蚁垤《罗摩衍那》 · 篇 1.16
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.16.1
ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः ।
जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥ १.१६.१ ॥
于是,被诸神中最优者所委任的那罗延毗湿奴,虽知诸神之来意,仍温和地说了这些话。
1.16.2
उपायः को वधे तस्य राक्षसाधिपतेः सुराः ।
यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥ १.१६.२ ॥
诸天啊,有何方法能杀死那罗刹之主?我借助何种方式,才能诛灭那根令仙人痛苦的荆棘?
1.16.3
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् ।
मानुषं रूपमास्थाय रावणं जहि संयुगे ॥ १.१६.३ ॥
诸神如此相问后,对不灭的毗湿奴说:你应化作人形,在战场上杀死罗波那。
1.16.4
स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दमः ।
येन तुष्टोऽभवद् ब्रह्मा लोककृल्लोकपूर्वजः ॥ १.१६.४ ॥
这位征服敌人者长久地修苦行,梵天——世界的创造者、诸世界的始祖——因此而感到满意。
1.16.5
संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः ।
नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ॥ १.१६.५ ॥
主神心中欢喜,便赐予那罗刹一个恩惠:除了人类,他不再惧怕各类生灵。
1.16.6
अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।
एवं पितामहात् तस्मात् वरदानेन गर्वितः ॥ १.१६.६ ॥
先前在受赐恩惠时,他便轻视人类;因此,以祖父梵天所赐的恩惠自傲,他变得骄慢起来。
1.16.7
उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्युपकर्षति ।
तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप ॥ १.१६.७ ॥
他毁灭三界,还劫夺妇女。因此他的死亡已注定由人类之手造成,哦,焚敌者。
1.16.8
इत्येतद् वचनं श्रुत्वा सुराणां विष्णुरात्मवान् ।
पितरं रोचयामास तदा दशरथं नृपम् ॥ १.१६.८ ॥
毗湿奴闻听诸神此言,自制的他便决定以国王十车王为父。
1.16.9
स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः ।
अयजत् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥ १.१६.९ ॥
那位无子的国王,当时光辉灿烂;他渴望有子,于是这位灭敌者举行了求子祭。
1.16.10
स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम् ।
अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥ १.१६.१० ॥
毗湿奴下定决心,向祖父告辞后隐去身形,受到诸神与大仙的敬奉。
1.16.11
ततो वै यजमानस्य पावकादतुलप्रभम् ।
प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम् ॥ १.१६.११ ॥
于是,从祭祀者的火中涌现出一位光辉无比、勇力与力量都十分强大的伟大存在。
1.16.12
कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् ।
स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् ॥ १.१६.१२ ॥
他肤色深暗,身穿红衣,面色赤红,声音如战鼓,头发与胡须光滑呈棕黄色,头发甚为出众。
1.16.13
शुभलक्षणसम्पन्नं दिव्याभरणभूषितम् ।
शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥ १.१६.१३ ॥
具备吉祥相貌,身饰天界装饰,身高如山峰,勇猛如傲慢的猛虎。
1.16.14
दिवाकरसमाकारं दीप्तानलशिखोपमम् ।
तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥ १.१६.१४ ॥
形如太阳,如同熊熊烈火的火焰;以精炼黄金制成,镶有银边并带银盖。
1.16.15
दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम् ।
प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥ १.१६.१५ ॥
双臂捧起一只盛满天界乳粥的大器皿,如同捧起心爱的妻子,仿佛它本身是由幻术造成的。
1.16.16
समवेक्ष्याब्रवीद् वाक्यमिदं दशरथं नृपम् ।
प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥ १.१६.१६ ॥
他注视着国王十车王,说出这些话:「大王啊,请知道我是生主之族的人,特来到此。」
1.16.17
ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः ।
भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते ॥ १.१६.१७ ॥
于是国王合掌答道:「尊贵的客人啊,欢迎您。我能为您做些什么?」
1.16.18
अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् ।
राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥ १.१६.१८ ॥
于是生主之族的那人又说道:「大王啊,因为你今日敬奉诸神,所以得到了这个。」
1.16.19
इदं तु नरशार्दूल पायसं देवनिर्मितम् ।
प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥ १.१६.१९ ॥
人中之虎啊!这是神所制的甘粥,能赐予子嗣,吉祥并增进健康,你且接受吧。
1.16.20
भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै ।
तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप ॥ १.१६.२० ॥
把它交给你相配的妻子们,说:「吃吧。」国王啊,你为之举行祭祀的那些儿子,将通过她们而得到。
1.16.21
तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् ।
पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम् ॥ १.१६.२१ ॥
国王欢喜地说:「好吧。」他低头接过那只金制的器皿,里面盛满神食,是诸神所赐。
1.16.22
अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् ।
मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥ १.१६.२२ ॥
他向那神奇而令人喜悦的存在致敬,怀着无上的喜悦,绕行向右致礼。
1.16.23
ततो दशरथः प्राप्य पायसं देवनिर्मितम् ।
बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥ १.१६.२३ ॥
于是十车王得到了诸神所制的甘粥,极为欢喜,如同贫穷之人得到了财富。
1.16.24
ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् ।
संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत ॥ १.१६.२४ ॥
于是那神奇而极为光明的存在完成了使命,就在那里消失了。
1.16.25
हर्षरश्मिभिरुद्द्योतं तस्यान्तःपुरमाबभौ ।
शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः ॥ १.१६.२५ ॥
他的内宫被喜悦的光芒照亮,犹如秋夜美丽的月光照耀天空。
1.16.26
सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् ।
पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥ १.१६.२६ ॥
他进入内宫,对憍萨罗说:“接受这份乳米粥吧,这是为你的儿子们准备的。”
1.16.27
कौसल्यायै नरपतिः पायसार्धं ददौ तदा ।
अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥ १.१६.२७ ॥
于是国王把乳米粥的一半给了憍萨罗,又把那一半的一半给了苏弥特拉。
1.16.28
कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् ।
प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ॥ १.१६.२८ ॥
为了求子,他把剩下的一半给了吉凯伊,又把乳米粥中那如甘露般的剩余一半给了她。
1.16.29
अनुचिन्त्य सुमित्रायै पुनरेव महामतिः ।
एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥ १.१६.२९ ॥
这位智慧的国王又想到苏弥特拉,于是把乳米粥分别给了每位王后。
1.16.30
ताश्चैवं पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः ।
सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥ १.१६.३० ॥
国王的这些贤良王后得到乳米粥后,都心怀喜悦,认为这是一种尊崇。
1.16.31
ततस्तु ताः प्राश्य तमुत्तमस्त्रियो
महीपतेरुत्तमपायसं पृथक् ।
हुताशनादित्यसमानतेजसो-
ऽचिरेण गर्भान् प्रतिपेदिरे तदा ॥ १.१६.३१ ॥
于是这些优秀的女子分别食用了君王那份上好的牛奶粥,很快便怀上了光辉如火与日的胎儿。
1.16.32
ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः
प्ररूढगर्भाः प्रतिलब्धमानसः ।
बभूव हृष्टस्त्रिदिवे यथा हरिः
सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥ १.१६.३२ ॥
于是国王看见那些胎气已经稳固、心中欢喜的女子,心中大喜,犹如天上的因陀罗(Hari),受到众神之主、悉陀与仙人群的礼敬而欢喜。