蚁垤《罗摩衍那》 · 篇 1.17
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.17.1
पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः ।
उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥ १.१७.१ ॥
当毗湿奴化身为那位伟大国王的儿子时,自生的世尊对所有天神说了这番话。
1.17.2
सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः ।
विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः ॥ १.१७.२ ॥
为了我们所有人福祉的守誓英雄毗湿奴,请创造能随意变化形体的强大助手。
1.17.3
मायाविदश्च शूरांश्च वायुवेगसमान् जवे ।
नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ॥ १.१७.३ ॥
精通幻术、勇猛、速如疾风、通晓谋略、智慧圆满、勇力与毗湿奴相等。
1.17.4
असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् ।
सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव ॥ १.१७.४ ॥
无可战胜、通晓方略与权谋、身体具有天神般的坚固,精通一切兵器之道,仿佛饮过甘露。
1.17.5
अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च ।
यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च ॥ १.१७.५ ॥
在众多上等天女(阿普萨拉斯)之中,在乾闼婆女的身体之中,在药叉与龙女之中,以及在熊女与持明女之中。
1.17.6
किन्नरीणां च गात्रेषु वानरीणां तनूषु च ।
सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥ १.१७.६ ॥
在紧那罗女与猴女的身体之中,以猴子之形,创造出勇力相等的儿子们。
1.17.7
पूर्वम् एव मया सृष्टो जाम्बवान् ऋक्ष पुङ्गवः ।
जृम्भमाणस्य सहसा मम वक्रात् अजायत ॥ १.१७.७ ॥
此前我已创造了熊族中最优秀的Jāmbavān;我打哈欠时,他突然从我口中诞生。
1.17.8
ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् ।
जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥ १.१७.८ ॥
世尊如此吩咐后,他们接受了命令,于是生下了具有猴形的子嗣。
1.17.9
ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः ।
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ॥ १.१७.९ ॥
大德的仙人、悉陀、持明、龙和乾闼婆也生出了在林中漫游的英勇之子。
1.17.10
वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमात्मजम् ।
सुग्रीवं जनयामास तपनस्तपतां वरः ॥ १.१७.१० ॥
因陀罗生下了与大因陀罗相似的猴王Vālin作为其子;炽热者中最优秀的太阳生下了Sugrīva。
1.17.11
बृहस्पतिस्त्वजनयत् तारं नाम महाकपिम् ।
सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥ १.१७.११ ॥
木星神Bṛhaspati生下了名为Tāra的大猴,他是所有首领猴中最有智慧、无与伦比的。
1.17.12
धनदस्य सुतः श्रीमान् वानरो गन्धमादनः ।
विश्वकर्मा त्वजनयन्नलं नाम महाकपिम् ॥ १.१७.१२ ॥
光辉的猴子Gandhamādana是财神Kubera之子;毗首羯摩生下了名为Nala的大猴。
1.17.13
पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः ।
तेजसा यशसा वीर्यादत्यरिच्यत वीर्यवान् ॥ १.१७.१३ ॥
光辉的尼罗(Nīla)是火神(Agni,帕瓦卡)之子,光彩如火。他英勇有力,以光辉、声名与勇力超越众人。
1.17.14
रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ ।
मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥ १.१७.१४ ॥
以美貌与财富著称、因容貌而受敬重的双子阿濕縛(Aśvin)亲自生下了迈丹陀(Maindа)和双毗陀(Dvivida)。
1.17.15
वरुणो जनयामास सुषेणं नाम वानरम् ।
शरभं जनयामास पर्जन्यस्तु महाबलः ॥ १.१७.१५ ॥
伐楼那(Varuṇa)生下名为苏舍那(Suṣeṇa)的猴子,大力的帕尔贾尼亚(Parjanya)生下了舍罗婆(Śarabha)。
1.17.16
मारुतस्यौरसः श्रीमान् हनुमान् नाम वानरः ।
वज्रसंहननोपेतो वैनतेयसमो जवे ॥ १.१७.१६ ॥
光辉的哈努曼(Hanumān)是风神(Māruta,即Vāyu)的亲生之子,是一只身躯坚如金刚、速度可与迦楼罗(Garuḍa)相比的猴子。
1.17.17
सर्ववानरमुख्येषु बुद्धिमान् बलवानपि ।
ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः ॥ १.१७.१७ ॥
在所有主要的猴子中,他既聪慧又强健。他们被创造出数以千计,都准备诛杀十首的罗波那(Rāvaṇa)。
1.17.18
अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ।
ते गजाचलसंकाशा वपुष्मन्तो महाबलाः ॥ १.१७.१८ ॥
他们力量无量,是英雄、勇士,能随意变化形体;大力者,身躯如山岳与大象。
1.17.19
ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ।
यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ॥ १.१७.१९ ॥
熊、猴及长尾叶猴之类很快诞生了,各自具有其所属神祇的形貌、装束与勇力。
1.17.20
अजायत समं तेन तस्य तस्य पृथक् पृथक् ।
गोलाङ्गूलीषु चोत्पन्नाः किंचिदुन्नतविक्रमाः ॥ १.१७.२० ॥
与之同时,各自从相应的神祇而分别诞生;从雌性叶猴所生者,勇力略逊一筹。
1.17.21
ऋक्षीषु च तथा जाता वानराः किन्नरीषु च ।
देवा महर्षिगन्धर्वास्तार्क्ष्ययक्षा यशस्विनः ॥ १.१७.२१ ॥
猴子也从母熊与紧那罗女所生;诸天、大仙、乾闼婆、迦叶(伽卢荼)与夜叉皆生有名望的子嗣。
1.17.22
नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः ।
बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः ॥ १.१७.२२ ॥
那伽、紧那罗(金人)、悉陀、持明仙与大蛇众,欢喜地在那里生了成千上万的众多子嗣。
1.17.23
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ।
वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ॥ १.१७.२३ ॥
遮罗那也创造了游荡于林中的英勇子嗣;所有在林中游荡的猴子都有极其庞大的身躯。
1.17.24
अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च ।
नागकन्यासु च तदा गन्धर्वीणां तनूषु च ।
कामरूपबलोपेता यथाकामविचारिणः ॥ १.१७.२४ ॥
在诸位主要的阿普萨拉斯、持明女、龙女以及乾闼婆女的身躯中,也诞生了具备随意变化形体之力、随心游走的众生。
1.17.25
सिंहशार्दूलसदृशा दर्पेण च बलेन च ।
शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ॥ १.१७.२५ ॥
他们个个如狮虎一般,骄勇与力量亦然。巨石是他们的武器,众人以足与树木作战。
1.17.26
नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः ।
विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् ॥ १.१७.२६ ॥
指甲与牙齿便是他们的武器,众人皆精通一切兵器。他们能撼动山王,劈开挺立的树木。
1.17.27
क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ।
दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवान् ॥ १.१७.२७ ॥
他们以疾速可以搅动河流之主大海;以足可以劈裂大地,跃过广阔的大海。
1.17.28
नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान् ।
गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने ॥ १.१७.२८ ॥
他们能够进入天空,甚至抓住雨云;也能抓住在林中游荡的发狂大象。
1.17.29
नर्दमानांश्च नादेन पातयेयुर्विहङ्गमान् ।
ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् ॥ १.१७.२९ ॥
他们咆哮,以吼声便能震落飞鸟。这些便是能随意变化形貌的猴族之后裔。
1.17.30
शतं शतसहस्राणि यूथपानां महात्मनाम् ।
ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ॥ १.१७.३० ॥
伟大的群主有百人,亦有数十万人。他们是猴族主要群队中的群队之首。
1.17.31
बभूवुर्यूथपश्रेष्ठान् वीरांश्चाजनयन् हरीन् ।
अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः ॥ १.१७.३१ ॥
他们生育了最优秀的猴群首领和英勇的猴子。其他的数以千计,前往ṛkṣavat山的山坡。
1.17.32
अन्ये नानाविधाञ्छैलान् काननानि च भेजिरे ।
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ॥ १.१७.३२ ॥
其他的人则投奔各种山岳与森林,并依附于太阳之子须羯哩婆和因陀罗之子婆理。
1.17.33
भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः ।
नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ॥ १.१७.३३ ॥
两位兄弟都受到了所有猴群首领的侍奉:那罗、尼罗、哈奴曼以及其他猴群首领。
1.17.34
ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः ।
विचरन्तोऽर्दयन् सर्वान् सिंहव्याघ्रमहोरगान् ॥ १.१७.३४ ॥
他们都具有迦鲁达(Tārkṣya)般的力量,善于战斗;四处游荡,骚扰一切,包括狮子、老虎和大蛇。
1.17.35
महाबलो महाबाहुर्वाली विपुलविक्रमः ।
जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥ १.१७.३५ ॥
大力、大臂、威武无比的婆理以双臂之力保护熊、牛尾猴和猴子。
1.17.36
तैरियं पृथिवी शूरैः सपर्वतवनार्णवा ।
कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥ १.१७.३६ ॥
这片大地,连同山岳、森林与海洋,被这些英雄充满,形态各异,带有种种标记与特征。
1.17.37
तैर्मेघवृन्दाचलकूटसंनिभै-
र्महाबलैर्वानरयूथपाधिपैः
बभूव भूर्भीमशरीररूपैः
समावृता रामसहायहेतोः ॥ १.१७.३७ ॥
那些如云团、山峰般的大力猴群首领们,身形与相貌都令人恐惧,为了助成罗摩,大地被他们覆盖了。