ヴァールミーキのラーマーヤナ · サルガ 1.14
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.14.1
अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे ।
सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥ १.१४.१ ॥
一年が満ちて、かの馬が戻った時、王の祭祀がサラユー川の北岸で進められた。
1.14.2
ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः ।
अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥ १.१४.२ ॥
リシュヤシュリンガを先頭に立て、再生族の最も優れた者たちが、この大徳の王の大馬祠祭で儀礼を行った。
1.14.3
कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः ।
यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥ १.१४.३ ॥
ヴェーダに通じた祭官たちは規定どおりに儀礼を行い、正しい道理と聖典に従って巡行する。
1.14.4
प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः ।
चक्रुश्च विधिवत् सर्वमधिकं कर्म शास्त्रतः ॥ १.१४.४ ॥
聖典に従ってプラヴァルギャを行い、同じくウパサダも行い、再生族は規定と聖典に従って、その他のすべての附加の儀礼を行った。
1.14.5
अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि ।
प्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ॥ १.१४.५ ॥
それから、皆を敬って、喜びに満ちた最上の聖仙たちは、規定どおりに朝の搾りの儀礼から始まる儀式を行った。
1.14.6
ऐन्द्रश्च विधिवत् दत्तो राजा चाभिषुतोऽनघः ।
मध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम् ॥ १.१४.६ ॥
規定どおりインドラへの供物が捧げられ、罪なき王のソーマが搾られた。それから正午の搾りが順序どおりに始まった。
1.14.7
तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः ।
चक्रुस्ते शास्त्रतो दृष्ट्वा यथा ब्राह्मणपुङ्गवाः ॥ १.१४.७ ॥
最も優れたバラモンたちは、その偉大な心の王のために、経典に従い、見てきた通りに第三の供犠の搾り(サヴァナ)も執り行った。
1.14.8
आह्वायाञ्चक्रिरे तत्र शक्रादीन् विबुधोत्तमान् ।
ऋष्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः ॥ १.१४.८ ॥
そこでリシャシュリンガらは、音声と音節が正しく備わった真言によって、インドラをはじめとする最上の神々を招請した。
1.14.9
गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः ।
होतारो ददुरावाह्य हविर्भागान् दिवौकसाम् ॥ १.१४.९ ॥
甘美で柔らかな歌と真言の招請によって、ふさわしいやり方で、ホータルらは天界の住人を招き、供物の分け前を与えた。
1.14.10
न चाहुतमभूत् तत्र स्खलितं वा न किञ्चन ।
दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे ॥ १.१४.१० ॥
そこでは供物に欠陥はなく、どんな過ちも見られなかった。すべてはヴェーダのように非の打ちどころがなく、彼らは安泰のうちにすべてを成し遂げた。
1.14.11
न तेष्वहःसु श्रान्तो वा क्षुधितो वा न दृश्यते ।
नाविद्वान् ब्राह्मणः कश्चिन्नाशतानुचरस्तथा ॥ १.१४.११ ॥
その日々、彼らの中に疲れた者も飢えた者も見られなかった。無学のバラモンもおらず、食べ物を与えられなかった従者もいなかった。
1.14.12
ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते ।
तापसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते ॥ १.१४.१२ ॥
バラモンは毎日食事をし、扶養される者を持つ人々も食べた。苦行者も食べ、出家修行者もまた食べた。
1.14.13
वृद्धाश्च व्याधिताश्चैव स्त्रीबालाश्च तथैव च ।
अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥ १.१४.१३ ॥
老人も病人も、女も子どもも絶えず食べていたが、満足の様子は見えなかった。
1.14.15
दीयतां दीयतामन्नं वासांसि विविधानि च ।
अन्नकूटाश्च दृश्यन्ते बहवः पर्वतोपमाः ।
दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा ॥ १.१४.१५ ॥
「食べ物を与えよ、食べ物を与えよ」と言われ、様々な衣服も施された。そこには山のような食べ物の山がいくつも見えた。毎日、儀礼どおりに遂行されたその祭礼では、そのときもこのようであった。
1.14.16
नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा ।
अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः ॥ १.१४.१६ ॥
さまざまな国から来た男たちや女たちの群れも、その大いなる魂の人の祭礼で、飲食を十分に供されていた。
1.14.17
अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः ।
अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः ॥ १.१४.१७ ॥
「ああ、満足した。あなた方に幸あれ」——最上の再生族たちは、規則どおりに調えられた美味しい食べ物を称賛していた。それをラーガヴァは聞いた。
1.14.18
स्वलंकृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् ।
उपासन्ते च तानन्ये सुमृष्टमणिकुण्डलाः ॥ १.१४.१८ ॥
立派に飾った男たちがバラモンに給仕し、磨かれた宝玉の耳飾りをつけた他の者たちが彼らに仕えた。
1.14.19
कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।
प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया ॥ १.१४.१९ ॥
そのとき、儀礼の合間に、弁舌の巧みで志の堅い再生族たちが、互いに打ち負かそうとして多くの論を述べた。
1.14.20
दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।
सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥ १.१४.२० ॥
毎日、祭場にて熟練のバラモンたちは聖典に従って導かれ、すべての儀式を執り行った。
1.14.21
नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः ।
सदस्यास्तस्य वै राज्ञो नावादकुशलो द्विजः ॥ १.१४.२१ ॥
その王の集会には、六つのヴェーダーンガに通じない者も、誓戒を守らない者も、学識の浅い者も、論議に不慣れな者もいなかった。
1.14.22
प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास्तथा ।
तावन्तो बिल्वसहिताः पर्णिनश्च तथा परे ॥ १.१४.२२ ॥
祭柱を立てる時が来ると、ビルヴァ材の柱が六本、同じくカディラ材の柱が六本、ビルヴァを伴うものが同数、パルナ材などの他の柱が立てられた。
1.14.23
श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा ।
द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥ १.१४.२३ ॥
シュレーシュマータカ材のものと、同じくデーヴァダールの木材のものが規定されていた。そこではわずか二本が定められ、握るための腕が分けて置かれていた。
1.14.24
कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।
शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन् ॥ १.१४.२४ ॥
これらはすべて聖典に通じ祭祀に熟達した者たちによって作られ、その祭祀の輝きのために、すべてが金で飾られた。
1.14.25
एकविंशतियूपास्ते एकविंशत्यरत्नयः ।
वासोभिरेकविंशद्भिरेकैकं समलंकृताः ॥ १.१४.२५ ॥
それは二十一本の祭柱で、それぞれ長さは二十一アラトニ、そしてそれぞれが二十一枚の衣で美しく飾られていた。
1.14.26
विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः ।
अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥ १.१४.२६ ॥
すべては職人によって規則どおりに据えられ、よく造られて堅固であった。いずれも八隅を持ち、滑らかで繊細な形をしていた。
1.14.27
आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः ।
सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥ १.१४.२७ ॥
衣で覆われ、花と香りで供養されたそれらは、天上に輝く七仙人のように輝いていた。
1.14.28
इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।
चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥ १.१४.२८ ॥
煉瓦もまた規則どおり、正しい寸法で作られた。そこで、シュルバの儀式に熟達したバラモンたちによって火の祭壇が築かれた。
1.14.29
स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः ।
गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥ १.१४.२९ ॥
王中の獅子(ダシャラタ)のその火の祭壇は、熟達した再生族のバラモンたちによって築かれた。それは金色の翼を持つガルダであり、三重で十八の部分からなっていた。
1.14.30
नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।
उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥ १.१४.३० ॥
