蚁垤《罗摩衍那》 · 篇 1.15
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.15.1
मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् ।
लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥ १.१५.१ ॥
于是这位聪慧的吠陀通人沉思片刻,恢复神志后,对国王作了如下回答。
1.15.2
इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् ।
अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः ॥ १.१५.२ ॥
我将为你举行求子祭(putreṣṭi),依照《阿闼婆·舍罗》所示的咒语,如法完成此祭。
1.15.3
ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् ।
जुहावाग्नौ च तेजस्वी मन्त्रदृष्टेन कर्मणा ॥ १.१५.३ ॥
于是这位光明的仙人开始举行求子之祭,依照咒语所示的仪轨向火中献祭。
1.15.4
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥ १.१५.४ ॥
于是诸天神、乾达婆、悉陀以及大仙,依仪轨聚集,以领取各自的祭分。
1.15.5
ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः ।
अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं ततः ॥ १.१५.५ ॥
诸神依礼在那次集会中聚齐,随即对创世者梵天说了这些话。
1.15.6
भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः ।
सर्वान् नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥ १.१५.६ ॥
尊贵的主啊!依仗您的恩赐,一个名叫罗波那的罗刹以其威力折磨我们所有人,我们却无力制服他。
1.15.7
त्वया तस्मै वरो दत्तः प्रीतेन भगवंस्तदा ।
मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥ १.१५.७ ॥
尊贵的主啊,你当时心生欢喜,赐予了他恩惠。我们始终尊敬他,忍受他所做的一切。
1.15.8
उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः ।
शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥ १.१५.८ ॥
那心术不正之人扰乱高处的三界,且憎恨它们;他甚至想要侵犯众神之王因陀罗。
1.15.9
ऋषीन् यक्षान् सगन्धर्वान् ब्राह्मणानसुरांस्तदा ।
अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥ १.१५.९ ॥
被恩赐的恩惠迷惑,那不可战胜者如今欺凌仙人、夜叉、乾闼婆、婆罗门与阿修罗。
1.15.10
नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः ।
चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥ १.१५.१० ॥
太阳不照耀他,风也不在他身旁吹拂;见到他,即便是波涛如花环般起伏的大海也不颤动。
1.15.11
तन्महन्नो भयं तस्माद् राक्षसाद् घोरदर्शनात् ।
वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि ॥ १.१५.११ ॥
因此,我们对那相貌可怖的罗刹深感恐惧。尊贵的主啊,您应当想出杀死他的办法。
1.15.12
एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत् ।
हन्तायं विदितस्तस्य वधोपायो दुरात्मनः ॥ १.१५.१२ ॥
诸神都这样说了之后,他沉思片刻,然后说道:“杀死这个恶人的办法,我是知道的。”
1.15.13
तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् ।
अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥ १.१५.१३ ॥
他说:"愿我不被乾闼婆、夜叉、天神、檀那婆和罗刹所杀。"我说:"就这样吧。"
1.15.14
नाकीर्तयदवज्ञानात् तद् रक्षो मानुषांस्तदा ।
तस्मात् स मानुषाद् वध्यो मृत्युर्नान्योऽस्य विद्यते ॥ १.१५.१४ ॥
那罗刹出于轻慢,当时没有提到人类。因此他只能被人所杀;对他而言别无其他死亡之途。
1.15.15
एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् ।
देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा ॥ १.१५.१५ ॥
众神与诸大仙听到梵天所说的这些令人欣悦的话,都欢喜起来。
1.15.16
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः ।
शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥ १.१५.१६ ॥
此时,大光明的毗湿奴到来了,手持海螺、轮与杵,身着黄衣,是世界之主。
1.15.17
वैनतेयं समारुह्य भास्करस्तोयदम् यथा ।
तप्तहाटककेयूरो वन्द्यमानः सुरोत्तमैः ॥ १.१५.१७ ॥
乘坐毗那多之子迦楼罗,如太阳照在云上,佩戴着烧红的金臂钏,受诸位最上天神的礼敬。
1.15.18
