Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.23

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.23.1

प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः ।
अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे ॥ १.२३.१ ॥

夜尽天明时,大仙人毗首弥多罗对躺在落叶床上的迦古私他之后罗摩说话。

1.23.2

कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १.२३.२ ॥

罗摩啊,高尔莎雅生下了好儿子。东方的晨祷时刻已经开始。起来吧,人中之虎!应当举行每日的神圣仪式。

1.23.3

तस्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ ।
स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥ १.२३.३ ॥

两位英雄,人中之最,听了仙人极其慷慨的话语后,沐浴,行献水礼,并念诵了至上的咒语。

1.23.4

कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् ।
अभिवाद्यातिसंहृष्टौ गमनायाभितस्थतुः ॥ १.२३.४ ॥

两位大力的兄弟完成每日的仪式后,向以苦行为财富的毗首弥多罗致敬,满心欢喜地站起来准备出发。

1.23.5

तौ प्रयान्तौ महावीर्यौ दिव्यां त्रिपथगां नदीम् ।
ददृशाते ततस्तत्र सरय्वाः संगमे शुभे ॥ १.२३.५ ॥

两位大力的兄弟前行时,看见了神圣的三道河(恒河);那里,就在与萨拉尤河吉祥的交汇处。

1.23.6

तत्राश्रमपदं पुण्यमृषीणां भावितात्मनाम् ।
बहुवर्षसहस्राणि तप्यतां परमं तपः ॥ १.२३.६ ॥

那里有一处神圣的修行处,住着心念纯净的仙人,他们已经修习至上苦行多达数千年。

1.23.7

तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् ।
ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥ १.२३.७ ॥

两位罗怙子见到这座圣洁的修行处,极为欢喜,便对那位大德的毗首彌多罗说了这番话。

1.23.8

कस्यायमाश्रमः पुण्यः को न्वस्मिन्वसते पुमान् ।
भगवञ्श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥ १.२३.८ ॥

这座圣洁的修行处属于谁?何人居住其中?尊者,我们二人愿意听闻;我们的好奇心很强。

1.23.9

तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः ॥ १.२३.९ ॥

毗首彌多罗听了他们的话,微笑着说:“罗摩,请听,这座修行处从前属于谁。”

1.23.10

कन्दर्पो मूर्तिमानासीत्काम इत्युच्यते बुधैः ।
तपस्यन्तमिह स्थाणुं नियमेन समाहितम् ॥ १.२३.१० ॥

智者称为迦摩(Kāma)的爱神迦檀波,曾有其形体。此处有湿婆(Sthāṇu),依戒律修行,心意专注。

1.23.11

कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् ।
धर्षयामास दुर्मेधा हुंकृतश्च महात्मना ॥ १.२३.११ ॥

这个愚昧的人侵扰了刚刚成婚、与诸风神同行的天主;那位大德以一声“吽”将他呵斥。

1.23.12

अवध्यातश्च रुद्रेण चक्षुषा रघुनन्दन ।
व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः ॥ १.२३.१२ ॥

罗怙之喜悦者啊,那愚昧之人被楼陀罗的眼光所咒,全身肢体从自己的身躯上枯萎脱落。

1.23.13

तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना ।
अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण ह ॥ १.२३.१३ ॥

在那里,他的身体被这位大德之人焚毁;天神之主因愤怒使爱神失去了身体。

1.23.14

अनङ्ग इति विख्यातस्तदा प्रभृति राघव ।
स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह ॥ १.२३.१४ ॥

罗怙之后啊,从那时起,他以“阿难伽”之名闻名。这位光荣者所舍弃身体之处,便成为他的领地——安伽国。

1.23.15

तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा ।
शिष्या धर्मपरा वीर तेषां पापं न विद्यते ॥ १.२३.१५ ॥

这座神圣的修道院曾属于他;这些贤人从前是他的弟子,恪守法道。英雄啊,他们之中没有罪过。

1.23.16

इहाद्य रजनीं राम वसेम शुभदर्शन ।
पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् ॥ १.२३.१६ ॥

罗摩啊,目光吉祥者啊,我们就在此地、两条圣河之间度过今夜吧;明天我们将渡河。

1.23.17

अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् ।
इह वासः परोऽस्माकं सुखं वस्त्यामहे निशाम् ॥ १.२३.१७ ॥

让我们all洁净地前往这座神圣的修道院吧;住在这里对我们最为有利。让我们安适地度过今夜。

1.23.18

स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम ।
तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा ॥ १.२३.१८ ॥

人中之杰啊,他们沐浴、诵持、献上供奉之后,在那里交谈之时,以长久苦行的慧眼看去。

1.23.19

विज्ञाय परमप्रीता मुनयो हर्षमागमन् ।
अर्घ्यं पाद्यं तथाऽऽतिथ्यं निवेद्य कुशिकात्मजे ॥ १.२३.१९ ॥

众仙人得知此事,极为欢喜;向拘舍迦之子奉上敬水、洗足水与待客之礼,

1.23.20

रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ।
सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् ॥ १.२३.२० ॥

随后,他们为罗摩与罗什曼那行待客之礼;受到敬意后,以谈话使二人欢喜。

1.23.21

यथार्हमजपन् संध्यामृषयस्ते समाहिताः ।
तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह ॥ १.२३.२१ ॥

众仙人依礼专心念诵晚祷,与由当地居民带来的守持誓愿的仙人们在一起。

1.23.22

न्यवसन् सुसुखं तत्र कामाश्रमपदे तथा ।
कथाभिरभिरामभिरभिरमौ नृपात्मजौ ।
रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥ १.२३.२२ ॥

二人在欲爱(Kāma)的苦行处安乐居住;正直的、仙人中最杰出的拘舍迦,以迷人的故事使两位王子欢喜。