्षत्रियान् वैश्याञ्शूद्रांश्चैव सहस्रशः ॥ १.१३.२० ॥

邀请大地上的正义之王,还有成千上万的婆罗门、刹帝利、吠舍和首陀罗。

1.13.21

समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ।
मिथिलाधिपतिं शूरं जनकं सत्यवादिनम् ॥ १.१३.२१ ॥

以礼相邀各地的人们,并请米提拉之主、勇敢而诚实的遮那伽。

1.13.22

तमानय महाभागं स्वयमेव सुसत्कृतम् ।
पूर्वं सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥ १.१३.२२ ॥

你亲自以最高的礼敬把那位大福之人请来。因我早知他是亲族,所以先告诉你。

1.13.23

तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् ।
सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह ॥ १.१३.२३ ॥

同样,请亲自请来迦尸之主,他慈爱、言语总是温和、品行端正、如同天神。

1.13.24

तथा केकयराजानं वृद्धं परमधार्मिकम् ।
श्वशुरं राजसिंहस्य सपुत्रं तमिहानय ॥ १.१३.२४ ॥

同样,请把年迈而极为正直的Kekaya王,即王中之狮的岳父,连同他的儿子一起请到这里来。

1.13.25

अङ्गेश्वरं महेष्वासं रोमपादं सुसत्कृतम् ।
वयस्यं राजसिंहस्य सपुत्रं तमिहानय ॥ १.१३.२५ ॥

把安伽之主、大弓箭手、备受尊敬的罗摩跋陀请来,连同他的儿子,带到这里。

1.13.26

तथा कोसलराजानं भानुमन्तं सुसंस्कृतम् ।
मगधाधिपतिं शूरं सर्वशास्त्रविशारदम् ॥ १.१३.२६ ॥

同样,把憍萨罗王婆奴曼请来,他气度高雅,是摩揭陀之主,勇猛且精通一切学问。

1.13.27

प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम् ।
राज्ञः शासनमादाय चोदयस्व नृपर्षभान् ।
प्राचीनान् सिन्धुसौवीरान् सौराष्ठ्रेयांश्च पार्थिवान् ॥ १.१३.२७ ॥

带来那位知礼、极其慷慨、备受尊敬的人中之牛,奉王命行事;催促那些王中之牛——东方诸王、信度与娑维罗的诸王以及娑罗陀罗的诸王。

1.13.28

दाक्षिणात्यान् नरेन्द्रांश्च समस्तानानयस्व ह ।
सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥ १.१३.२८ ॥

把南方的所有人主都请来。大地之上还有其他友好的国王。

1.13.29

तानानय यथा क्षिप्रं सानुगान् सहबान्धवान् ।
एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया ॥ १.१३.२९ ॥

迅速把他们连同随从和亲属带来。奉王命,通过福德深厚的使者,把这些人全部带来。

1.13.30

वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितं तदा ।
व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान् ॥ १.१३.३० ॥

苏曼特拉听了婆罗诃的话,立刻派遣优秀的人去那里,把诸王请来。

1.13.31

स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात् ।
सुमन्त्रस्त्वरितो भूत्वा समानेतुं महामतिः ॥ १.१३.३१ ॥

德性高尚的须曼特罗因仙人的命令,亲自动身,急忙去召集诸王,这位大智者。

1.13.32

ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये ।
सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥ १.१३.३२ ॥

那些工程监督者都向大仙人婆悉瑟吒报告了为祭祀所安排的一切。

1.13.33

ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् मुनिरब्रवीत् ।
अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ॥ १.१३.३३ ॥

于是这位欢喜的婆罗门中的最优者仙人对他们所有人说:不可以轻慢地、或随意地把布施给予任何人。

1.13.34

अवज्ञया कृतं हन्याद् दातारं नात्र संशयः ।
ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥ १.१३.३४ ॥

以轻慢所做的布施会毁灭布施者本人,这毫无疑问。随后,过了若干昼夜,诸王便来到了那里。

1.13.35

बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह ।
ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ॥ १.१३.३५ ॥

为十车王带来了许多宝石;于是非常欢喜的婆悉瑟吒对国王说了这些话。

1.13.36

उपयाता नरव्याघ्र राजानस्तव शासनात् ।
मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः ॥ १.१३.३६ ॥

人中之虎啊,诸王已奉你的命令到来,我也已按礼节恭敬款待了所有这些最优秀的国王。

1.13.37

यज्ञियं च कृतं सर्वं पुरुषैः सुसमाहितैः ।
निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ॥ १.१३.३७ ॥

众人已用心备齐祭祀所需的一切;请您从近处出发,前往祭坛,举行祭祀。

1.13.38

सर्वकामैरुपहृतैरुपेतं वै समन्ततः ।
द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥ १.१३.३८ ॥

啊,诸王之主!那祭坛四周充满一切所愿之物,仿佛仅由心意所造,您理应前去一观。

1.13.39

तथा वसिष्ठवचनादृशष्यशृङ्गस्य चोभयोः ।
दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः ॥ १.१३.३९ ॥

于是,依照婆私吒与独角仙两人之言,在吉星之日,大地之主出发了。

1.13.40

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः ।
ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥ १.१३.४० ॥

于是,以婆私吒为首的所有上等再生者,推举独角仙居前,当时便开始了祭祀之事。

1.13.41

यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि ।
श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत् ॥ १.१३.४१ ॥

众人前往祭场,依照经典与仪轨就座;光荣的国王与诸妃一同就座,接受受戒。