そこでは、それぞれの神格に向けて動物が割り当てられた。蛇や鳥もまた、聖典に従って定められた。
1.14.31
शामित्रे तु हयस्तत्र तथा जलचराश्च ये ।
ऋषिभिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥ १.१४.३१ ॥
シャーミトラの儀式では、そこに馬と水棲の生き物もいた。そのとき聖仙たちは、聖典に従ってこれらすべてを定めた。
1.14.32
पशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।
अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य ह ॥ १.१४.३२ ॥
そこでは祭柱に三百の獣が繋がれていた。そこには王ダシャラタの最上の馬の宝もいた。
1.14.33
कौसल्या तं हयं तत्र परिचर्य समन्ततः ।
कृपाणैर्विससारैनं त्रिभिः परमया मुदा ॥ १.१४.३३ ॥
そこでカウサリヤーはその馬を四方から世話し、無上の喜びをもって三本の剣でそれに触れた。
1.14.34
पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा ।
अवसद् रजनीमेकां कौसल्या धर्मकाम्यया ॥ १.१४.३४ ॥
その鳥のような(馬)と共に、心を安定させ、法を願って、カウサリヤーはその一夜をそこで過ごした。
1.14.35
होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् ।
महिष्या परिवृत्त्याथ वावातामपरां तथा ॥ १.१४.३५ ॥
ホートリ、アドヴァリュ、ウドガートリの祭司たちは手でそれを結び合わせた。続いて第一王妃が回り、同様にもう一つの儀式を行った。
1.14.36
पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः ।
ऋत्विक्परमसम्पन्नः श्रपयामास शास्त्रतः ॥ १.१४.३६ ॥
その鳥のような(馬)の脂肪を取り出し、感官を制御し、祭儀に最も熟達した祭官は、聖典に従ってそれを煮させた。
1.14.37
धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः ।
यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥ १.१४.३७ ॥
王は脂肪の煙の香りを嗅いだ。適切な時に、正しく、自らの罪を払いのけながら。
1.14.38
हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः ।
अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः ॥ १.१४.३८ ॥
馬のすべての部位を、十六人の祭官のバラモンたちが規定どおりに火に捧げる。
1.14.39
प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः ।
अश्वमेधस्य चैकस्य वैतसो भाग इष्यते ॥ १.१४.३९ ॥
他の祭式では供物はプラクシャの枝に捧げられるが、馬祭では一つの分け前がヴァイタサ(籐)に定められている。
1.14.40
त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः ।
चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥ १.१४.४० ॥
ブラーフマナたちは儀軌経典によって馬祭を三日間の祭式と数え、その第一日は四讃歌祭(catuṣṭoma)と定められた。
1.14.41
उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् ।
कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥ १.१४.४१ ॥
第二日はウクティヤ、続く日はアティラートラと数えられ、経典の教えに従って多くの人がそこに任命された。
1.14.42
ज्योतिष्टोमायुषी चैवमतिरात्रौ च निर्मितौ ।
अभिजिद्विश्वजिच्चैवमाप्तोर्यामौ महाक्रतुः ॥ १.१४.४२ ॥
同じくジョーティシュトーマとアーユシー、二つのアティラートラが設けられ、アビジット、ヴィシュヴァジット、アープトーリヤーマも定められた。こうして大祭が整えられた。
1.14.43
प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः ।
अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥ १.१४.४३ ॥
自らの一族を栄えさせる王は、ホトリ祭官に東の方角を、アドヴァリユ祭官に西の方角を、ブラフマン祭官に南の方角をダクシナーとして与えた。
1.14.44
उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता ।
अश्वमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥ १.१४.४४ ॥
ウドガートリにも同様に北の方角が与えられた。この南の方角は、昔スヴァヤンブー(ブラフマー)が定めた大いなる馬の祭礼において割り当てられたものである。
1.14.45
क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः ।
ऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः ॥ १.१४.४५ ॥