ब्रह्मणा च समागत्य तत्र तस्थौ समाहितः ।
तमब्रुवन् सुराः सर्वे समभिष्टूय संनताः ॥ १.१५.१८ ॥
他与梵天一同来到那里,凝神而立。众神便向他深深致敬、赞颂,然后对他说。
1.15.19
त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया ।
राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभो ॥ १.१५.१९ ॥
毗湿奴啊,为了诸界的利益,我们request你:威力无边者啊,请成为阿约提之主、国王十车王的儿子。
1.15.20
धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः ।
तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च ॥ १.१५.२० ॥
他通达法(dharma),慷慨,其光辉与大仙人相等,他有三位妻子,如惭(hrī)、吉祥(śrī)与名声(kīrti)一般。
1.15.21
विष्णो पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम् ।
तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ॥ १.१५.२१ ॥
毗湿奴啊,将自身化为四身,降生为子;在那里,你以人身,除去已经极度膨胀的世间之刺。
1.15.22
अवध्यं दैवतैर्विष्णो समरे जहि रावणम् ।
स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ॥ १.१५.२२ ॥
毗湿奴啊,在战场上杀掉罗波那(Rāvaṇa),他是诸神无法杀死的;因为他折磨诸天、乾闼婆、悉陀和最优秀的仙人。
1.15.23
राक्षसो रावणो मूर्खो वीर्योद्रेकेण बाधते ।
ऋषयश्च ततस्तेन गन्धर्वाप्सरसस्तथा ॥ १.१५.२३ ॥
罗刹罗波那愚蠢,恃其强大的威力而压迫众生;诸仙人、乾闼婆与阿普萨拉斯也因他而同样受苦。
1.15.24
क्रीडन्तो नन्दनवने रौद्रेण विनिपातिताः ।
वधार्थं वयमायातास्तस्य वै मुनिभिः सह ॥ १.१५.२४ ॥
在难陀园中嬉戏的乾闼婆与阿普萨拉斯,被那残暴者击倒;我们与诸仙人一同前来,为要诛杀他。
1.15.25
सिद्धगन्धर्वयक्षाश्च ततस्त्वां श्ररणं गताः ।
त्वं गतिः परमा देव सर्वेषाम् नः परंतपः ॥ १.१५.२५ ॥
随后,悉陀、乾闼婆和夜叉也都来投奔你。神啊,你是我们所有人的至高归宿,焚灭敌人者啊。
1.15.26
वधाय देवशतॄणां नृणां लोके मनः कुरु ।
एवं स्तुतस्तु देवेशो विष्णुस्त्रिदशपुंगवः ॥ १.१५.२६ ॥
请将心意放在人间世界,以诛杀诸神的敌人。如此受到赞颂的神主毗湿奴,三十神中最杰出者,
1.15.27
पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः ।
अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ॥ १.१५.२७ ॥
他对以祖父为首的众神说话,受所有世界敬拜者对所有聚集的、具备法的三十神说道:
1.15.28
भयं त्यजत भद्रं वो हितार्थं युधि रावणम् ।
सपुत्रपौत्रं सामात्यं समन्त्रिज्ञातिबान्धवम् ॥ १.१५.२८ ॥
放下恐惧,愿你们安好。为了你们的利益,在战斗中,将罗波那连同他的子孙、大臣、谋士、亲族与同伴,
1.15.29
हत्वा क्रूरं दुराधर्षं देवर्षीणां भयावहम् ।
दशवर्षसहस्राणि दशवर्षशतानि च ॥ १.१५.२९ ॥
杀死这残忍、不可战胜、令诸神与仙人恐惧的罗刹之后,我将居留一万年,再加一百年,
1.15.30
वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ।
एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान् ॥ १.१५.३० ॥
我将居于人间,守护这片大地。如此赐予恩许之后,自制的神毗湿奴对诸神说——
1.15.31
मानुष्ये चिन्तयामास जन्मभूमिमथात्मनः ।
ततः पद्मपलाशाक्षः कृत्वात्मानं चतुर्विधम् ॥ १.१५.३१ ॥
于是莲花瓣般眼睛的主神思量在人间自己的降生之地,随后将自己化为四身。
1.15.32
पितरं रोचयामास तदा दशरथं नृपम् ।
ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः ।
स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ॥ १.१५.३२ ॥
于是他选定国王十车王作为父亲。随后,诸神、仙人、乾闼婆,连同楼陀罗与阿普萨拉群,以神圣的赞颂称颂摩豆苏陀那。
1.15.33
तमुद्धतं रावणमुग्रतेजसं
प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् ।
विरावणं साधु तपस्विकण्टकं
तपस्विनामुद्धर तं भयावहम् ॥ १.१५.३३ ॥
请彻底拔除那傲慢、威光猛烈、骄慢膨胀、与天主为敌、令世界哀号、为苦行者之刺、令人恐怖的罗波那。
1.15.34
तमेव हत्वा सबलं सबान्धवम्
विरावणं रावणमुग्रपौरुषम् ।
स्वर्लोकमागच्छ गतज्वरश्चिरं
सुरेन्द्रगुप्तं गतदोषकल्मषम् ॥ १.१५.३४ ॥
在杀死那位令世界哀号、勇武可怖的罗波那,连同其军队与亲族之后,请来到天界。那里长久无忧,由天主守护,没有过失与污秽。