蚁垤《罗摩衍那》 · 篇 1.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.19.1
तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् ।
हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ १.१९.१ ॥
毗首密多罗大光明者听了王中狮子那奇妙详尽的话语,喜得汗毛竖起,于是说道。
1.19.2
सदृशं राजशार्दूल तवैवं भुवि नान्यतः ।
महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः ॥ १.१९.२ ॥
王中猛虎啊,你在大地上说出这样的话是相称的,别无他者;你生于伟大的家族,是婆悉吒的弟子。
1.19.3
यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् ।
कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः ॥ १.१९.३ ॥
我心中所想的话语,以及那件事的决心,你要去完成;王中猛虎啊,要做一个守信践诺的人。
1.19.4
अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ ।
तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ ॥ १.१९.४ ॥
为了成就此事,我持守一项誓愿,人中雄牛啊;而有两个能随意变化形貌的罗刹,成为它的障碍。
1.19.5
व्रते तु बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ ।
मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥ १.१९.५ ॥
在誓愿多次修行、将近圆满之时,这两个罗刹——摩利支与苏婆呼——勇猛而训练有素。
1.19.6
तौ मांसरुधिरौघेण वेदिं तामभ्यवर्षताम् ।
अवधूते तथाभूते तस्मिन् नियमनिश्चये ॥ १.१९.६ ॥
二者以肉与血的洪流倾注于那祭坛之上,那誓愿的决心便这样被破坏了。
1.19.7
कृतश्रमो निरुत्साहस्तस्माद् देशादपाक्रमे ।
न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ॥ १.१९.७ ॥
我疲惫且无心,将离开那个地方;但是,国王啊,我的心并不愿意放下我的愤怒。
1.19.8
तथाभूता हि सा चर्या न शापस्तत्र मुच्यते ।
स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् ॥ १.१९.८ ॥
他们的行为本就如此,在那里诅咒是不会解除的。王中之虎啊,你的儿子罗摩,真正勇武的……
1.19.9
काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ।
शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ॥ १.१९.९ ॥
你应当把你那身披乌鸦翎饰的勇猛长子交给我;他受我保护,凭借自己的神圣光辉就能胜任。
1.19.10
राक्षसा ये विकर्तारस्तेषामपि विनाशने ।
श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः ॥ १.१९.१० ॥
对于那些残害者罗刹的消灭,我也将赐予他至善与多种形态的恩惠,此无疑问。
1.19.11
त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति ।
न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन ॥ १.१९.११ ॥
借此他将在三界中获得名声;而那两人一旦遇上罗摩,无论如何也无法站稳。
1.19.12
न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् ।
वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ ॥ १.१९.१२ ॥
除了罗怙后裔,没有别的男子敢杀他们;那些因勇力而骄狂的罪人,已经落入死神绳索的掌控之中。
1.19.13
रामस्य राजशार्दूल न पर्याप्तौ महात्मनः ।
न च पुत्रगतं स्नेहं कर्तुमर्हसि पार्थिव ॥ १.१९.१३ ॥
王中之虎啊,他们无法与大德的罗摩相比。国王啊,你不应对儿子存有眷恋。
1.19.14
अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ ।
अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ॥ १.१९.१४ ॥
我向你承诺:那两个罗刹已被杀死,你要知道。我了解大德的罗摩,他的勇力是真实的。
1.19.15
वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः ।
यदि ते धर्मलाभं च यशश्च परमं भुवि ॥ १.१९.१५ ॥
即使是光耀的婆悉吒,以及这些安住于苦行中的人——如果你渴望法的福报和大地上的至高名声。
1.19.16
स्थिरमिच्छसि राजेन्द्र रामं मे दातुमर्हसि ।
यद्यभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः ॥ १.१९.१६ ॥
王中之王啊,若你想要恒久之物,你应将罗摩交给我——如果你的大臣们,啊,迦古特stha,予以允许。
1.19.17
वसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय ।
अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि ॥ १.१९.१७ ॥
然后,由婆悉吒为首的所有人同意,送出罗摩。你应当把你心爱的、不受阻碍的儿子交给我。
1.19.18
दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् ।
नात्येति कालो यज्ञस्य यथायं मम राघव ॥ १.१९.१८ ॥
罗怙之裔啊,祭祀只剩十夜;请送出莲花眼的罗摩,使我的祭祀之时不致错过。
1.19.19
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ।
इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ॥ १.१९.१९ ॥
你就这样做吧,愿你平安,不要让心陷入忧伤。说完这番话,这位心怀正法的人说出了与法与利相连的言辞。
1.19.20
विरराम महातेजा विश्वामित्रो महामतिः ।
स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम् ॥ १.१९.२० ॥
光辉伟大、智慧深邃的毗奢密多罗停止了说话。诸王之主听了毗奢密多罗吉祥的话语之后……
1.19.21
शोकेन महताविष्टश्चचाल च मुमोह च ।
लब्धसंज्ञस्तदोत्थाय व्यषीदत भयान्वितः ॥ १.१९.२१ ॥
被巨大的悲伤所笼罩,他颤抖并昏厥。恢复知觉后他站起身来,随即又因恐惧而跌坐下去。
1.19.22
मुनिवचनं तदतीव शुश्रुवान् ।
नरपतिरभवन्महान् महात्मा
व्यथितमनाः प्रचचाल चासनात् ॥ १.१९.२२ ॥
他完整地听完了仙人的话,这位高尚的人主心神不安,从座位上颤抖起来。