祭祀を終えると、人中の雄牛にして一族を栄えさせる王は、正しき道に則ってその大地を祭官たちに与えた。
1.14.46
एवम् दत्त्वा प्रहृष्टोऽभूच्छ्रीमाननिक्ष्वाकुनन्दनः ।
ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकिल्बिषम् ॥ १.१४.४६ ॥
このように布施して、イクシュヴァーク族を喜ばせる輝かしき王は喜んだ。そのとき、すべての祭官は罪なき王に言った。
1.14.47
भवानेव महीं कृत्स्नामेको रक्षितुमर्हति ।
न भूम्या कार्यमस्माकं नहि शक्ताः स्म पालने ॥ १.१४.४७ ॥
全土を守るにふさわしいのは、ただあなた一人です。我らには大地は無用で、それを治める力もありません。
1.14.48
रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप ।
निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ॥ १.१४.४८ ॥
大地の主よ、我らは常にヴェーダの学習に専念しております。ですから、ここで何か代償をお与えください。
1.14.49
मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् ।
तत् प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥ १.१४.४९ ॥
宝玉、黄金、あるいは牛など、手近にあるものを与えてください、人中の最上の方よ。大地は我らには無用です。
1.14.50
एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः ।
गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥ १.१४.५० ॥
ヴェーダに通じたバラモンたちにこう告げられると、王は彼らに百万頭の牛を施した。
1.14.51
दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् ।
ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ॥ १.१४.५१ ॥
金十クローレ、その四倍の銀。やがて祭官たち全員が共に財を受け取った。
1.14.52
ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते ।
ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ॥ १.१४.५२ ॥
聖者リシュヤシュリンガと賢者ヴァシシュタにも。そして最上のバラモンたちは正しく分配した。
1.14.53
सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् ।
ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ॥ १.१४.५३ ॥
皆は心から大いに喜び、喜びに満ちて答えた。そして注意深い王は巡回の従者たちに黄金を与えた。
1.14.54
जाम्बूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा ।
दरिद्राय द्विजायथ हस्ताभरणमुत्तमम् ॥ १.१४.५४ ॥
そのとき彼はバラモンたちにジャンブーナダ金を千万単位で施し、貧しいバラモンには優れた手飾りを与えた。
1.14.55
कस्मैचित् याचमानाय ददौ राघवनन्दनः ।
ततः प्रीतेषु विधिवत् द्विजेषु द्विजवत्सलः ॥ १.१४.५५ ॥
乞う者に、ラグ族の喜びである王子が与えた。そして法にのっとり満足した婆羅門たちの中で、婆羅門を慈しむ王が施した。
1.14.56
प्रणाममकरोत् तेषां हर्षव्याकुलितेन्द्रियः ।
तस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः ॥ १.१४.५६ ॥
喜びに心が揺さぶられた王は、彼らに礼拝した。するとバラモンたちは様々な祝福の言葉を述べた。
1.14.57
उदारस्य नृवीरस्य धरण्यां पतितस्य च ।
ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ॥ १.१४.५७ ॥
気高き人中の英雄は地に倒れた。そして喜びの心の王は、無上の祭祀を得て……
1.14.58
पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः ।
ततोऽब्रवीदृशष्यशृङ्गं राजा दशरथस्तदा ॥ १.१४.५८ ॥
罪を除き天界へ導く、王中の雄牛たちにさえ成し遂げがたい祭祀を得て、そのときダシャラタ王はリシュヤシュリンガに語った。
1.14.59
कुलस्य वर्धनं तत् तु कर्तुमर्हसि सुव्रत
तथेति च स राजानमुवाच द्विजसत्तमः
भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥ १.१४.५९ ॥
一族を栄えさせるために、汝はぜひそれを行うべきだ、善き誓いを持つ者よ。「そうなるように」と、最上のバラモンは王に言った。王よ、汝には一族を担う四人の息子が生まれるであろう。
1.14.60
स तस्य वाक्यं मधुरं निशम्य
प्रणम्य तस्मै प्रयतो नृपेन्द्रः ।
जगाम हर्षं परमं महात्मा
तमृष्यशृङ्गं पुनरप्युवाच ॥ १.१४.६० ॥
その甘美な言葉を聞き、王の中の王は慎み深く彼に礼拝した。偉大な魂の王は無上の喜びを得て、再びリシュヤシュリンガに語りかけた。